________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० १ पा० २ सू० १०८ - १११]
महावृत्तिसहितम्
३७
मनुष वत्युपसङ्ख्यानम् । [ वा० ] नभसा तुल्यं वर्तते इति नभस्वत् । श्रङ्गिरस्वत् । मनुष्वत् । वृष्णो वस्वश्वयोर्भसंज्ञति केचित् । वृष्णो वसुः वृषएवसुः । वृषरणश्वः ।
मत्वर्थे स्तौ ॥१२॥१०८॥ मत्वर्थे त्ये परतः सकारान्तं तकारान्तञ्च भसंज्ञ भवति । तपस्वी । यशस्वी । “विन्नस्मायामेधास्त्रज: ” [४ | १|४७ ] इति विन् । मतोर्विशेषणत्वेऽपि मत्वर्थग्रहणेन ग्रहणम् । यथा देवदत्तशाला पण्डिता श्रानीयन्तामित्युक्ते देवदत्तो विशेषणभूतोऽपि यदि पण्डितः सोऽपि श्रानीयते । भास्वान् । विद्युत्वान् । मरुत्वान् । स्ताविति किम् ? राजवद् गृहम् ।
कारके ||१२|१०६ ॥ कारक इत्ययमधिकारः । यदित उर्ध्वमनुक्रमिष्यामः कारक इत्येवं तद्वेदितव्यम् | कारकं निर्वर्तकं हेतुर्वा । कस्य १ क्रियायाः । का च क्रिया ? ध्वर्थः । कारक इति निर्धारणलक्षणेयमीप् । जात्यपेक्षैकवचनम् । । सौत्रो वा निर्देशः । कारकेषु यद्भुवं तदपादानं, यः कर्मणोपेयोऽर्थः स सम्प्रदानमित्यादि योज्यम् । वक्ष्यति “घ्यपाये ध्रुवमपादानम्” । [ १ | २|११० ] ग्रामादागच्छति । स्वर्गादवरोहति । श्रपायक्रियाया ग्रामोऽपि निर्वर्तकः देवदत्तोऽपि । ध्रुवत्वाद् ग्रामोऽपादानम् । कारक इति किम् ? वृक्षस्य पर्णं पतति । कुड्यस्य पिण्डः पतितः । अपायक्रियाया निर्वर्तकत्वेन वृक्षः कुड्यञ्च न विवक्षितम् । "अकथित [ १/२/१२१] अपादानादिभिरकथितं च कारकं कर्मसंज्ञ भवति । आचार्य धर्मे पृच्छति । कारक इति किम् ? श्राचार्यस्य शिष्यं धर्म पृच्छति । श्राचार्यस्य शिष्यविशेषणत्वादकारकत्वम् । यदा कारकचाकारञ्च सर्वमकथितमप्रतिपादितमित्यर्थस्तदेदं प्रत्युदाहरणम् । असङ्कीर्तितमिति व्याख्याने कारकमेव लभ्यते । प्रदेशेषु कारकाभिधानेऽपादानादीनां ग्रहणम् ।
"
"
ध्याये ध्रुवमपादानम् ||१२|११०॥ धीबुद्धिः । प्राप्तिपूर्वको विश्लेषोऽपायः । धिया कृतो अपायोध्यायः । धीप्राप्तिपूर्वको विभाग इत्यर्थः । धीग्रहणे ह्यसति कायप्राप्तिपूर्वक एवापायः प्रतीयेत धीग्रहन सर्वः प्रतीयते । ध्रुवमविचलम् अवधिभूतं वा । ध्यपाये साध्ये यद् ध्रुवं तदपादानसंज्ञ भवति । ग्रामादागच्छति । ग्रामो देवदत्तं नानुपतति इति ध्रुवः । अथवा पायात्प्रागपि ग्रामः । अपायेऽपि ग्राम एव । देवदत्तस्त्वपाये ग्रामग्रहणेन न गृह्यत इति ग्रामो ध्रुवः । एवमश्वाद् धावतः पतितः । गच्छतः सार्थादवहीनः । देवदत्तो जिनदत्तादागतः । मेषौ परस्परतोऽपसर्पतः । शृङ्गाच्छरो जायते । गङ्गा हिमवतः प्रभवति । इह ग्रामान्नागच्छ तीति पूर्वमपादानसंज्ञा पश्चात्प्रतिषेधः । धियाऽपायस्य विशेषणं किम् ? धर्माज्जुगुप्ते । प्रेक्षापूर्वकारी दुःखहेतुरधर्म इति बुद्ध्या संप्राप्य ततो निवर्तत इति अपादानत्वम् । एवमधर्माद्विरमति प्रमाद्यति । व्याघ्राद्विभेति । चौरेभ्यस्त्रायते । अध्ययनात् पराजयते । न शक्नोतीत्यर्थः । यवेभ्यो गां वारयति । श्रकार्यात्सुतं वारयति । कूपादन्धं वारयति । उपाध्यायादन्तर्द्धते । भयं सञ्चिन्त्य निवर्तत इत्यर्थः । विवक्षातः कारकाणि भवन्ति । उपाध्यायादधीते । उपाध्यायाच्छ, गोति । श्रविवक्षायां नटस्य शृणोति । ग्रन्थिकस्य शृणोति । श्रवमिति किम् ? अरण्ये बिभेति । नात्र भयावधिभूतमरण्यं किं तर्हि चौराः । नपा निर्देशः किमर्थः । वक्ष्यमाणाभिः संज्ञाभिर्वाधा यथा स्यात् । धनुषा विध्यति । पुलिङ्गया करणसंज्ञया बाधात् । कांस्यपात्र्यां भुङ्क्ते । पुलिङ्गाऽधिकरणसंज्ञ व } धनुर्विध्यतीति कर्तृ संज्ञा । इह गां दोग्धि पय इति परत्वात्कर्ससंज्ञा । श्रपादानप्रदेशाः "काऽपादाने” [१।४।३७]
इत्येवमादयः ।
कमगोपेयः सम्प्रदानम् || १२|१११॥ उपपूर्वादिङो ये कृते उपेय इति भवति । कर्मणा य उपेयोऽर्थस्तत् कारकं सम्प्रदानसंज्ञ भवति । उपाध्यायाय गा ददाति । देवाय बलिं प्रयच्छति । कर्मणेति किम् ? गवा उपाध्यायमुपैति । सम्प्रदानमित्यन्वर्थसंज्ञाकरणात् ददात्यर्थानां धूनां द्रव्येण कर्मणा उपेयोऽर्थः सम्प्रदानमिति । तैनेह न भवति । देवदत्तस्य वस्त्रं दर्शयति । मित्रस्य कार्य कथयति । अजां नयति ग्रामम् । सम्यक् प्रदानं सम्प्रदानमिति चाश्रितम् । तेनेह न भवति । घ्नतः पृष्ठं ददाति । रजकस्य वस्त्रं ददाति । राज्ञो दण्डं ददाति । इह तर्हि कथं श्रद्धा निगृह्णते । युद्धाय सन्नह्यति । तिष्ठते ब्राह्मणी छात्रेभ्यः ? तादर्थ्यात् सिद्धम् । अथवा
For Private And Personal Use Only