________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८
जैनेन्द्र-व्याकरणम्
[अ० १ पा० २ सू० ११२."
. कथचिद्विवक्षितभेदाभिः सन्दर्शनप्रार्थनाऽध्यवसायक्रियाभिः क्रियापि व्याप्या सती कर्मतयोपेयत्वात् सम्प्रदानत्वम् ।
तेनेहापि भवति । रोचते देवदत्ताय मोदकः । स्वदते देवदत्ताय मोदकः । पुष्पेभ्यः स्पृहयति । मित्राय कथयति । मित्राय ऋध्यति । मित्राय गुह्यति । मित्राय ईय॑ति । मित्रायासूयति । मित्राय कुप्यति । कोपादन्यत्र धादीनां प्रार्थनादिभिः क्रियाविशेषैर्भेदो न विवक्षित इति क्रियायाः कर्मव्यपदेशो नास्ति । भार्यामीय॑ति । औषधं द्वेष्टि । शप उपलम्भनेऽर्थे भेदः। देवदत्ताय शपते । हङ अात्मनिहवे भेदः। मित्राय हृते । अन्यत्र मित्रं हृते । राधीक्ष्योर्दैवालोचने । पुत्राय राध्यति । पुत्राय ईक्षते । अन्यत्र पुत्रस्य राध्यति । पुत्रमीक्षते । यत्र च प्रत्यापर्वः शृणोतिरभ्युपगमे वर्तते । देवदत्ताय प्रतिशृणोति । अनुप्रतिपूर्वश्च गृणातिर्यदि कथयितुः प्रोत्साहने वर्तते । प्राचार्याय अनुगृणाति । प्राचार्याय प्रतिगृणाति । इह भेदाभेदविवक्षा । देवदत्ताय श्लाघते । देवाय प्रणमति । गत्यर्थानां चेष्टायामसम्प्राप्तावुभे [वा०] । यथा ग्रामाय गच्छति । ग्रामं गच्छति । ग्रामाय ब्रजति । ग्रामं व्रजति । चेष्टायामिति किम् ? मनसा पाटलिपुत्रं गच्छति । असम्प्राप्ताविति किम् ? पन्थानं गच्छति । भार्या गच्छति । अन्यत्राभेदविवव । कटं करोति । श्रोदनं पचति । शास्त्र पठति । "सग्योश्च क्रधिोः " [वा०] मित्रमभिक्र ध्यति । मित्रमभिद्रुह्यति । "सिद्विरनेकान्तात्" [१।१।१] इत्यतो भेदाभेदोभयविवक्षा प्रत्येतव्या । परेषामपि प्रतिपत्तिगौरवं तुल्यम् । क क्रियाया व्याप्यत्वमिष्ट' क च नेति दुर्बोधम् ।
धारेरुत्तमणः ॥१।२।११२।। ऋणे उत्तम उत्तमर्णः । निपातनात् सविधिः । धारयतेरुत्तमों योऽर्थस्तत्कारकं सम्प्रदानसंज्ञ भवति । देवदत्ताय गां धारयति । उत्तमर्ण इति किम् ? देवदत्ताय शतं धारयति दरिद्रः।
परिक्रयणम् ॥१२॥११३।। परिक्रीयतेऽनेनेति परिक्रयणम्। तत्कारकं सम्प्रदानसंज्ञं भवति । शताय परिक्रीतः । सहस्राय परिक्रीतः। साधकतमत्वात् करणसंज्ञा प्रासा।
साधकतमं करणम् ॥१।२।११४॥ क्रियायामतिशयेन साधकं साधकतमम् , तत्कारकं करणसज्ञ भवति ।
"दानेन भोगं दयया सुरूपं ध्यानेन मोक्षं तपसेप्टसिद्धिम् । सत्येन वाक्यं प्रशमेन पूजां वृत्तेन जन्मानमुपैति मर्त्यः ॥"
तमयहां किमर्थम १ यथा रूपप्रस्ताव अभिरूपाय कन्या देयेत्युक्त ऽभिरूपतमायेति । एवमिहापि कारकाधिकारादकारके संज्ञावृत्तिनास्तीति 'साधकं करणम्'इत्युक्तेऽपि साधकतममिति गम्यते तदेतत् तमग्रहणंज्ञापकमन्यत्रसमग्रहणेन विना प्रकर्षा न लभ्यते । तेना 'आधारोऽधिकरणः" [१1१।११६] इत्यनेन मुख्यामुख्ययोरधिकरणत्वं सिद्धम् । तिलेषु तैलम् । गङ्गायां घोषः। साधकतमस्याविवक्षायां स्वातन्यानुर्विव्यतीति भवति । पंल्लिनिदेशः किमर्थः १ परिक्रयणमित्यनवकाशया सम्प्रदानसञ्जया बाधा मा भूत् । शतेन परिक्रीतः । वचनात् साऽपि भवति । शताय परिक्रीतः। “दिवः कर्म" [१।२।११५] इत्यत्र च समावेशो यथा स्यात् । अक्षर्दीव्यति ।
दिवः कर्म ॥१॥२।११५॥ दिवेः साधकतम कारकं कर्मसञ्ज्ञ भवति । अक्षान् दोव्यति । शाकां दीव्यति । नपा निर्दशात् करणत्वमपि ।
आधारोऽधिकरणः ॥१।२।११६।। आध्रियतेऽस्मिन् क्रियेत्याधारः । इदमेव निपातनमधिकरणे धनः। आधारो यस्तत् कारकमधिकरणसझं भवति । यद्यवं कर्तृकर्मणोरधिकरणसंज्ञा प्राप्ता तदाश्रितत्वात् क्रियायाः । एवं तर्हि कर्तृ कर्मणोः क्रियाश्रययोर्धारणादाधारोऽभिप्रेतः। पूर्व तमग्रहणेन ज्ञापितं गौण
१. 'शलाका विष्यति' अ०, ब०, स० ।
For Private And Personal Use Only