________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
[अ० १ पा० २ सू०६१-६६
कार्याणि तावद्वा सूत्रस्य भेद इति विधिनियमश्चेदं सूत्रम् । यत्र परस्मिन्कार्ये कृते "पुनः प्रसंगविज्ञानात्" पूर्व तत्र विधिः । यत्र परमेव कार्य दृश्यते "सकृद्गते परनिर्णये बाधितो बाधित एव" [परि०] इति तत्र नियमः । तद्यथा द्वित्वस्यावकाशः । बेभिद्यते । जेरवकाशः । विचति । वेविच्यते इति परत्वाजौ कृते पुनः प्रसङ्गाद् द्वित्वम् । "जरशसो शिः [१।१७] इत्यस्यावकाशः । कुण्डानि । “उसुटोरम्' [२१११२४] इत्यस्यावकाशः । यूयं राजानः। इह यूयं गुरुकुलानि इति पर एवाम्भावः। अतुल्यबलयोः स्पर्दो न भवति । उत्सर्गादपवादः परनित्यविचारणे भवेन्नित्यम् । नित्यात्तथान्तरङ्गम् । तस्मादप्यनवकाशं यत् । एकार्थयोरपि नास्ति विरोधः । धोर्विहितास्तव्यादयः पर्यायेण भवन्ति ।
नब्बाध्य आसम् ॥१।२।६१॥ नपा निर्दिष्टो बाध्यो भवति श्रा साधिकारपरिसमाप्त रित्येषोऽधिकारो वेदितव्यः । लोके संज्ञासमावेशो दृष्टः इन्द्रः शक्रः पुरन्दर इति । शास्त्रेऽपि त्यः कृद् व्य इति । "शेषोऽग एव'' [ १४] इत्यवधारणाज्ञापयति इहापि संज्ञासमावेशः स्यादिति यत्नः क्रियते । यत्र नपः समावेश इष्यते तत्र चशब्दोपादानमस्ति । यथा “यश्च काश्रये" [१३/४४] इति । वक्ष्यति "प्रो घि च" [
११] विदि' । भिदि । "स्फे रुः" [१॥२॥१००] । शिक्षि । भिक्षि । नपा निर्दिष्टा धिसंज्ञा रुसंज्ञया बाध्यते समावेशे हि अततर्वेदित्यत्र "घौ कच्यनक्खे सन्वत्' [श२।१६०] इति कच्परें घौ परतः सन्वद्भावः प्रसज्येत । अविव्रजदित्यत्र घेर्दीत्वं स्यात् । नबिति किम् ? बाभ्रव्यः। पुल्लिङ्गा गुसंज्ञा पुल्लिङ्गया भसंज्ञया न बाध्यते ।
खौ च्याख्यौ मुः ॥१२॥३२॥ स्त्रियमाचक्षाते इति स्त्राख्यौ । “प्रे' [२।२।४] इति नियमादप्राप्तः "सुपि" [२।२७] इति योगविभागात्कः । यावीकारोकारौ स्व्याख्यौ तदन्तं शब्दरूपं मुसंज्ञ भवति । “सुम्मिङन्तं पदम् [१।२।१०३] इत्यत्रान्तग्रहणमन्यत्र संज्ञाविधौ तदन्तविधिप्रतिषेधार्थमिह नाश्रीयते "आमीयुवोः" [१२।१४] इति नियमारम्भात् । य्वाविति यणादेशादूकारो द्विमात्रस्तत्साहचर्यादीकारोऽपि द्विमात्रः । ईकारःकुमारी। गौरी। लक्ष्मीः । ऊकारः-ब्रह्मबन्धूः। वामोरूः । यवागूः। 'अण्" मोः" [५।२।१०७] इत्यादि मुसंज्ञाकार्यम् । य्वाविति किम् ? मात्रे । दुहित्रे । स्त्र्याख्याविति किम् ? हे ग्रामणीः । हे खलपुः । नेमौ स्त्रियमेवाचक्षाते । श्राख्याग्रहणं किम् ? शब्दार्थे स्त्रीत्वे यथा स्यात् पदान्तरगम्ये मा भूत् । ग्रामण्ये स्त्रियै। खलप्वे स्त्रियै। उभयलिङ्गानामिष्वसनिप्रभृतीनां शब्दार्थ एव स्त्रीत्वम् । इष्वै असन्यै स्त्रियै । तथा गुणशब्दानां पटव्यै स्त्रियै । इदञ्चाख्याग्रहणस्य प्रयोजनम् । कुमारीभिवात्मानमाचरति (कुमारीवाचरति ) "श्राचारे सर्वमृद्भ्यः क्विप्" इति क्विप् । कुमार्यै देवदत्ताय । लक्ष्मीमतिक्रान्ताय अतिलक्ष्म्यै । प्रागेव मुसंज्ञा वृत्ता तदन्तान्मुकार्यं भवति । इह अतिकुमारये देवदत्ताय । प्रादेशे कृते "अनविधौ' [१।११५६] इति प्रतिषेधान्मुकार्य न भवति ।
स्त्री ॥१।२।६३॥ स्त्रीशब्दश्च मुसंज्ञो भवति । 'श्रामीयुवो:" [१।२।६४] "वा” [१॥२॥६५]] हिति प्रश्च [११२।१६] इति नियमविकल्पयोः सामान्येन पुरस्तादयमपवादः । हे स्त्रि। स्त्रीणाम् । स्त्रियै । प्रादेश डाडागमाः सिद्धाः।
आमीयुवोः ॥शश६४॥ श्रामि परत इयुवोः स्थानिनौ ग्वौ स्त्र्याख्यौ मुसज्ञौ भवतः। सिद्ध सत्यारम्भो नियमार्थः, अाम्येव मुसंज्ञा नान्यत्र । हे श्रीः । हे भ्रः। इयुवोरिति किम् ? प्रध्यै । वर्षाम्वै ।
वा ॥१॥२६॥ वा मुसंज्ञा भवतीत्यामीयुवोः। श्रीणाम् । श्रियाम् । भ्रणाम् । ध्रुवाम् ।
जिति प्रश्च ॥१॥६६॥ वोर्यः प्रः स्त्र्याख्य इयुवोश्च स्थानिनौ यौ य्वौ तेषां ङिति वा मुसंशा भवति । कृत्यै । कृतये । धेन्वै। धेनवे । पक्षे "स्वसखि" [११२।१७] इति सुसंज्ञा । "सोहिति"
१. 'छिदि' अ०, ब०, स०। २.-तक्षत् । अररक्षदित्य-अ०, स०। ३. कपरघौ प-१०। १. 'पाण्मोः ' स०। ५.-डागमाडागमाः सिद्धाः-अ०, ब०, स०। ६. 'वा च मु-ब०, स० ।
For Private And Personal Use Only