________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
जैनेन्द्र-व्याकरणम्
अ. १ पा. सू. १०० मेकत्वमिन्द्रियाणां स्वातन्त्र्ये बहुत्वम् । सविशेषणस्यात्मविवक्षैव । अहं देवदत्तो ब्रवीमि । अहं साधुब्रवीमि । युष्मदि गुरावुभयविवक्षा । त्वं मे गुरुः । यूयं में गुरवः । एतच्च शब्दशक्ति स्वाभाव्यात् । फल्गुनीप्रोष्ठपदानां नक्षत्रे द्वयोर्बहुत्वं वेति न वक्तव्यम् । कथं कदा पूर्वे फल्गुन्यौ कदा पूर्वाः फल्गुन्यः। कदा पूर्व प्रोष्ठपदे कदा पूर्वाः प्रोष्ठपदाः ? यदा फल्गुनोसमीपगते चन्द्रमसि फल्गुनीशब्दो विवक्ष्यते तदा बहुत्वमन्यदा द्वित्वम् ।
स्वाभाविकत्वादभिधानस्यैकशेषानारम्भः ॥१।१।१००।। स्वभावत एव शब्द एकशेषमनपेक्ष्य एकत्वद्विलबहुत्वेषु वर्तते । अत एवैकशेषानारम्भः । एकत्वादीनां प्रकृत्युपात्तानामभिव्यक्तये विभक्त्युपादानम् । यथा एको द्वौ बहवः पञ्च सतेति । एवं वृक्षः वृक्षौ वृत्ताः । अथ प्रत्यर्थ शब्दनिवेशान्नंकेनानेकस्याभिधानं तत्रानेकार्थाभिधानेऽनेकशब्दत्वं प्रसक्तमत एकशेषः । अत्रोच्यते-यदि भिन्नेष्वभिन्नाभिधान प्रत्ययहेतुर्जातिः शब्दार्थः । तस्याः प्रत्यायने एक एव शब्दः समर्थः । अथ द्रव्यं शब्दार्थः। तच्चानेकं व्यावृत्ताभिधानबुद्धि लिङ्गम्। तस्याभिधित्सायामनेकशब्दत्वे प्राप्त एकशेष इति । एतदप्ययक्तम् । अवशिष्टः शब्दो निवृत्त शब्दस्य यद्यर्थमभिधत्ते तदास्य द्वित्वेऽपि वृत्तिरिति किमेकशेषेण । अथ नाभिधचे तदा पश्चादपि स एवार्थः । कथमनेकत्रार्थे वृत्तिः १ सरूपाणां द्वन्द्वनिवृत्यर्थमेकशेष इत्यपि नास्त्यनभिधानात् । न हि भवति द्वौ च द्वौ च द्वाविति । अथ विरूपशब्दार्थ एकशेषः । तथाहि-"वृद्धो यूना तल्लक्षणश्चेदेव विशेषः” [पा० सू० १।२।६१] 'अपत्यमन्तर्हितं वृद्धम् । एवकारो भिन्नक्रमः । विशेषो वैरूप्यम् । वृद्धः शिष्यते यूना सह वचने वृद्धयुवलक्षणे एव यदि विशेषः समानायां प्रकृतौ । गार्ग्यश्च गाायणश्च गाग्यो । दाक्षिश्च दाक्षायणश्च दाक्षी। वृद्ध इति किम् ? औपगवश्चानन्तर औपगविश्च युवा प्रोपगवीपगवी । गार्गिगाायणौ । यूनेति किम् ? गर्गश्च गार्ग्यश्च गर्गगाग्र्यो । तल्लक्षण एवेति किम् ? गार्ग्यवात्स्यायनी । अत्र प्रकृतिविशेषोऽप्यस्ति । एवकारः किमर्थः । भागवित्तिभागवित्तिका । भागवित्तरपत्यं युवा । "दोष्ठण सौवीरेषु प्रायः" [३।१।१३६ ] इत्यत्र क्षेपस्यापि भावान्न तल्लक्षण एव । विशेष इति किम् ? वैदश्च वृद्धो वैदश्च युवा वैदवैदौ । तल्लक्षणवैरूप्याभावात् द्वन्द्वो भवत्येव । “स्त्री पुंवच" [पा. सू. १२१६६ ] स्त्री वृद्धा यूना सह वचने शिष्यते पुंवद्भावश्चास्या भवति तल्लक्षण एव यदि विशेषः । गार्गी च गाायणश्च गाग्यो । दाक्षी च दाक्षायणश्च दाक्षी। नेदं द्वयं वक्तव्यम् । जीवति वंश्ये वृद्ध द्वयमभिधत्ते । अजीवति वृद्धयूनोर्द्वन्द्वी नास्त्यनभिधानात् । जीवति वंश्ये वृद्धा स्त्री युवानञ्च सामान्येन वृद्धशब्द एवाभिधत्ते । द्वन्द्वस्य चानभिधानम् । यदपि पुमान् स्त्रिया सह वचने शिष्यते तल्लक्षण एव यदि विशेषः। कठश्च कठी च कटो। मयूरश्च मयूरी च मयूरौ। प्राणिधर्मयोः स्त्रीपुंसयोर्ग्रहणादिह न भवति । नदनदीपतिः । घटघटीसरावोदञ्चनादि । तल्लक्षण इत्येव । कुक्कुटमयूयौं । एवकार इत्येव । इन्द्रेन्द्राण्यौ। भवभवान्यौ। पुंयोगलक्षणोऽप्यत्र विशेषः । इदमपि जातिमात्रविवक्षया सिद्धांत । द्वन्द्वस्य चानाभधानम् । श्रभिधाने द्वन्द्वोऽस्ति। नदनदीपतिः। ब्राह्मणवत्स ब्राह्मणी(ण)वत्सौ। भातपुत्रौ स्वसूदुहितृभ्यां शिष्यत इति न वक्तव्यम् । भ्राता च स्वसा च भगिनी वा भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ । अपत्यमात्रविवक्षया द्वन्द्वानभिधानञ्च । इदं तर्हि वक्तव्यम् । नपुंसक १ मनपंसकेनैकपच्चास्यान्यतरस्यान्तल्लक्षण एव यदि विशेष इति । शुक्लञ्च वस्त्रं शुक्लश्च कम्बलः शुक्ला च साटी तदिदं शुक्तम् । तानीमानि शुक्लानि । नेदं ज्यायः, त्रिषु लिङ्गेष नपुंसकस्य प्रश्नादौ प्राधान्यात् । तेन (नपुंसकत्व)
१.-याणां बहु-अ, ब, स.। २.-क्तिस्व वात् । फल्गु-अ.] ३, “फल्गुनीप्रोष्ठपदानां च नक्षत्रे" पा० सू० १२१६०। ४. प्रत्यर्थशब्द-अ०। ५.-धाने प्रत्य-अ०। ६.-त्तस्य शब्दअ०, ब०, स० । ७.-कार्थे वृ-स०। ८. "पुमान् स्त्रिया" पा० सू० १।२।६७। इत्यभिलक्ष्य खण्डयति । है. 'भ्रातृपुत्री स्वसूदुहितृभ्याम्" पा० सू० १२६८इति खण्डयति। १०. "नपुंकमनपुंसकेनैकवच्चास्यान्यतरस्याम्" इति पा० सू० ११६६
For Private And Personal Use Only