________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० १ पा० २ सू० १२३ - १२८ ]
महावृत्तिसहितम्
४१
2
वहति वाहकः । वाहयति वाहीकेन । यदा गत्यर्थतासंभवस्तदा भवति कर्मसंज्ञा । वहन्ति बलीवर्दा यवान् । वाहयन्ति बलीवर्दान् यवान् । प्रवहत्युदकं देवदत्तः । प्रवाहयत्युदकं देवदत्तम् । “अद्यर्थेषु श्रदिखाद्योः प्रतिषेधो वक्तव्यः [ वा० ] अत्ति देवदत्तः । श्रादयति देवदत्तेन । खादयति ( खादति ) देवदत्तः । खादयति देवदत्तेन । अथवा "सर्वमद्यर्थं कार्यमदेर्न भवतीति वक्तव्यमधिकरणे तविधि मुक्त्वा" [ वा० ] श्रादयते माणवकेन । "वल्यद्यर्थात् " [ १ | २८४ ] ममपि न भवति । "भक्षिरहिंसार्थः कर्मसंज्ञो न भवतीति वक्तव्यम्'' [ वा० ] भक्षयति पिराडी देवदत्तः । भक्षयति पिण्ड देवदत्तंन । अहिंसार्थस्येति किम् ? भक्षयति बलीवर्दो यवम् । भक्षयति बलीवर्द' यवम् । अत्र हिंसाऽस्ति । वनस्पतिकायानां प्राणित्वात् । प्रकृतेन कर्मणा - का इह गृह्यन्ते तेन धिग्रहणे कालादिकर्मणः कर्ता कर्मसंज्ञो भवति । श्रास्ते मासं देवदत्तः । श्रासयति मासं देवदत्तम् । आस्ते गोदोहं देवदत्तः । श्रासयति गोदोहं देवदत्तम् । श्रास्ते क्रोशं देवदत्तः । श्रासयति क्रोशं देवदत्तम् ।
शब्दे च ॥ १।२।१२३ ॥ शब्दे कर्मभावेन क्रियाभावेन च यो धुर्वर्तते तस्यारयन्तस्य कर्ता गौ कर्मसंज्ञो भवति । शब्दकर्मणः शृणोति देवदत्तः शब्दम् । श्रावयति देवदत्तं शब्दम् । उपलभते देवदत्तः शब्दम् । उपलम्भयति देवदत्तं शब्दम् । श्रधीते माणवकस्तर्कम् । अध्यापयति माणवकं तर्कम् | शब्दक्रियस्य - जल्पति देवदत्तः । जल्पयति देवदत्तम् । विलपति देवदत्तः । विलापयति देवदत्तम् । चशब्दोऽनुक्तसमुच्चयार्थः । तेन ह्वयत्यादिषु न भवति । ह्वयति देवदत्तः । ह्वाययति देवदत्तेन । क्रन्दति देवदत्तः । क्रन्दयति देवदत्तेन ।
कोन वा ॥ १|२| १२४ ॥ हृ कृ इत्येतयोरएयन्तयोर्यः कर्ता स एयन्तयोर्न वा कर्मसंज्ञो भवति । न वेति निर्देशात् प्राप्त चाप्राप्त च विकल्पः । प्राप्त अभ्यवहरति देवदत्तः । श्रभ्यवहारयति देवदत्तं देवदत्तेनेति वा । विहरति देवदत्तः । विहारयति देवदत्तं देवदत्ते नेति वा । विकुर्वते सैन्धवाः । विकारयन्ति सैन्धवान् सैन्धवैरिति वा । द्यर्थम्यर्थे धियंज्ञायां पूर्वेण प्राप्तिः । श्रप्राप्ते - हरति माणवको भारम् । हारयति माणवकं माणवकेन वा । करोति कटं देवदत्तः । कारयति कटं देवदत्त देवदत्तेन वा । चकारोऽनुक्तसमुच्चयार्थेऽनुवर्तते । तेन अभिवदिदृश्योदविषये विकल्पः । अभिवदति गुरुं देवदत्तः । श्रभिवादयते गुरु देवदत्तं देवदत्तेन वा । पश्यन्ति भृत्या राजानम् । दर्शयते भृत्यान् भृत्यैरिति वा । “णिचः " [ १२/७२ ] इति दविधिः ।
स्वतन्त्रः कर्ता ||१|२|१२५ ॥ | स्वतन्त्र श्रात्मप्रधानः । क्रियासिद्धौ स्वतन्त्रो योऽर्थस्तत् कारकं कर्तृ संज्ञ' भवति । देवदत्तः पचति । देवदत्तेन कृतम् । प्रेषितः करोतीत्यत्रापि स्वातन्त्र्यं गम्यते । अनिछायाम करणात् । इह स्थाली पचतीति स्वातन्त्र्यं विवक्षितम् ।
तद्योजक हेतुः || १ | २|१२६ ॥ योजकः प्रेरकः, तस्य स्वतन्त्रस्य योजको योऽर्थस्तत् कारकं हेतुसंज्ञ ं भवति । पुल्लिङ्गकर्तृ संज्ञासमावेशात् कर्तृ संज्ञ ं च । कारयति । भोजयति । हेतुत्वात् “हेतुमति” [२|१|२४] इति णिच् । कर्तृत्वाल्लकारवाच्यता । गौणस्यापि योजकस्य हेतुत्वम् । भिक्षा वासयति । कारीषोऽग्निरध्यापयति । तद्योजक इति वचनं ज्ञापकं "तृजकाभ्यां" [ ११३७८ ] "कर्तरि " [ १1३1७६ ] इत्यस्य तास प्रतिषेधस्यानित्यत्वम् ।
निः || १ |२| १२७ || अधिकारोऽयम् । "प्राग्धोस्ते” [१।२।१४१] इत्यतः प्राक् । यानित ऊर्ध्वमनुक्रमिष्यामो निसंज्ञास्ते वेदितव्याः । वक्ष्यति चादिरसत्त्वे । च वा ह ग्रह एव । निरिति पुल्लिङ्गनिर्देशः किमर्थः १ गितिसंज्ञाभ्यां समावेशो यथा स्यात् । निप्रदेशाः " निरेकाजनाङ्” [१।१।२२] इत्येवमादयः ।
चादिरसत्त्वे ||१|२|१२८ ॥ सीदत अस्मिंल्लिङ्गसंख्ये इति सत्त्वम् । लिङ्गसंख्यावद् द्रव्यमित्यर्थः । चादयो निसंज्ञका भवन्ति न चेत् सत्त्वे वर्तन्ते । च वाह अह एव एवम् नूनम् शश्वत् सूपत् कूपत् कुवित्
For Private And Personal Use Only