________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
र
जैनेन्द्र-व्याकरणम् [अ० १ पा० २ सू० ७१-८३ चिकित्सां वैद्यः । चिकित्सेति वैद्यकग्रन्थः । काप्ये इत्येव । संयच्छति उद्यच्छति श्रायच्छति परस्य वस्त्रम् । "आडो यमहनः" [ १।२।२३ ] इत्यनेन धेर्दविधानमुक्तम् ।
शोगः ॥शश७१॥ जानातेरगिपूर्वादो भवति काप्ये फले। गां जानीते। अगेरिति किम ? स्वर्गलोकं प्रजानाति । काप्ये फले इत्येव । परस्य गां जानाति ।
णिचः ॥१।१७२।। णिजन्ताद्दो भवति काप्ये फले । कटं कारयते । श्रोदनं पाचयते । लक्षः स्वरितेत्करणाज्ज्ञायते हेतुमण्णिचो ग्रहणमिदम् । क प्ये फल इत्येव । परस्य कटं कारयति ।
पादम्याङयमाङ यसपरिमुहरुचिनृद्धेट्वद्वसः ॥११२।७३॥ णिच इति वर्तते । पा दमि श्राङ्यम प्राङ्यस परिमुह रुचि-नृत्-धेट् वद् वस इत्येतेभ्यो एयन्तेभ्यः काप्ये फले दो भवति । पाययते । दमयते । आयामयते । "यमोऽपरिवेषण" इति मित्सज्ञाप्रतिषेधात् प्रो न भवति । प्रायासयते । परिमोहयते । रोचयते । नर्तयते। धापयते। वादयते। वासयते । पाधेटोरद्यर्थत्वान्नतिवद्योश्चल्यर्थत्वात् "चल्यद्यर्थात्" [१॥२।८५] इति मं प्राप्तम् । अन्येषाम् "अणौ धेः प्राणिकर्तृकात्" [ ११२१८५] इति । तत प्रारम्भः ।
वा वाग्गम्य ॥१॥२।७४॥ वागिति नेदं पारिभाषिकत्य "ईपाऽत्र वाक् [२११७६] इत्यस्य ग्रहणं किं तर्हि वाक्छब्दः । पदान्तरमित्यर्थः। वागगम्ये काप्ये फले वा दो भवति । स्वं धान्यं पुनीते । स्वं धान्यं पुनाति । षभिर्योगैनित्यं दे प्राप्ते विकल्पोऽयम् ।
मम् ॥॥२७॥ नियमार्थम् । यस्मान्मं दश्च प्राप्नोति तस्मान्ममेव भवति । पूर्वेण प्रकरणेन प्रकृतिनियमः कृतो दस्त्वनियत इत्युभयप्रातिरस्ति । याति । वाति । प्रविशति । अाक्रामति धूमः । औ द एव भवतीति अर्थनियमो व्याख्यातः । ततः कर्तरि मं द्रष्टव्यम् । यदि वा "कर्तरि ज" [१॥२] इत्यतः कर्तरि तेनेह न भवति । गम्यते । रम्यते ।
परानुकत्रः ॥२६॥ परा अनु इत्येवंपूर्वात् कृत्रो में भवति । गन्धनादिषु दः प्राप्तस्तदपवादोऽयम् । पराकरोति । अनुकरोति । क प्ये फले ममेव भवति । कस्मान्न नियमः । तत्रापूर्वो विधिरस्तु नियमो वास्त्वित्य पूर्व एव विधिर्भवति ।
प्रत्यभ्यतिक्षिपः॥१२७७।। प्रति अभि अति इत्येवम्पूर्वात् क्षिपो मं भवति । प्रतिक्षिपति । अभिक्षिपति । अतिक्षिपति । स्वरितत्वादः प्राप्तः। एतेभ्य इति किम् ? प्राक्षिपते ।
प्रवहः ॥१२॥७८॥ प्रपूर्वाद्वहतेः काप्ये फले मं भवति । प्रवहति ।
मृषः परेः ॥२६॥ परिपूर्वान्मृषतेमं भवति । परिमृष्यति । परिमृष्यतः। परिमृष्यन्ति । वहिमपि केचिदनुवर्तयन्ति । परिवहति । परेरिति किम् । मृष्यते परीषहान् साधुः ।
व्याङश्च रमः ॥२०॥ विश्राङ, इत्येवम्पूर्वात् परिपूर्वाच्च रमेमें भवति । विरमति । श्रारमति । परिरमति । अनुदात्तेत्त्वाद्दः प्राप्तः । एतेभ्य इति किम् । रमते । अभिरमते ।
उपात् ।।१।२।८।। उपपूर्वाञ्च रमेम भवति । भार्यामुपरमति । पृथग्योग उत्तरार्थः ।
वा धेः॥२२॥ उपपूर्वाद्रमेधैर्वा में भवति । यावद्भक्तमुपरमति । उपरमते । निवर्तत इत्यर्थः । विरिरंसतीत्यत्र पूर्वस्य दनिमित्ताभावात् "सनः पूर्ववत्' [१॥२१८ ] इति दो न भवति ।
बुध्युनश्जने प्रद्र स्रोणेः ॥१॥२॥८॥ काप्ये फले णिच इति दे प्राप्तेऽयमारम्भः। बुध युध नश जन इङ्छु द्रु स् इत्येतेभ्यो एयन्तेभ्यो मं भवति । येऽत्राकर्मकास्तेषाम् “अणौ धेः प्राणिकर्तृकात्'' [११२१८५]
१ जानीते । अश्वं जानीते। अगे--अ०, ब०, स०। २. "लक्ष दर्शनाङ्कनयोः" इति धोः स्वरितेत्करणादित्यर्थः । ३. नियमोऽयम् अ०, स०। ४. प्रवहति । प्रवहतः। प्रवहन्ति ।",ब., स०।५. "परिषहान्" अ०। ६. “यावद्भक्तमुपरमति" ब० ।
For Private And Personal Use Only