________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प०. पा० २ सू० ८४-१०] महावृत्तिसहितम् इति सिद्धे अप्राणिकर्तृकार्थ ग्रहणम् । प्रवत्यादीनामचल्यद्यर्थम् । बोधयति पद्मम् । योधयति काष्ठानि । नाशयति पापम् । जनयति पुण्यम् । अध्यापयति शास्त्रम् । प्रावयति ग्रामम् । प्रापयतीत्यर्थः । द्रावयति लोहम् । वितापयतीत्यर्थः । स्रावयति तैलम् । स्यन्दयतीत्यर्थः।
चल्यद्यर्थात् ॥१॥२॥८४|| णेरिति वर्तते । चलेरर्थः कम्पनम् । अदेरर्थोऽभ्यवहारः । चल्यर्थेभ्योऽद्यर्थेभ्यश्च धुभ्यो एयन्तेभ्यो मं भवति । चल्यर्थेभ्यः-चलयति । चोपयति । कम्पयति । "कम्पने चलेः" (१) इति मित्सज्ञायां प्रादेशः। अद्यर्थेभ्यः-निगारयति । भोजयति । श्राशयति । सर्वत्राद्यर्थकार्यमदेर्नेष्यते । श्रादयन्ते देवदत्तेन । इह पय उपयोजयते देवदत्तेनेति भक्षणार्थाभावान्मं न भवति । सकर्मकाथमप्राणिकर्तृकार्थञ्च सूत्रम्।
अणौ धेः प्राणिकर्तृकात् ॥२२८अण्यन्तावस्थायां यो धुधिः प्राणिकर्तृकस्तस्साएण्यन्तान्म भवति । आस्ते देवदत्तः। श्रासयति देवदत्तम् । शेते देवदत्तः । शाययति देवदत्तम् । अणाविति किम् १ चेतयमानं प्रयोजयति । चेतयते । ननु च "णिच:" [१२२७२] इत्यत्र हेतुमण्णिचो ग्रहणं व्याख्यातम् । अणाविति तस्यायं प्रतिषेधः। तेनात्र मं भवत्येव चेतयतीति । इदं तर्हि प्रत्युदाहरणम् । श्रारोहयमाणं प्रयोजयति श्रारोहयते । अथवाऽणाविति धेविशेषणम् । अणौ यो धिस्तस्य प्रणं यथा स्यात् । अन्यथा धिग्रहणे
तविशेषणे इहैव मं स्याच्चेतयमानं प्रयोजयति चेतयति । श्रासयति इत्यादौ न स्यात् । धेरिति किम ? कटं कुर्वाणं प्रयोजयति कारयते । प्राणिकर्तृकादिति किम् ? शुष्यन्ति व्रीयः । शोषयते व्रीहीनातपः । "प्राण्योषधिवृक्षेभ्योऽवयवे च" [३।३।१०३] इति पृथा निर्देशादिह शब्दशास्त्रे वनस्पतिकायाः प्राणिग्रहणेन न गृह्यन्ते ।
क्यषो वा ॥१॥८६॥ क्यषन्ताद्वा मं भवति । वावचनसामर्थ्यात् पने दोऽपि भवति । अपटत्पटद्भवति पटपटायति । पटपटायते । "अव्यक्तानुकरणादनेकाचोऽनिती डा" [ १६] इति डान् । 'डाचि" इति द्वित्वम् । “म्रौ डाचि नित्यम्' [॥३॥८७] इति तकारस्य पररूपत्वम् । टिखम् । “डाउलोहितात्क्य" [ ५] इति क्यः । एवमलोहितो लोहितो भवति लोहितायते ।
धु झ्यो लुङि ॥१॥२॥८७॥ कृपूपर्यन्ता | तादयः । वेति वर्तते । द्यु तादिभ्यो वा में भवति लुङि परतः । व्या तत् । व्यद्योतिष्ट । अलुटत् । अलोटिष्ट । मविधिपक्षे “धु त्पुषादिलित्सर्तिशास्स्यतेम' [२।१।४] इत्यङ्। यद्यपि मेऽविधानसामर्थ्यान्मविधिलब्धस्तथाप्यनुदात्तेत्करणं लुङोऽन्यत्र सावकाशमिति नित्यं मं स्यादिति विकल्पार्थं वचनम् । लुङीति किम् ? द्योतते । द्यु ता सहचरिता इतरेऽपि तयोच्यन्त इति बहुवचननिर्देशः।
स्यसनोवृद्भ्यः ॥१।२।८८॥ द्यु तादिष्वन्तता वृतादयः। वृतादिभ्यो वा मं भवति स्ये सनि च सति । वय॑ति । अवस्य॑त् । विवृत्सति । वर्तिष्यते । अवति यत । विवर्तिषते । एवं वृध सृध स्यन्दू इत्येते योज्याः । मविधौ “न वृतादेः" [५।१।१०७] इतीट्प्रतिषेधः।
लुटि च क्ल,पः॥१२॥८६॥ क्ल पेलुटि स्यसनोश्च वा में भवति। कलता । कल्तारौ। कल्सारः । कल्प्स्यति । अकल्प्स्यत् । चिक्लप्सति । कल्पितारः। कल्पिष्यते । अकल्पिष्यत । चिकल्पिषते । क्ल पेवृतादित्वादेव स्यसनोर्विकल्पे सिद्धे चकारेणानुकर्षणमसन्देहार्थम् । क्लप इति लत्वं किमर्थम् ? ऋकारस्थस्य रेफभागस्य रेफग्रहणेन ग्रहणं यथा स्यात् । क्लुप्तः । क्लुप्तवान् । मातृणाम् । पितृणाम् । लत्वं णत्वञ्च सिद्धम् ।
स्पर्द्ध परम् ॥१२॥६०॥ स्पर्द्ध परं कार्य भवति । द्वयोः प्रसङ्गयोरन्यार्थयोरेकस्मिन् युगपदुपनिपाते सङ्घर्षः स्पर्धः। “यव्यतो दीः" [श६६] "सुपि" [१२।६७] इति दीत्वस्यावकाशः। देवाभ्याम् । वृषाभ्याम् । "बहौ झल्येत् [२।२।६८] इत्यस्यावकाशः । देवेषु । वृक्षेषु । इहोभयं प्राप्नोति देवेभ्य इति । सूत्रविन्यासे परमेत्वं भवति । अप्रवृत्तौ पर्याये वा प्राप्ते वचनम् । “कार्यकालं सज्ञापरिभाषम्" [परि०]इति । यावन्ति
1. पापम् । जनयति पापम् । जन-ब०, स० । २.'आदयते' अ०,ब०, स० । ३. चिक्लप्सति । कपिपता। कल्पितारौ। कल्पितार:-अ०, ब.
For Private And Personal Use Only