________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
[१०१ पा० २ सू० ४-८
मच" [४३११७६, १७७] इति मुम् प्रसज्येत । अप्रयोगीति किम् ? परमकुलीनः । ईनादेशः कार्यमिति मुम् स्यात् । ननु कार्यार्थोऽप्रयोगी च खः कथं नेत्सञ्ज्ञः ? उभयविशेषणोपादानात् । अन्यस्य कार्यार्थो भूत्वा योऽप्रयोगी यदोषः । अन्वर्था चेयमित्संज्ञा । एति गच्छति नश्यतीत् तेन "तस्य लोपः" [पा. स. ११३।१] इति न वक्तव्यम् । प्रयोगानुसारेणाप्रयोगित्वावगतेः। प्रतिपत्तिगौरवमिति चेत् "उपदेशेऽजनुनासिक इत्" [पा० सू० १॥३॥२] इत्यनुनासिकत्वमपि प्रयोगादेवावसीयत इति समानम् । इत्प्रदेशाः "टिदादिः" [१।२।५३] इत्येवमादयः ।
यथासंख्यं समाः ॥ १२।४॥ यथासंख्यं यथाक्रमं समाः शिष्यमाणा भवन्ति । यथासंख्यं "यावद्यथावधुत्यसादृश्ये" [१।३।६] इति हसः। समास्तुल्याः । तुल्यत्वञ्च द्विष्ठमतः पूर्वोद्दिष्टानामनुद्दिष्टाः समा ज्ञेयाः । "मिप्यस्थतसोऽम्तंतताम्" [
२ २] प्रथमसंख्यस्य मिपः प्रथमसंख्योऽम् इत्येवमादि योज्यम् । समा इति किम् ? "सवाङ्गलक्षणघोषऽज्यजिजामण" [३३] सङ्घादयश्चत्वारोऽर्था अञादयस्त्रयः, वैषम्यात सङ्घादिषु चतुर्वर्थेष्वनंतादणू भवति, तथा यान्तादिञन्ताच्च । समशब्दस्य सर्वार्थे युक्तार्थे च सर्वनामसज्ञोक्का न तुल्यार्थे ।
स्वरितेनाधिकारः ॥ १।२।५ ॥ स्वरितेन लिङ्गेनाधिकारी वेदितव्यः । “त्यः" [२।१।१] "परः" [२२] "ङ्याम्मृदः" [३११] इत्येवमादिः। स्वरित इति प्राचार्यप्रतिज्ञाया लिङ्गम् । “व्यामिश्रः स्वरितः" [१1१1१४] इत्यस्याचो धर्मत्वेन "रो रि" [२१४।१८] इत्येवमादिषु हल्स्वसम्भवादग्रहणम् । अधिकारो विनियोगी व्यापार इत्यर्थः । स्वरितेनेति योगविभागायथासंख्यमपि स्वरितेन ज्ञे यम् ।
अनुदात्तेतो दः॥१२।६ ॥ कारेतोऽनुदात्तेतश्च धोर्द एव भवति । ङितः । खूङ् । सूते । शीङ् । शेते । इङ् । अधीते । अनुदान्तः । श्रास । श्रास्ते । वस । वस्ते । चक्ष । आचष्टे । चक्षेत्किरणमनर्थकम् । अनुदात्तेत्त्वाधुन् । विचक्षणः। "लः कर्मणि च भावे च धे" [ १४] इति धोलकारा विहिताः। तदद्वारेण दविधौ मविधौ च प्राप्त प्रकृतिनियमोऽयम् । ङनुदात्तेतो द एव भवति । दस्त्वनियतः। सोऽन्येभ्योऽपि प्राप्तः । “मम्" [१॥२१७५] इति द्वितीयो नियमः । यत्र मञ्च दश्च प्राप्नोति तत्र ममेव भवति । यदि त्यनियमः स्याद ङनुदाचेत एव दो भवति नान्येभ्यस्तदान्यत्र मस्य सिद्धृत्वात "म" [
१ ५] इति सूत्रमनर्थकं स्यात् । तदारम्भादिष्टावधारणं सिद्धम् । किञ्च त्यनियमे हि ङनुदात्तोऽपि मं प्राप्नोति तन्निवृत्तये शेषान्ममिति शेषग्रहणं कुर्यात् । तदकरणं च ज्ञापर्क प्रकृतिनियमस्य ।
___ौ ॥ १२७ ॥ डिरिति भावकर्मणाः सञ्ज्ञा । ङौ द एव भवति | आस्यते भवता । सुप्यते भवता । भावस्पैकत्वं युष्मदस्मदर्थाऽसम्भवश्व । कारकेभ्यः पृथग्भूतो धोरर्थः स्वप्रधानको भावः । एति जीवन्तमानन्द इत्यत्र अानन्दो बाह्य एतेः कर्तृत्वेन विवक्षित इति दो न भवति । कर्मणि । क्रियते कटः । कर्मकरि । लूयते के सरः। मिद्यते कुसूलः स्वयमेव । अर्थनियमोऽयम् । दस्तु कर्तर्यपि प्राप्तः स ममित्यनेन नियमेन निवर्त्यते । यदि ङावेव दो भवतीति त्यनियमः स्याद् भाबकर्मणोरनियतवान्मेऽपि प्राप्ते तन्निवृत्त्यर्थं शेषात् कर्तरि ममित्युच्येत शेषा'ऽकरणं ज्ञापकमर्थनियमस्य । एवं प्रकृतिनियमेऽर्थनियमे च सति "मम्" [ ११२।७५ ] इत्यत्र कर्तृग्रहणं शेषग्रहणञ्च प्रत्याख्यातम् । ___कर्तरि ॥ १।२।८ ॥ कर्तरि आर्थे दो भवति । “कर्मव्यतिहारे नः" [२।३।७६ ] इति जो विहितस्तत्सहचरितः कर्मव्यतिहारो आर्थः । कर्मव्यतिहारश्च कर्मग्रहणसामर्थ्यात् क्रियाव्यतिहारः। अन्यस्य कर्तुमिष्टां क्रियां यदान्यः करोति तदिष्टां चेतरस्तदा क्रियाव्यतिहारः। व्यतिलुनीते । व्यतिपुनीते । प्रारम्भसामर्थ्यात्
१.-न्ति । यायासङ्ख्या यथा--अ०, ब०, स० । २. इत्यन्न दो अ०, ब० । ३. केदारः 40, 40, स०। ४. उत्तरवाक्यस्वारस्येन शेषाकरणं ज्ञापकं प्रकृतिनियमस्य, कर्तृग्रहणाकरणज्ञापकमर्थनियमस्येति पाठो युक्तः । ५. असहचरित इत्यर्थः । ६. व्यतिलुनते। व्यतिपुनते अ०, ब० ।
For Private And Personal Use Only