________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६
जैनेन्द्र-व्याकरणम्
[अ० १ पा० २ सू०१६- २३
गतिताछील्य इति किम् ? मातरमनुहरन्ति । “शप उपलम्भन इति च वक्तव्यम्” [ वा० ] वाचा शरीरस्पर्शनमुपलम्भः । देवदत्ताय शपते । उपलम्भन इति किम् १ शपति ।
Acharya Shri Kailassagarsuri Gyanmandir
समोऽक्रूजे ॥१|२|१६|| सम्पूर्वात् क्रीडोऽकुजेऽर्थे दो भवति । संक्रीडते । संक्रीडेते । संक्रीडन्ते । कूज इति किम् ? संक्रीडन्ति शकटानि । अव्यक्तं शब्दं कुर्वन्तीत्यर्थः ।
स्थोऽविप्राच्च ||१|२|१७|| श्रव विप्र इत्येवंपूर्वीत् सम्पूर्वाच्च तिष्ठतेर्दो भवति । श्रवतिष्ठते । वितिष्ठते । प्रतिष्ठते । सन्तिष्ठते ।
ज्ञीप्सास्थेयो || १२|१८|| परपरितोषार्थमात्मरूपादिप्रकाशनं ज्ञीसा । स्थीयतेऽस्मिन् निर्णयरूपेणेति स्थेयः । बहुलवचनादधिकरणे यः । ज्ञीप्सायां स्थेयोक्तौ च तिष्ठतेर्दो भवति । ज्ञी सायाम् तिष्ठते कन्या छात्रेभ्यः । तिष्ठते ब्राह्मणी छात्रेभ्यः । स्वाभिप्रायप्रकाशनेनात्मानं रोचयतीत्यर्थः । ज्ञीप्सनक्रियया कर्मव्यपदेशभाजां छात्राणामुपेयत्वात् संप्रदानत्वम् । स्थेयोनौ - देवदत्ते तिष्ठते । त्वयि तिष्ठते । मयि तिष्ठते । संशयान्निश्चयं करोतीत्यर्थः ।
उद ईहे ||१२|१६|| उत्पूर्वात्तिष्ठतेरीहार्थे वर्तमानाद्दो भवति । गेहे उत्तिष्ठते । धर्मे उत्तिष्ठते । घ इत्यर्थः । इह इति किम् ? अस्माद् ग्रामाच्छतमुत्तिष्ठति । उत्पद्यत इत्यर्थः । इह इति ईहते: पर्यायग्रहणात् गम्यमानायामीहायां न भवति । श्रासनादुत्तिष्ठति । उत्तिष्ठति सेना । अस्माद् ग्रामाद्विष्टि: ( ? ) | पञ्च पुरुषा उत्तिष्ठन्ति ।
उपान्मन्त्रकरणे ||१|२२० ॥ उपपूर्वात्तिष्ठतेर्मन्त्रकरणे दो भवति । जगत्योपतिष्ठते । त्रिष्टुभोपतिष्ठते । मन्त्रकरण इति किम् ? भर्तारमुपतिष्ठति भार्या यौवनेन । उपादिति योगविभागः । तेन देवपूजासङ्गतिकरणमित्रकरणपथिषु दो भवति । देवपूजायाम्- सीमन्धरमुपतिष्टते । सङ्गतिकरणे - रथिकानुपतिष्ठते । मित्रकरणे - महामात्रानुपतिष्ठते । सङ्गतिकरणमुपश्लेषः । मित्रकरणं मानसः सम्बन्धः । पथि श्रयं पन्थाः स्रुघ्नमुपतिष्ठते । “वा लिप्सायामिति वक्तव्यम्” [ वा० ] | भिक्षुको दातृकुलमुपतिष्ठते । उपतिष्ठति वा ।
धेः ||१|२|२१|| श्रकर्मको धिरिति । उपपूर्वात्तिष्ठतैधैर्दो भवति । यावद्भुक्तमुपतिष्ठते । यावदोदैनमुपतिष्ठते । भोजने भोजने श्रदने श्रदने उदीक्षत इत्यर्थः । घेरिति किम् ? स्वामिनमुपतिष्ठति ।
व्युत्तपः || १||२२|| घेरिति वर्तते । वि उदित्येवम्पूर्वात्तपतेर्भेदों भवति । वितपते । ज्वलतीत्यर्थः । उत्तपत्ते । धेरित्येव । उत्तपति सुवर्ण सुवर्णकारः । वितपति पृथ्वीमादित्यः । दहतीत्यर्थः । व्युद इति किम् ? निष्टपति । दीप्यत इत्यर्थः । “स्वाङ्गकर्मकाच्चेति वक्तव्यम्" [ वा० ] वितपते पाणिम् । उत्तपते पाणिम् । श्रात्मीयमङ्गं स्वाङ्गं न पारिभाषिकं तेनेह न भवति । वितपति परपाणिम् । उत्तपति देवदत्तो यज्ञदत्तस्य पृष्ठम् । ङो महनः || १ |२|२३|| श्राङ्पूर्वाभ्यां यम हन इत्येताभ्यां धिभ्यां दो भवति । श्रायच्छते । दीर्घो भवतीत्यर्थः । श्राहते । श्रघ्नाते । श्राघ्नते । यमः कर्त्राप्ये फले “समुदाङ थमोऽग्रन्थे” [ १/२/७० ] इति दः सिद्धो ऽन्यत्रेदम् । धेरित्येव । श्रायच्छति रज्जुम् । श्राहन्ति पापम् । “स्वाङ्गकर्मकाच्चेति वक्तव्यम् [ वा० ] | आयच्छते पाणिम् । आते वक्षः । स्वाङ्गादिति किम् ? परकीयाङ्गे कर्मरिण मा भूत् । ग्राहन्ति शिरः परकीयम् ।
१. रहेऽर्थे अ०, ब०, स० । २ श्र० स० पुस्तकयोः "विष्टिः” इति पाठ: । ब० मु० पुस्तकयोः "दिष्टिः" इति । परं "विष्टिः" इति पाठ: प्रतिभाति । विष्टिश्व कर्मकृत् "आजूवेतनयोविष्टिः कर्मकृत्कर्मणोरपि " इति शाश्वतवचनात् । पूर्ववाक्याच्चात्र "उसिष्टति" इत्यध्याहारः । "गृष्टिः" इत्यपि पाठः सम्भवति । गृष्टिश्व सकृत्प्रसूता गौः । ३ दानिकु - अ० । ४ - दामोद- श्र० । २. दीर्घीभव ब०, स० ।
For Private And Personal Use Only