SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० १ पा० २ सू० ६१-७० ] महावृत्तिसहितम् प्रयुङ । वियुङ्क्ते । नियुङ्क्ते । अयज्ञपात्र इति किम् ? द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति । गेरिति किम् ? युनक्ति । "युज समाधौ” इत्यस्यानुदात्त त्वादग्रहणम् । उदः ॥१।२६१॥ उत्पूर्वाद्य जेरयज्ञपात्रे दो भवति । उद्युते । नियमोऽयं हलन्तेषूद एव नान्य. स्मात् । निर्युनक्ति । दुर्युनक्ति । संयुनक्ति । संक्ष्णोः ॥शश६२॥ सम्पूर्वात् चणुवो दो भवति । संघणुते । संक्ष्णुवाते । संदणुवते शस्त्रम् । भुजोऽदौ ॥१।२।६३॥ शब्दे कार्यस्यासम्भवाददावित्यर्थग्रहणम् । भुजेरद्यर्थवर्तमानादो भवति । भुङ्क्ते । भुञ्जाते । भुञ्जते । अर्थासम्भवात्तौदादिकस्य भुजेरग्रहणम् । निभुजति पाणिम् । अदाविति किम् ? भुनक्ति वसुधां भरतः । पालयतीत्यर्थः । णे(स्मेहेतुभये ॥१॥२६४॥ एयन्ताभ्यां भी स्मि इत्येताभ्यां हेतुभयेऽर्थे दो भवति । "तद्योजको हेतुः" [११२२६] इति हेतुः । तस्य भयशब्देन भावसाधनेन "का भीभिः' [१।३।३२] इति षसः । भयग्रहणेन विस्मयोऽपीह लक्ष्यते। मुण्डो भीषयते । “ईतः षुङ नित्यम्" [३।४६] इति षुम् । मुण्डो विस्मापयते । जटिलो विस्मापयते । "स्मिङः'' [।३।५०] इत्यात्वम् । हेतुभय इति किम् ? कुञ्चिकयैनं भाययति । वाचा विस्माययति । अकाप्यफलार्थोऽयमारम्भः । वञ्चने गृधिवञ्चः॥१२६५॥ णेरिति वर्तते । वञ्चनं विसंवादनम् । गृधि वञ्चि इत्येताभ्यां एयन्ताभ्यां वञ्चनेऽर्थे दो भवति । माणवकं गर्द्धयते । माणवकं वञ्चयते । विसंवादयतीत्यर्थः। वञ्चन इति किम् ? श्वानं ग यति । काङ्क्षामस्योत्पादयतीत्यर्थः । अहिं वञ्चयति । गमयतीत्यर्थः। लियोऽधायसम्मानने च ॥२२॥६६॥ णेरिति वर्तते । न धाय मधाष्ये शालीनीकरणम् । सम्माननं पूजनम् । लिनातीयतेश्च एयन्तादधाष्ट्यं सम्माननयोर्वञ्चने च वर्तमानाहो भवति । अधाष्ट्येश्येनो वर्तिकामपलापयते । अभिभवतीत्यर्थः । सम्मानने-जटाभिरालापयते । हेतौ भा। आत्मानं पूजयती त्यर्थः । वञ्चने च । कस्त्वामुल्लापयते । प्रलम्भयतीत्यर्थः। "विभाषा लियोः" [१३४४] इति व्यवस्थितविभाषाश्रयणादेषु त्रिषु नित्यमात्वम् । अधाादिष्विति किम् ? बालकमुल्लापयति ।। को मिथ्यायोगेऽभ्यासे ॥१६॥ गोरिति वर्तते । अभ्यासो गणनिका । करोतेर्यतालिम ध्याशब्दयोगेऽभ्यासेऽर्थे दो भवति । पदं मिथ्या कारयते । स्तुति मिथ्या कारयते। सदोषं पुनः पनरुच्चारय तीत्यर्थः । कृत्र इति किम् ? पदं मिथ्या वाचयति । मिथ्यायोग इति किम् ? स्तोत्रं सुष्टु कारयति । अभ्यास इति किम् ? सकृत्पदं मिथ्या कारयति । एकवारमुच्चारयतीत्यर्थः । __ अस्वरितेतः क प्ये फले ॥शश६८॥ रिति निवृत्तम् । उत्तरत्र णिच इति निर्देशात् । जितः स्वरितेतश्च ये धवस्तेभ्यो दो भवति कर्तारमाप्नोति चेत् क्रियाया फलम् । फलं सर्व क्रियातो भवतीति सामर्थ्यात् क्रिया लभ्यते । फलग्रहणं मुख्यफलपरिग्रहार्थम् । जितः-पुनीते । लुनीते । कुरुते । स्वरितेतः-पचते । यजते । वपते । मुख्य क्रियाफलमत्र कर्तारमाप्नोति । कम्प्ये फल इति किम् ? पचन्ति भक्तकराः। वपन्ति भूतकाः। नात्र मुख्यं फलं किन्तु भृतिरानुषङ्गिक वा फलम् । अस्वरितेत इति किम् ? याति । वाति । वदोऽपात् ॥१॥२॥६६॥ अपपूर्वाद्वदतेर्दो भवति काप्ये फले । एकान्तवादमपवदते। क;प्ये फले इत्येव । अपवदति । इतः प्रभृति काप्ये फले दो वेदितव्यः । समुदाङचमोऽग्रन्थे ॥१।२७०॥ .सम उत् प्राङ् इत्येवम्पूर्वायमेरग्रन्थविषये दो भवति । व्रीहीन् संयच्छते । आत्मनश्चद् व्रीहयो भवन्ति । भारमुद्यच्छते । पापमायच्छते । अग्रन्थ इति किम् ?. उद्यच्छति १. वियुक्त इति अ० पुस्तके नास्ति । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy