________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४०
जैनेन्द्र-व्याकरणम्
[अ० १ पा० २ सू० १२२
पूर्वविधौ यस्य पूर्वो विधिर्नोक्तः । इह तु पूर्वमेव करणसञ्ज्ञा अधिकरणसञ्ज्ञा च विहिता । ब्रुविशास्योर्गुणेन च क्रियया कर्मणा वा यत् सचते सम्बध्यते तदकीर्तितमित्युक्तमाचार्येण । ब्रूवि - माणवकं धर्म ब्रूते । शासि - माणवकं धर्ममनुशास्ति । माणवकस्य सम्प्रदानत्वेनाविवक्षा । कथितमिति किम् ? देवदत्तात् गां याचते । चकारोऽनुक्तसमुच्चयार्थः । तेनम् "कालभावाध्वगन्तव्याः' कर्मसंज्ञा ह्यकर्मणामिति” लब्धम् । काले - मासमास्ते । संवत्सरं वसति । भावे - गोदोहं स्वपिति । श्रध्वा च स गन्तव्यश्चेति इच्छया विशेषणत्वम् । क्रोशमास्ते । क्रोशं स्वपिति । देशोऽपि कर्मसंज्ञ इति केचित् । कुरूनास्ते । कुरून् स्वपिति । अथ नीवहिहरतिकृषि जयत्यादयो द्विकर्मका उपलभ्यन्ते । तेषां कथं द्विकर्मकत्वं प्रधानाप्रधानकर्मणोः सामान्येनाऽप्यत्वात् । अजां नयति ग्रामम् । भारं वहति ग्रामम् । भारं हरति ग्रामम् । शाखां कर्षति ग्रामम् । देवदत्तो जिनदत्तं शतं जयति । देवदत्तो ग्रामं शतं दण्डयति । श्रयं तु विशेषः
I
"प्रधानकर्मण्यभिधेये लादीनाहुर्द्विकर्मणाम् । अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः ॥
Acharya Shri Kailassagarsuri Gyanmandir
नीयते अजा ग्रामम् । उद्यते भारो ग्रामम् । ह्रियते भारो ग्रामम् । कृष्यते शाखा ग्रामम् । जीयते जिनदत्तः शतम् । दण्ड्यते जिनदत्तः शतम् । श्रप्रधाने कर्मणि दुहादीनाम् । दुह्यते गौः पयः । याच्यते माणवको गाम् । अवरुध्यते गां व्रजः । पृच्छयते श्राचार्यो धर्मम् । भिक्ष्यते देवदत्तो गाम् । श्रवचीयते वृक्षः फलानि । उच्यते माणवको धर्मम् । शिष्यते माणवको धर्मम् । एयन्ते कर्तु च कर्मण इति उत्तर सूत्रेणाऽण्यन्तावस्थायां यः कर्त्ता एयन्तावस्थायां कर्मतामापन्नः प्रयोज्यस्तस्याभिधाने लादोनाहुः । बोध्यते माणवकः शास्त्रम् । गम्यते माणवको ग्रामम् । भोज्यते माणवक श्रोदनम् । श्रास्यते माणवको मासम् । अध्याप्येते माणवकौ जैनेन्द्रम् । ननु एयन्तेषु धुषु एयन्तवाच्यया क्रियया प्रेषणाऽध्येषणलक्षण्या यदाप्यते तत् प्रधानं कर्म । श्रवयवक्रियया यदाप्यते तदप्रधानम् । एवं च सति प्रधानकर्मण्यभिधेये लादीनाहुरित्यनेनैव सिद्धत्वादन
कमिदं एयन्ते कर्तुश्च कर्मण इति १ नानर्थकं समुच्चयार्थमेतत् प्रधाने कर्मणि लादयो भवन्त्यप्रधाने च । टेन बोध्यतॆ माणवकं धर्मः । भोज्यते माणवकमोदनः । श्रध्याप्यते माणवकं जैनेन्द्रः । कर्मणां गत्यर्थानां च प्रधान एव कर्मणि लादयः । श्रस्यते माणवको मासम् । श्रास्यते माणवको गोदोहम् । गम्यते माणवको ग्रामम् । प्राप्यते माणवको ग्रामम् ।
T
शागम्यद्यर्थधेरणि कर्ता णौ ॥१॥ - ॥१२२॥ ज्ञार्थानां गभ्यर्थानामद्यर्थानां धीनाञ्च धूनामण्यन्तानां यः कर्ता स णौ सति कर्मसंज्ञो भवति । ज्ञार्थानाम् जानाति माणवको धर्मम् । ज्ञापयति माणवकं धर्मम् | बुध्यते माणवको धर्मम् । बोधयति माणवकं धर्मम् । पश्यति माणवको ग्रामम् । दर्शयति माणवकं ग्रामम् । गम्यर्थानाम् गच्छति माणवको ग्रामम् । गमयति माणवकं ग्रामम् । याति माणवको ग्रामम् । यापयति माणवकं ग्रामम् । श्रद्यर्थानाम् भुक्त श्रोदनं माणवकः । भोजयति माणवकमोदनम् । अश्नाति माणवक श्रोदनम् | आशयति माणवकमोदनम् । धीनाम् - आस्ते माणवकः । श्रासयति माणवकम् । शेते माणवकः । शाययति माणवकम् । अत्रापि पूर्ववणिजन्तवाच्यया क्रियया प्रेषणाध्येपणलक्षणया श्राप्यत्वात् कर्मसंज्ञा सिद्धा । यद्यपि स्वातंत्र्यमाप्यत्वास्ति तथापि कर्मैवेत्यवधारणात् कर्तृ संज्ञा न भवतीति । एवं सिद्धे नियमार्थमिदं तेषामेवाणौ कर्ता एयन्ते कर्मसंज्ञो भवति नान्येषाम् । पचत्योदनं देवदत्तः । पाचयत्योदनं देवदत्तेन । आणि कर्तेति किम् ? गमयति देवदत्तो जिनदत्तम् । तमन्यः प्रयुङ्क्ते । गमयति देवदत्तेन जिनदत्तम् । नयत्यादयः प्रापणार्थी न गत्यर्थास्तेनेह कर्मसंज्ञा न भवति । श्रजां नयति देवदत्तः । नाययति देवदत्तेन । भारं
१. गन्तव्य: क- मु०, ब० । २. कालः अ०, स० । ३. भाव: छा०, स० । ४. कृषज - मु० । ५. जिनदत्तो ग्राम भारं हरति अ०, ब०, स० । ६. कृषति अ०, ब०, स० । ७. 'शिष्यते माणवको धर्मम्' इति म० पुस्तके नास्ति । म अध्याप्यते माणवको जैनेन्द्रम् अ०, ब०, स० ।
For Private And Personal Use Only