________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५
भ० : पा० २ सू० ६-१५] महावृत्तिसहितम् कर्तर्येव सिद्ध कर्तृग्रहणमुत्तरार्थम् "न गतिहिंसार्थेभ्यः" [१।२।१] इति । कर्तरि कर्मव्यतिहारे विहितस्य दस्य प्रतिषेधो यथा स्यादिह मा भूत् । व्यतिभूयते सेनया । व्यतिगम्यन्ते ग्रामाः । व्यतिहन्यन्ते दस्यवः । क्रियाव्यतिहार इति किम् ? पारिभाषिककर्मव्यतिहारे मा भूत् । देवदत्तस्य धान्यं व्यतिलुनन्ति ।
न गतिहिंसार्थेभ्यः ।। २रा || गत्यर्थेभ्यो हिंसार्थेभ्यश्च धुभ्यो आर्थे दो न भवति । व्यतिगच्छन्ति । व्यतिधावन्ति । हिंसार्थेभ्यः । व्यतिहिंसन्ति । व्यतिभिन्दन्ति । व्यतिछिन्दन्ति । व्यन्तिपिंषति । बहुवचननिर्देशो हसादिसंग्रहणार्थः । व्यतिहसन्ति । व्यतिजल्पन्ति । व्यतिपठन्ति । व्यतिकथयन्ति । "वह्योरप्रतिषेधो वक्तव्यः" [वा०] सम्प्रहरन्ते राजानः । व्यतिवहन्ते नयः । गतिहिंसयो प्रतिषेधो गतिहिंसाहेतौ न भवति । व्यतिगमयन्ते । व्यतिभेदयन्ते ।
परस्परान्योन्येतरतरे ॥ १॥२॥१०॥ परस्पर अन्योन्य इतरेतर इत्येतेषु प्रयुक्तेषु आर्थे दो न भवति । परस्परस्य व्यतिलुनन्ति | अन्योन्यस्य व्यतिलुनन्ति । इतरेतरस्य व्यतिलुनन्ति । व्यतिभ्यां द्योतितेऽपि कर्मव्यतिहारे परस्परादिपदप्रयोगो द्वावपूपौ भक्षयेति यथा । परस्परादिशब्दानां कथं सिद्धिः । द्वित्वप्रकरणे कर्मव्यतिहारे सर्वनाम्नो द्वित्वम् । “सवच्च बहुलम्" [वा. ] इति वक्ष्यति । . निविशः ॥ २२॥११॥ नि इति स्वरूपस्य ग्रहणं न निसज्ञाया । निपूर्वाद्विशो दो भवति । निविशते । निविशेते । निविशन्ते । लावस्थायामडागमः। तद्भक्तो न व्यवधायकः । न्यविशत | "मम्" [ ११२७५ ] इति में प्राप्तम् । सनिर्देशः समर्थार्थः । सामर्थ्यश्च धोगिना । तेनेह न भवति । मधुनि विशन्ति भ्रमराः । अनर्थकत्वाद्वा ।
परिव्यवक्रियः ॥११२।१२॥ परि वि अव इत्येवंपूर्वात् क्रीणातेयॊ भवति । परिक्रीणीते । विकीणीते । अवक्रीणीते । अकाप्ये फले विधिरयम् । अनर्थकवादिह न भवति । उपरि क्रीणाति । गवि क्रीणाति । अपचाव क्रीणीवः । क्री इति अनुकरणम् । अनुकार्येणार्थवत्त्वान्मृत्वे सति स्वादिविधिः। "प्रकृतिवदनकरणम्" इति धुलातिदेशादियादेशः । उत्तरत्र जेरिति निर्देशात् वत्करणादपि स्वाश्रयोऽपि क्वचिदेव ।
विपराजेः ॥१२१३॥ वि परा इत्येवंपूर्वाजयतेो भवति । विजयते । पराजयते । अत्रापि सनिदशः समर्थस्य गेग्रहणार्थः । तेनेह न भवति । बहुविजयति वनम् । पराजयति सेना ।
आङो दोऽव्यसने ॥२॥१४॥ व्यसनं विकसनं विवरणं वा। अन्येषां दारूपाणां व्यसने वृत्तिर्नास्ति । आपूर्वाददातेरव्यसनेऽर्थे दो भवति । विद्यामादत्त । अकळये फले प्रापणार्थमिदम् । अव्यसनमिति किम् ? आस्यं व्याददाति । पिलकं व्याददाति । विपादिकां व्याददाति । "स्वाङ्गकर्मकादिति वक्तव्यम्" [वा. ] इह मा भूत् । व्याददते पिपीलिकाः पतङ्गमुखम् । यद्यक प्ये फले प्राप्तस्याव्यसन इति प्रतिषेधः काप्ये फले व्यसने दः प्राप्नोति । नैवम् । अव्यसन इति योगविभागाद येन केनचित्प्राप्तस्य प्रतिषेधः। श्राङिति ङित्करणं किम् ? श्रा ददात्यसौ भिक्षामिदानीमहमस्मार्षम् । आङिति योगविभागः । तेन स्थः प्रतिज्ञाने दो भवति । अनित्यं शब्दमातिष्ठन्ते । “गमयते: कालहरणे” [ वा० ] अागमयस्व तावद्देवदत्त । "नुप्रच्छिभ्याञ्च" [वा०] । आनुते शृगालः । श्रापृच्छते गुरुमिति सिद्धम् ।
क्रीडोऽनुपर्याङः ॥२२॥१५॥ अनु परि श्राङ् इत्येवंपूर्वान् क्रीडो दो भवति । अनुक्रीडते । परिक्रीडते । आक्रीडते । गिसाहचर्यादनोर्गे रेव ग्रहणादिह न भवति । माणवकमनु क्रीडति । माणवकेन सहेत्यर्थः । "भार्थे [१४।१४] इत्यनुना योग इप गितिसज्ञाप्रतिषेधश्च । “शिक्षेर्जिज्ञासायां दो वक्तव्यः' [ वा०] शकेः सन्नन्तस्येदं ग्रहणम् । विद्यासु शिक्षते। धनुषि शिक्षते । कर्मविवक्षायां विद्याः शिक्षांचक्रे । “हरतेर्गतिताच्छील्ये' [वा०] पैतृकमश्वा अनुहरन्ते मातृकं गावः । मातुरागतम् "ऋतष्ठञ्” [ ३।३।५२ ] इति ठत्र ।
१. बहु मुवि जय-ब०। २. अपरा अ०। ३. -मातिष्ठते अ०, ब०, स०।
For Private And Personal Use Only