________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० १ पा० २ सू० १७- १०२ ]
महावृत्तिसहितम्
३५
[५।२।१०६ ] एप् । इयुवौ । श्रियै । श्रिये । भ्रुवै । भ्रुवे । स्याख्यावित्येव । श्रग्नये । श्रतिकृतये । अतिश्रिये । अतिभ्रुवे दवदत्ताय । य्वौ य्वोः प्र इति किम् ? मात्रे । दुहित्रे ।
स्वसखि ||१|| ६७ | प्रो खोरिति वर्तते । वोः प्रस्सुसंज्ञो भवति सखिशब्दं वर्जयित्वा । सखीति प्रतिषेधात् सिद्धौ प्रेति निर्दे शाच्चास्त्र्याख्यस्य स्त्र्याख्यस्य च प्रस्येह ग्रहणम् । श्रग्नये । वायवे । स्त्र्याख्यश्च यो मुसंज्ञो न भवति तस्य ग्रहणम् । कृतये । धेनवे । मुसंज्ञाविषये "नब्बाध्य आसम् ” [१।२।११] इति सुसंज्ञा बाध्यते । कृत्याम् । धेन्वाम् । सखीति किम् ? सख्युः । सख्यौ । सखीति पर्युदासोऽयम् । तेन शोभनः सखा सुसखा । श्रुतिसखा । अतिसखेरागच्छति । अतिसखेः स्वम् । सखिशब्दादन्यत्वमस्तीति सुसंज्ञा । मृद्यहणेन तदन्तविधिरिति वा । य्वोः प्र इत्येव । पित्रे । मात्रे । सुप्रदेशाः “सोर्डिंति” [ ५/२/१०६ ] इत्येवमादयः ।
""
पतिः से ॥ ११२६८ ॥ पतिशब्दः स एव सुसंज्ञो भवति । प्रजाप्रतिना । प्रजापतये । पतिरेव स इति कस्मान्न नियमः । एवं हि "द्वन्द्व े सुः " [१।३।१८ ] इति पूर्वनिपातवचनमनर्थकं स्यात् द्वन्द्वे पतिरिति ब्रूयात् । नान्यस्य से सुसंज्ञासम्भवः । श्रपि चानेकप्राप्तावेकस्य नियम इति वचनमनर्थकं स्यात् । पटुमृदुगुप्तपटव इति । स इति किम् ? पत्या । पत्ये ।
I
प्रो घिच ॥ १२॥६६॥ प्र इति मात्रिकस्य संज्ञा । प्रो घिसञ्ज्ञो भवति । भेत्ता । बोद्धा । घीति नपा निर्देशः किमर्थः १ पुल्लिङ्गया रुसज्ञया बाधा यथा स्यात् । प्रयोजनमग्रे वक्ष्यते । चशब्दः सञ्ज्ञान्तरसमावेशार्थः । घिच भवति यच्चान्यत्प्राप्नोति तच्च भवति । इह प्रविनय्य गत इति सुसंज्ञासमावेशः । विश्च नाच विनरौ तावाचष्टे णिच् । “ णाविष्टवन्मृदः " [ ४|४|१४६ ] इति इष्ठवद्भावः । टिखम् । प्रशब्देन योगः । क्त्वः प्यादेशे णिखे प्राप्त घिसंज्ञायां सत्यां "ध्ये धिपूर्वात् [ ४|४|१६ ] इति णेरयादेशः सिद्धः । सुसंज्ञायाच पूर्वनिपातः । अन्यथेकारोकाराभ्यामन्यत्र सावकाशा घिसंज्ञा इकारोकारविषयत्वादनवकाशया सुसंज्ञया बाध्येत ।
स्फेरुः ॥१२॥१००॥ प्र इति वर्तते । स्फसञ्ज्ञं परतः प्रो रुसञ्ज्ञो भवति । कुण्डा । हुण्डा । स्पर्धा । नुम्विधावुपदेशाश्रयणात्प्रागेव नुम् । “सरोई ल:" [२३८१] इति श्रस्त्यः । " श्रजाद्यतष्टाप् ” [ ३|१|४ ] |
दीः ||१|२| १०१ ॥ दीरिति द्विमात्रस्य सञ्ज्ञा । दीश्च रुसज्ञो भवति । ईहाञ्चक्रे । लिटि परतः "सरोरिजादे : ” [२/१/३२ ] इत्याम् । शेषम् “आम्वत्तत्कृन : ” [१|२|५६ ] इत्यत्रोक्तम् । रुरिति पुल्लिङ्गनिर्देशः किमर्थः १ ईकारोकारविषयया मुसञ्ज्ञया बाधा मा भूत् । द्वयोः समावेशे हे परमवाणी ३क इत्यत्र “ऋन्मो:” [४।२।१५३] इति मुसञ्ज्ञाश्रयः कप् । रुसज्ञाश्रयो “अनृतोऽनन्तस्याप्येकैकस्य रो: ” [५|३|ε४] इति पविधिश्च सिद्धः ।
ये तदादि गुः || १ |२| १०२ ॥ यो हि यस्मात्त्यः स तस्येत्युच्यते । यस्य धोर्मृदो वा त्यः यत्त्यस्तस्मिन् परतस्तदादिशब्दरूपं गुसञ्ज्ञं भवति । केवलायाः प्रकृतेर्व्यपदेशिवद्भावात्तदादित्वम् । दोग्धि । जुहोति । करिष्यति । कुण्डानि । गुकार्य मेबिडागमो नुमागमश्च । जसि "नोङ: ” [४|४|१] इति दीत्वञ्च । यदिति सञ्ज्ञिनिर्देशार्थम् । श्रन्यथा तदादीति न लभ्येत तथा च त्ये सति पूर्वमात्रस्य गुसज्ञा स्यात् । तत्र को दोषः ? इह न्यविंशत प्राकरोदिति सगेरडागमः स्यात् । यत्त्य इति यच्छब्देन त्यस्य विशेषणं किम् ? अस्यापत्यमिः। देवदत्त इं पश्येत्यत्र श्रादेरैप् स्यात् । श्रखस्य स्थानिवद्भावाद् व्यवधानमिति चेत् योऽनादिष्टादचः पूर्वस्तं प्रति स्थानिवद्भावः । श्रादिष्टाच्चैषोऽचः पूर्वी निष्पन्नस्य पदस्य पदान्तरेणाभिसम्बन्धात् । यत्य इति ईम्निर्देशः
१. 'निर्देशात्' इत्यस्य 'अनुवृ त ेः' इत्यर्थः । प्रसङ्गस्वारस्यात् । २. 'वा' अनित्यमित्यर्थः । ३. नोङ इत्यस्मिन्ननुवर्तमाने 'घेऽकौ' इति दीः ।
For Private And Personal Use Only