________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० १ पा० २ सू०१-३]
महावृत्तिसहितम्
२३
सामान्यविशेषापेक्षया च वचनभेदः । पिता' मात्रा श्वशुरः श्वश्वाऽन्यतरस्यामित्यपि न वक्तव्यम् । सामान्यविवक्षया पितरौ श्वशुराविति । द्वन्द्वोऽप्यस्ति । मातापितरौ । श्वश्रूश्वशुरौ। श्वश्रूशब्दः स्त्रियामिहैव निपातितः । "त्यदादीनि सनित्यम् ।" [पा० सू० १।२१७२] सर्वैरिति त्यदादिभिरन्यैश्च सहवचने त्यदादीनि शिष्यन्त इत्येतदपि नास्ति । त्यदादीनामन्यापेक्षया सामान्यवाचित्वम् । त्यदादिषु च यद्यत्परं तत्तत्सामान्यवाचीति तत्प्रयोगो युक्तः। स च देवदत्तश्च तौ। कश्च देवदत्तश्च को। स च यश्च यौ । अथात्र कस्य लिङ्गम् । स च स्थाली च कुण्डञ्च । स च देवदत्ता च कुण्डं चेति । उच्यते-द्वन्द्वा पवादोऽयम् | द्वन्द्वे चान्यलिङ्गम् । अत्रापि तदेव युक्तम् । इदं चापि न वाच्यम् । "ग्राम्यपशुसङ्केष्वतरुणेषु स्त्री " [पा० सू० १।२१७३ ] ग्राम्या ये पशवस्तेषां सङ्केषु स्त्री शिष्यते अतरुणाश्चेद् ग्राम्यपशवः । गावश्व स्त्रियो गावश्च पुमासः गाव इमाः। अजा इमाः । ग्राम्यग्रहणं किम् । श्रारण्यानां मा भूत् । रुरव इमे । पृषत इमे । पशुग्रहणं किम् । ब्राह्मणा इमे। सङ्केष्विति किम् ? एतौ गावौ चरतः । अतरुणेष्विति किम् ? वत्सा इमे । वर्करा इमे । कथं नेदं वक्तव्यम् ? लिङ्गमशिष्यं लोकाश्रयत्वालिङ्गस्येति । अन्यथा अश्वा इमे इत्येवमादिषु एकशेषेषु अनिष्टं स्त्रीलिङ्गं प्रसज्येत इत्यभयनन्दि मुनिविरचितायां जैनेन्द्रव्याकरणमहावृत्तौ प्रथमस्याध्यायस्य प्रथमः पादः समाप्तः।
भूवादयो धुः ॥ १२॥१॥ भू इत्येवमादयः शब्दाः प्रत्येकं धुसज्ञा भवन्ति । भू एध स्पर्द्ध इत्यादि । धोरित्यधिकृत्य लडादिविधिः कार्यम् । भवति । एधते । स्पद्धते । श्रादिशब्दो व्यवस्थावाची। तेन प्राणवयत्यादीनां निरासः। अर्थपदोपलक्षितानाञ्च व्यवस्था । ततो धुसमानशब्दानां यावामादिवित्येवमादीनां सर्वनामविकल्पप्रतिषेधस्वर्गादिवाचिनामग्रहणम् । भूशब्द आदिरेषामिति बसे भ्वादय इति प्राप्नोति । नैवम् । "भूवादीनां वकारोऽयं लक्षणार्थः प्र ज्यते । इको यणभिन्यवधानमेकेषामिति संग्रहः" । तेन त्रियम्बकं यजामहे वायुवम्बरयोरिवेत्यादि सिद्धम् । "मुवो वायं वदन्तीति" भवतेः सम्पदादिपाठाक्विप । भुवं भवनं क्रियां वदन्तीति बहलवचनादण्य न्तादपि वदेरौणादिके इजि कृते भूवादयः । अस्मिन् पक्षे शिष्टाप्रयोगादाणवयत्यादीनां क्षेपः । "भ्वर्था वा वादयः स्मृताः । अथवा वा गतिगन्धनयोरित्यस्मात्पर श्रादिशब्दः । भुवो वादयो वाच्यवाचकभावसम्बन्धे ता भ्वर्थ इत्यर्थः । ये तु वकारो मङ्गलार्थ इति पठन्ति । त इदं वाच्याः । यद्याधिक्याद्वकारो मङ्गलमतिप्रसङ्गः स्यात् । एतेन तत् ज्ञानं प्रत्युक्तम् । मङ्गला भिधेयश्च वकारो नाममालादिषु न पठ्यते । वृत्तौ मध्यनिपातश्च चिन्त्यः । धुप्रदेशाः "धोर्य क्रियासमभिहारे' [२।१११६] इत्येवमादयः ।।
अकर्मको धिः ॥ श२।२ ॥ अकर्मको धुर्धिसज्ञो भवति । "काप्यम्। [११२।१२०] इत्यादिना लक्षणेन विहितं कर्म तदविवक्षितं वा नास्या (नास्त्यस्य वाऽ) कर्मकः । धप्रदेशाः "अनोधेः [२।४५] इ. वमादयः।
) कार्यार्थोऽप्रयोगीत् ॥ १।२।३ ॥ शास्त्रेऽन्यस्य कार्यार्थमाश्रीयते प्रयोगे च न श्रूयते यः स इत्सझो भवति । अइउण् णकारः । अिमिदा स्नेहने, टुनदि समृद्धौ, डुकृञ करण इत्यादिषु भिटुडवो डेङस्यादिषु कारः । कार्यार्थ इति किम् ? कुलात्खः कुलीनः । परमकुलीन इत्यत्र खकारस्याऽप्रयोगित्वात् "खित्यमेम
१."पिता मात्रा, श्वसुरः श्वश्वा" पा० सू० १२१७०,७१ इत्यभिलक्ष्य खण्डयति । २.-ता च । सच कु-म०, स.। ३. इदमेकशेषवादिना मते संगच्छते । एकशेषानारम्भवादिना वृत्तिकृता तु "लिंगमशिष्यं लोकाश्रयस्वाल्लिंगस्य" इति वाच्यम् । ४.-न्दिविर-१०, ब०, स०। ५, प्राणपयत्या-म०, स. आणययस्या-ब० । ६.-दाणपय-प्र०, ब०, स०। ७. निरास इत्यर्थः । ८. "भूवादीनां वकारोऽयम्मंगछार्थः प्रयुज्यते" ( १।३।। पा० म० भा०) इति खण्डनपरः सन्दर्भः ।
For Private And Personal Use Only