________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० १ पा० २ सू० २४-३१] महावृत्तिसहितम्
समो गम्प्रच्छिस्वच्छिश्रुविदृशः ॥१।२।२४॥ धेरिति वर्तते । सम्पूर्वेभ्यो गम्-प्रच्छि-स्व-अ-च्छिश्रु-विद-दृश्-इत्येतेभ्यो दो भवति । सङ्गच्छते । संपृच्छते । संस्वरते । ऋ इति ऋच्छतेरियर्तेश्च ग्रहणम् । समृच्छते। समियते। समरिष्यते । अच्छतेरनादशस्य ग्रहणम् । आदेशस्य ऋग्रहणेन सिद्धत्वात् । समृच्छिष्यते । संशृणुते। विदेरादादिकस्य ग्रहणं मद्भिस्साहचर्यात् । संवित्त । संपश्यते । धेरित्येव । सकुच्छति सुहृदम् । संवेत्ति धर्मम् । “गेरस्वत्यूह्योति वक्तव्यम्" [वा०]। निरस्यते । निरस्यति । समूहति । समूहते ।
निसंव्युपाद् ह्वः ॥१।२।२५।। पुनः संग्रहणाद्ध रिति निवृत्तम् । नि-सं-वि-उप इत्येवम्पूर्वात् हयतेदों भवति । नियते । संह्वयते । विह्वयते । उपह्वयते । ह्वयतेरात्वेन विकृतनिर्देशेऽपि प्रकृतिग्रहणम् "न व्यो लिटि" [४।३।३६] इति निर्देशात् ।
आङः स्पर्द्ध ।।१।२।२६॥ स्पर्ध: पराभिभवेच्छा । श्राङपूर्वात् ह्वयतेः स्पद्धविषये दो भवति । मल्लो मल्लमाह्वयते । छात्रछात्रमाह्वयते । स्पर्द्ध याह्वानं करोतीत्यर्थः । स्पद्ध' इति किम् ? गामाह्वयति ।
गन्धनाऽवक्षेपसेवाऽन्यायप्रतियत्नप्रकथोपयोगे कृतः ॥१२॥२७॥ गन्धनं सूचनम् । अवक्षेपो भर्सनम् । सेवा संश्रयः । अविधिना प्रवृत्तिरन्यायः । अविद्यमानार्जनं विद्यमानसंस्कारो वा प्रतियत्नः। प्रबन्धेन कथनं प्रकथा । उपयोगो धर्मादिनिमित्तो व्ययः । गन्धनादिष्वर्थेषु वर्तमानात् कृत्रो दो भवति । गन्धनेउत्करते अयमिमम । सूचयतीत्यर्थः। अवक्षेपे-स्येनो वर्तिकामुपकुरुते । भर्सयतीत्यर्थः । सेवायाम-गणकानपकुरुते । सेवत इत्यर्थः । अन्याये-परदारानुपकुरुते । न्यायमनपेक्ष्य तेषु प्रवर्तत इत्यर्थः । प्रतियत्ने-एधो दकस्योपस्कुरुते । “प्रतियरने कृमः"[१।४।६० ] इति कर्मणि ता । उपात्प्रतियत्नवैकृत." [४।३।११२] इत्यादिना सुट् । प्रकथायाम्-जनापवादान् प्रकुरुते । उपयोगे-शतं प्रकुरुते । धर्माद्यर्थ विनियुक्त इत्यर्थः । एतेष्विति किम् ? कटं करोति । अविष्करोतीत्यत्र प्राविः शब्द एव गन्धने वर्तते न करोतिः। अपकारप्रयुक्त वा सूचनं गन्धनमित्यदोषः।
प्रसहनेऽधेः ॥१२॥२८॥ प्रसहनमभिभवः । अधिपूर्वात्कृत्र : प्रसहनेऽर्थे दो भवति । शत्रुनधिकुरुते । वादिनोऽधिकुरुते । अभिभवतीत्यर्थः । प्रसहन इति किम् ? अधिकरोति । अकाप्ये फले ममेव भवति ।
शब्दकर्मणो वेः ॥ २६॥ कर्मेह कम्प्यम् । विपूर्वात् करोतेः शब्दकर्मकाद्दो भवति । ध्वाङ्गो विकुरुते स्वरान् । कोष्टा विकुरुते स्वरान् । शब्दकर्मण इति किम् ? विकरोति कटम् । शब्दग्रहणेन शब्दविशेषाः स्वरादयो गृह्यन्ते । तेनेह न भवति । वकरोति शब्दम् । विकरोत्यनुवाकम् । विकरोत्यध्यायमसावह्ना ।
धेः ॥१२३०॥ विपूर्वात्करोतेधैः भवति । विकुर्वते सैन्धवाः । साधुदान्ताः । ओदनस्य पूर्णाश्चात्रा विकुर्वते । “तृप्त्यर्थे योगे उपसंख्यानम्" [वा०] इति करणे ता ।
सम्मानोत्सजनोपनयनशानभूतिगणनव्यये नियः ॥२॥१॥३२॥ सम्मानः पूजनम् । उत्सञ्जनमुत्क्षेपः। उपनयनमाचार्यकरणम् । ज्ञानमवगमः। भ्रांतवेतनादानम् । ऋणशुल्कादिनिर्यातनं गणनम् । व्ययो धादिष्वर्थावनियोगः। सम्मानादिषु यथासम्भवं विशेषणेवु नयतेधोदों भवात । सम्माने-नयते चावी स्याद्वादे। चावी बुद्धिस्तयागादाचायाऽपि तथोक्तः। विनयेषु प्रतिपादनेन सम्मानं करोतीत्यर्थः। उत्सजनेबालमुदानयते । उत्क्षिपतीत्यर्थः । उपनयने-माणवकमुपनयते । आत्मनः शिष्यभावेन माणवक प्रापयतीत्यर्थः। ज्ञाने-नय ते चार्वी तत्त्वार्थे । तत्त्वपदार्थान् निश्चिनोतीत्यर्थः। भृती-कर्मकरानुपनयते । वेतनादानेन पुष्णातीत्यर्थः । गणने-मद्रकाः करं विनयन्ते । निर्यातयन्तीत्यर्थः । व्यये-शतं विनयते । सहस्र विनयते । एतेविति किम् ? अजां नयति ग्रामम् ।
१. अत्र गन्धनस्य वर्तमानत्वेन दो वक्तव्य इत्याशङ्कायामुत्तरद्वयम् ।
For Private And Personal Use Only