________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० १ पा० २ सू० ४४-५३ ] महावृत्तिसहितम् दिष्वर्थेषु वदतेो भवति । दीप्तौ-बदते चावी तत्त्वार्थे । 'दीप्यमानो वदतीत्यर्थः। उपोक्ती-कर्मकरानुपवदते। उपत्य सम्भाषत इत्यर्थः । ज्ञाने-वदते चावी चन्द्रोदये। जानाति वदितुमित्यर्थः। ईहे-कोऽस्मिन् क्षेत्र वदते । को यतत इत्यर्थः । विमतौ-गेहे विवदन्ते । गोष्ठे विवदन्ते । विचित्रं भाषन्त इत्यर्थः । उपमन्त्रणे-कुलभार्यामुपवदते । परदारानुपवदते । अनुकूलयतीत्यर्थः । एतेष्विति किम् ? वदति देवदत्तः ।
व्यक्तवाक्समुक्तौ ॥१२॥४४॥ व्यक्तवाचो व्यक्तवर्णत्वान्मनुष्यादयः प्रसिद्धाः । सम्भय वचनं समुक्तिः । व्यक्रवाचां समक्तो गम्यमानायां वदतेर्दा भवति । सम्प्रवदन्ते ग्राम्याः। सम्प्रवदन्ते साधवः । सम्भूय भाषन्त इत्यर्थः । व्यक्तवागिति किम् ? सम्प्रवदन्ति कुक्क टाः । समुक्ताविति किम् । देवदत्तो वदति जिनदत्तम् ।
अनोधैः ॥१॥२॥४५॥ अनु पूर्वाद् वदतेधेयॊ भवति । अनुवदते जिनदत्तो देवदत्तस्य । अनुः सादृश्ये पुनरर्थे वा । धेरिति किम् ? पूर्वमुक्तमनुवति । व्यक्तवाक्समुक्तावित्येव । अनुवदन्ति वीणा।
वा विवादे ॥ ४६॥ विवादो विप्रलापस्तत्र वर्तमानाद्वदतेर्वा दो भवति । विप्रवदन्ते सांवत्सराः । विप्रवदन्ति सांवत्सराः। विप्रवदन्ते वादिनः । विप्रवदन्ति वादिनः । युगपद्विरुद्ध वदन्तीत्यर्थः । व्यक्तवाग्ग्रहणमनुवर्तते । ततो व्यक्तवाक्समुक्ताविति नित्ये प्राप्त विकल्पः । विवाद इति किम् ? सम्प्रवदन्ते साधवः । व्यक्तवागित्येव । सम्प्रवदन्ति शकुनयः । समुक्तावित्येव । सम्प्रवदन्ति वादिनः क्रमेण ।
प्रोऽवात् ॥१॥२॥४७॥ अवपूर्वागिरतेो भवति । अवगिरते। अवगिरेते । अवगिरन्ते । गृणातेरवपूर्वस्य प्रयोगो नास्ति । अवादिति किम् ? गिरति । निगिरति ?
- प्रतिज्ञाने समः ॥४८॥ प्रतिज्ञानमभ्युपगमः प्रतिज्ञानेऽथें सम्पूर्वागिरतेो भवति । अनेकान्तास्मकं वस्तु सङ्गिरते । शतं सङ्गिरते । प्रतिज्ञान इति किम् ? सङ्गिरति ।
उच्चरोऽधेः ॥१२॥४६॥ उत्पूर्वाच्चरतेरधेर्दो भवति । गुरुवचनमुच्चरतें । उत्क्रम्य चरतीत्यर्थः । अधेरिति किम् ? धूम उच्चरति । उर्ध्वं गच्छतीत्यर्थः ।
समो भया ॥१२॥५०॥ सम्पूर्वाच्चरतेर्भान्तेन योगे दो भवति । रथेन संचरते। अश्वेन संचरते । भान्ते प्रयुक्त दो भवति, न तु गम्यमाने । भायुक्तादिति किम १ त्रील्लोकान संचरति जिनधर्मः । अत्र स्वात्मनेति करणं गम्यमानम् । “दाणश्च सा चेदबर्थेऽशिष्टव्यवहारे इति वक्तव्यम्" [वा०] सम्पूर्वाद्दाणो भायोगे दो भवति सा चेदबर्थे भा । इदमेव ज्ञापकमशिष्टव्यवहारे भाऽपि भवतीति । दास्या संप्रयच्छते । वृषल्या संप्रयच्छते कामुकः । सम इति संबन्धे ता । तेन प्रशब्देन व्यवधानं न भवति । अबर्थ इति किम् ? पाणिना सम्प्रयच्छति । नेदं वक्तव्यम् । कर्मव्यतिहारे दः । सहार्थे च भा द्रष्टव्या।
स्वीकृतावुपाद्यमः ॥१॥२॥५१॥ पाणिग्रहणमविरोधो वा स्वीकृतिः। उपपूर्वाद्यमः स्वीकृतावर्थे दो भवति । कन्यामुपयच्छते । भार्यामुपयच्छते । स्वीकृताविति किम् ? परभार्यामुपयच्छति ।
श्रुस्मृदृशः सनः ॥१२॥५२॥ श्रु-स्मृ-दृश-इत्येतेभ्यः सन्नन्तेभ्यो दो भवति । शुश्रूषते शास्त्रम् । सुस्मूर्षते पूर्ववृत्तम् | दिदृक्षते देवम् । श्रुदृशिभ्यामकर्मकावस्थायां "समो गम्प्रच्छि." [१२।२४] इत्यादिना दो विहितस्तत्र “सनः पूर्ववत् " [ २८] इत्येव दः सिद्धः सकर्मकार्थमिदम् । स्मरतेरप्राप्ते विधानम् ।
शः ॥१२॥५३॥ जानातेः सन्नन्तात् दो भवति । जिज्ञासते धर्मम् । “ज्ञोऽपहवे" [२०] "धेः" [१२0१] "संप्रतेरस्मृती" [१२।४२] इति जानातेदों विहितः। तथा काप्ये फले "ज्ञोजोः" [११२१७१] इत्यत्र पूर्ववत्सन इति सिद्धस्ततोऽन्यत्रदं वचनम् ।
१. तयेति शेषः । २.- प्यमाना वद-अ०, ब०, स० । ३. 'गोष्ठे विवदन्ते' अ० पुस्तके नास्ति । ४. -ति सावत्सरः । व्यक्त-अ०। ५. वाप्यः ब०, स०, मु०। ६. सङ्गिरन्ते मु०। ७. -रते । कुटुम्बमुच्चरते। उत्क्रम्य-१०, ब., स.।
For Private And Personal Use Only