________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
जैनेन्द्र-व्याकरणम्
[अ० १ पा० २ सू० १०३ - १०७
किमर्थः १ यत्त्यस्तदादि गुरित्युच्यमाने यस्य त्यः सम्भवति तस्यान्यस्मिन्नपि शब्दे गुसंज्ञा स्यात् । तथा च स्त्रियै इदं स्त्र्यर्भुवे इदं वर्थम् । युवौ प्रसज्येयाताम् । तदादिवचनं किमर्थम् ? यत्रानेकस्त्यः सम्भवति तत्र संज्ञा यथा स्यात् । करिष्यति । कुण्डानि । स्यान्तस्य सनुमुकस्य च गुसंज्ञायां "यज्यतो दी : " [ २४२६६ ] "धेऽकौ " [ ४|४|६ ] इति दीत्वं सिद्धम् । गुरिति पुल्लिङ्गनिर्देशो भपदसंज्ञासमावेशार्थः । इह बाभ्रव्य इति गुसंज्ञाश्रय श्रादेरप् । भसंज्ञाश्रयः "कद्रवो रोऽस्वयम्भुव:" [४|४|१३४ ] इति श्रोकारः । इह च यजुः पण्यमस्य याजुष्कः । गुसंज्ञाश्रय श्रादेरैप "स्वादावधे [१|२| १०६ ] इति पदत्वे पदसंज्ञाश्रयाणि रिसत्वप्रत्वानि सिद्धानि । नपुंसकलिङ्गा चेद् गुसंज्ञा होतुरपत्य' हौत्र इत्यत्र सावकाशा सती पदसंज्ञया बाध्येत ।
I
सुम्मिन्तं पदम् ||१||१०३ || "न: क्ये " [ ११२|१०४ ] इति नियमारम्भात् सुविति प्रत्याहारग्रहणं नेपो बहोः । मिङा साहचर्याद्वा । सुबन्तं मिङन्तं च शब्दरूपं पदसंज्ञ भवति । सूपकारः पचति । पदसंज्ञाश्रयो रित्वादिविधिः । खरि सादेशविधिश्च भवति । ननु सुम्मिङौ त्यौ । त्यग्रहणे यस्मात्स तदादेव हरामित्यन्तग्रहणं किमर्थम् ? अन्यत्र संज्ञाविधौ तदन्तविध्यभावज्ञापनार्थम् । तेन दृषत्तीर्णेत्यत्र क्लान्तस्य "फक्ततु" [ १।१।२८ ] इत्यनेन तसंज्ञा नास्तीति "द्रान्तस्य तो न: ” [ ५।३।५१ ] इत्येष विधि षकारापेक्षया न भवति । इह च कुमारीगौरितरा "तादी झ: ” [४/१/११७ ] इत्यनेन तरान्तस्य भसंज्ञा नास्तीति “झरूप०” [४।३।१५५] इत्यादिना प्रादेशो न भवति । पदमिति नपा निर्देशो भसंज्ञया बाधा यथा स्यादित्येवमर्थः । अन्यथा राज्ञः राजन्य इत्यत्र भसंज्ञाश्रयमनोऽखं पदसंज्ञाश्रयं नखञ्च स्यात् पदप्रदेशाः “पदस्य" [ ५/३/१४ ] इत्येवमादयः ।
नः क्ये ||१|२| १०४ ॥ क्य इति क्यच्क्यङ्क्यषामविशेषग्रहणम् । क्ये परतो नान्तस्य पदसंज्ञा भवति । राजानमिच्छति राजीयत । राजेवाचरति राजायते । चर्म चर्म भवति चर्मायते । पदत्वे सति नखं सिद्धम् । "नखं विधिं कृत्त कि" [ ५३२८ ] इति नियमादन्यत्र सिद्धमिति " क्यचि " [ ५।२।१४२ ] इतीत्वं “दीरकृदूगे” [ ५|२| १३४ ] इति दीत्वञ्च भवति । "त्यखे त्याश्रयम्” [१1१।६३ ] इति पदत्वे सिद्धे नियमार्थमिदम् । नान्तमेव क्ये पदसंज्ञ' भवति नान्यत् । वाच्यति । शुच्यति । कुत्वं न भवति । नान्तं क्य एवेति विपरीतो नियमो नाशङ्कनीयः । “अकौ” [५|३ | ३० ] इति कौ नखप्रतिषेधात् ज्ञायते पदत्वे हि नखप्राप्तिः ।
1
सिति ||१२|१०५ || सिति त्ये परतः पूर्वं पदसंज्ञ भवति । भवतोऽयं भवदीयः । " भवतष्ठ छसौ" [ ३|२| ११ ] इति छस् । "यचि भः ” [ १/२1१०७ ] इति पदसंज्ञायां बाधितायां पुनरारम्भः । एवमूर्णा अस्यास्तीति ऊर्णायुः । "ऊर्णाहं शुभंभ्यश्च युस् ” [ ४|१| ६२ ] इति युस् । “यस्य याञ्च [ ४|४|१३६ ] इति खं न भवति । अय्युः । श्रहंयुः । शुभैय्युः । शुभंयुः । "वा पदान्तस्य " [२४] १३३ ] इति परस्वविकल्पः । स्वादावधे ॥१२॥१०६॥ श्रध इति प्रतिषेधाद्वाया एकस्य सोर्ग्रहणम् । स्वादौ धवर्जिते परतः पूर्व पदसंज्ञ ं भवति । राजभ्याम् । राजभिः । राजत्वम् । राजता । अध इति किम् ? राजानौ । राजानः । यद्येवं राजेत्यत्रापि प्रतिषेधः स्यात् । नैवं शङ्कयम् । श्रध इति पर्युदासोऽयं धादन्यत्र पदसंज्ञा विधीयते । वे तु पूर्वेण भविष्यति । यद्येवं सुवाचौ सुवाच इत्यत्रान्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वं प्राप्नोति । अस्तु तर्हि प्रसज्यप्रतिषेधः । राजेत्यत्र “अकौ” [ ५|३|३० ] इति प्रतिषेधात् ज्ञायते सौ पदसंज्ञा भवति । एवमन्यध इति श्रनन्तरस्य स्वादौ विधेः प्रतिषेधोऽयं सुवाचौ सुवाच इत्यत्र पूर्वेण प्राप्तिरस्त्येव । कर्तव्योऽत्र यत्नः । “उत्तरपदत्वे चापदादिविधौ त्यलक्षणं न भवतीति ।
चिभः || १ |२| १०७ || स्वादावध इति वर्तते । यकारादावजादौ च स्वादौ धवर्जिते पूर्वं भसंज्ञ' भवति । गार्ग्यः । वात्स्यः । दाक्षिः । 'लाक्षिः । पूर्वेण पदसंज्ञा प्राप्ता भत्वाद् "यस्य ङयाच" इत्यखम् । “नभोऽङ्गिरो३. इति नरववि ब०, स० ।
१. भ्रुवे अ०, ब०, स० । २. भवर्थम् - अ०, ब०, स० । ४. न सम्भ - अ० । २. स्रुच्यति अ०, स० ।
For Private And Personal Use Only