________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम् ० . पा. २ सू० ५४-६० नानोः ॥१२॥५४॥ अनुपूर्वाज्जानातैः सन्नन्तादो न भवति । पुत्रमनुजिज्ञासति । भृत्यमनुजिज्ञासति । सकर्मकादिति वक्तव्यम् [वा०] इह मा भूत् । अनुजिज्ञासते मनसा । नो वक्तव्यम् । पूर्वेण प्रातस्यायं प्रतिषेधः । पूर्वेण च सकर्मकादेव सन्नन्ताद्दो विहितः । धेस्तु "सन: पूर्ववत्" [१२।५८] इति दः । अनोरिति किम् ? पुत्र जिज्ञासते।
प्रत्याश्रुवः ॥१॥२॥५५॥ नेति वर्तते । प्रति प्राङ् इत्येवम्पूर्वात् शृणोतेः सन्नन्ताद्दो न भवति । प्रतिशुश्रूषति । अाशुश्रूषति शास्त्रम् । “श्रुस्मृदृशः सनः" [१।२।१२] इति प्राप्तस्यानेन प्रतिषेधः। सनिर्देशः समर्थार्थः । सामर्थ्यञ्च धोर्गिना । तेनेह न प्रतिषेधः । देवदत्त प्रतिशुश्रूषते ।
शदेर्गात् ॥२॥५६॥ नेति निवृत्तमसम्भवात् । गनिमित्तभूतः । शदिरुपचाराद्गः । शदेविषयाद्दो भवति । शीयते । शीयेते । शोयन्ते । "पाघ्रा" [१२।३६] श्रादिना शीयादेशः । गादिति किम् ? शत्स्यति । अशत्स्यत् । शिशत्सति ।
मृङो लुङ्लिङोश्च ॥१२॥५७।। म्रियतेलुंलिङोर्गपराच्च दो भवति । अमृत । मृषीष्ट । आशिषि लिङ् । “3:" [१।११८६] इति सिलिकोः कित्वम् । गपरात् खल्वपि । म्रियते । म्रियस्व । “रिङ् यगलिशे" [१२।१३०] इति रिकादेशः। ङित्वादेव दे सिद्ध नियमार्थमिदमन्यत्र दो न भवति । मरिष्यति । अमरिष्यत् । ममार ।
सनः पूर्ववत् ॥१॥२॥५८॥ पूर्वेण तुल्यं वर्तत इति पूर्ववत् । पूर्वत्वञ्च प्रत्यासत्त: । सनः पूर्वो यो धुत्तद्वत्सन्नन्ताहो भवति । येभ्यो धुभ्यो येन विशेषणेन दो विहितस्तेभ्यः सन्नधिकेभ्योऽपि दो भवतीत्यर्थः । यथा "इनुदारोतो दः" [१।२।६] इति । शेते। प्रास्ते । एवं सन्नन्तादपि शिशयिषते । आसिसिषते । गिविशेषणेन “निविशः" [१।२।११] निविशते । निविविक्षते । अर्थविशेषेण "गन्धना." [१।२।२७] श्रादिना उत्कुरुते । अमिममुच्चिकीर्षते । उभयविशेषेण "ज्योतिरुद्गताघाङः" [१।२।३६] आक्रमते । श्राचिकंसते । " स्नोर्थात्, शिश१११] "क्रमः" [११।११२] इतीट्पतिषेधः । कारकविशेषेण "ज्ञोऽपहवे" [१।२।४०] “धेः" [१।२।४१] । सर्पिषो जानीते । सर्पिषो जिज्ञासते । इह जुगुप्सते मीमांसत इति गुप्प्रकृतेरवयवस्यानुदात्तेत्करणं सन्नन्तसमुदायस्य विशेषेणमिति दः सिद्धः। यद्येवं गोपायत्यादावपि स्यात् । कर्तव्योऽत्र 'यत्नः । पूर्ववदिति किम् ? शिशत्सति । मुमूर्षति । अत्र दनिमित्तं नास्ति ।
आम्वत् तत्कृषः ॥१॥२॥५६॥ आम्ग्रहणेन यस्मादाम् विहितस्तस्य ग्रहणम् । श्राम इव आम्वत् । तस्य कृन तत्कृत्र । यस्मादाम् तस्येव धोस्तत्कृतो दो वेदितव्यः। ईहाञ्चक्र । ईक्षाञ्चक्रे । लिटि परतः "सरोरिजादे" [२१११३२] इत्याम् | "आमः" [११४१४६] इति परस्योप् । लस्य कृत्वान्मृत्वे सति स्वादिविधिः । “सुपो मेः" [१।४।१५०] इति तस्योप् । “लिड्वत् कृजि' [२१११३६] इत्यनुप्रयोगस्य करोतेरनेन दः । विधिनियमश्चात्रेभ्येते । पूर्ववदिति वर्तते । अकाप्ये फले पूर्ववद्दो भवतीति विधिः। कर्नाप्ये फले अाम्वदेव दो भवति । तेन दाई स्यैवामन्तस्य प्रयोगे दो भवतीति नियमादिह न भवति । उदुम्भाञ्चकार । तद्ग्रहणं किम् ? आमन्तानुप्रयोगस्य ग्रहणं यथा स्यादिह मा भूत् । ईहते । करोतीति कृग्रहणं किमर्थम् ! करोतेरेव
था स्यादिह मा भूत् । ईक्षामास । ईक्षाम्बभूव । इह कृञ्ग्रहणादन्यनिरासार्थाज्ज्ञायते"लिड्वत्कृजि"[२१११३६] इत्यत्र प्रत्याहारग्रहणं "कृभ्वस्तियोगे" [१।२।१५] इत्यत आरभ्य “कृजो द्वितीय '[४।२।६२] इति अकारेण ।
युजोऽयज्ञपाने गेः ॥१।२।६०॥ अकाप्यफलार्थोऽयमारम्भः । युजेर्गिपूर्वादो भवत्ययज्ञपात्रविषये ।
१. "प्रासिसिषते” इति अ. पुस्तके नास्ति । २. विशेषकमिति अ०,ब०,स०। ३. “अनुदारोत्त्वलक्षणो दोऽनित्यः' इति परिभाषारूपो यत्नः ।
For Private And Personal Use Only