________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१
अ०१ पा० १ सू०६८-६] महावृत्तिसहितम् विकल्प्यते । व्युङ इति किम् ? विवर्तिषते । वर्तित्वा । अव इति किम् ? दिदेविषति । देवित्वा । हलादेरिति किम् ? एषिषिषति । एषित्वा । सनि एपि कृते द्वित्वम् । सेडित्येव । बुभुक्षते । भुक्त्वा ।
युक्रवदुसि लिङ्गसंख्ये ॥१२८॥ युक्तः प्रकृत्यर्थः । प्रत्ययार्थेन सम्बन्धात् । उसोऽथ उस् । उसि युक्त इव लिङ्गसंख्ये भवतः। इवार्थे वत् । उसिति नाशस्य संज्ञा । उसा नष्टस्य त्यस्यार्थः साहचर्यादुस । तत्रोस] प्रकृत्यर्थे इव लिङ्गसंख्ये विधीयते । लिङ्ग स्त्रीनपुसकानि । संख्या एकत्वद्वित्वबहुत्वानि । पञ्चालो नाम राजा तस्यापत्यं “राष्ट्रशब्दादाज्ञोऽञ्" ३।।१५०] इत्यञ् । बहुत्वे तत्योपि कृते पञ्चालाः क्षत्रियाः पुल्लिङ्गा बहुसंख्याः । तेषां निवासो जनपदः "तस्य निधासादूरभवौ" [३।२।१६] इत्यागतस्याण: “जनपद उस्”[३।२।६१] इत्युस् । क्षत्रियेषु ये लिङ्गसंख्ये ते जनपदेऽपि भवतः । पञ्चालाः । कुरवः । अङ्गाः । वङ्गाः । कलिङ्गाः। एवं वरणानामदूरभवः । गोदौ नाम हृदो तयोरदूरभवः । “वरणादेः" [३।२।३२] इति उस् । वरणाः । शिरीषाः । गोदौ । अर्थातिदेशाद्विशेषणानामपि तद्वत्ता सिद्धा" वा पञ्चाला रमणीया बन्ना बहुक्षीरघृता बहुमाल्यफलाः। वरण रमणीयाः । गोदौ रमणीयौ । “अजातेरिति वक्तव्यम्" (वा०)। पञ्चाला जनपदः । गोदौ ग्रामः । अत्र जनपदग्रामयोर्जातित्वान्नातिदेशः । जात्यों जातिः । तेन तद्विशेषणानामपि प्रतिषेधः। पञ्चाला जनपदो रमणीयः। नेदं वक्तव्यम् । सज्ञाप्रामाण्यात् । यथा वर्षा आपो दारा गृहाः सिकता इत्येवमादीनां संज्ञाशब्दानां संज्ञाप्रामाएयादेव स्वलिङ्गन स्वसंख्यया च साधुत्वमेवं जातेरपि भविष्यति । पञ्चालादीनां तु संज्ञाशब्दानामन्वाख्यानप्रदर्शनार्थमुस्लिङ्गसंख्यातिदेशश्च विधीयते इत्यदोषः । उसीति किम् ? आमलकं फलम् । उपि कृते फलेऽर्थे श्रामलकशब्दस्य स्त्रीलङ्ग मा भूत् । लिङ्गसंख्ये इति किम् ? बदर्या अदूरभवो ग्रामः। वरणादित्वादुस् तस्य वनं बदरीवनभू । वनस्पतित्वातिदेशो मा भूत् । "विभाषौषधिवनस्पतिभ्यः [५/४०] इति णत्वं प्रसज्येत । बेति व्यवस्थितविभाषानुवृत्तेमनुष्याथै उसि विशेषणानां न लिङ्गसंख्यातिदेशः । पञ्चाला अभिरूपः । बहीका दर्शनीयः। चचेव मनुष्यः । "इवे प्रतिकृतौ कः" [ १११५०] इति कः। तस्य "उस मनुष्ये" [ १२] इत्यस्। खलतिकादिषु संख्यातिदेश एव । खलतिकस्य पर्वतस्यादूरभवानि खलतिक वनानि । हरीतक्यादिषुलिङ्गातिदेश एव । हरीतक्या अवयवः फलानि । "हरीतक्यादेः” [ ३।३।१२४ ] इत्युस् । हरितक्यः फलानि ।
तिष्यपुनर्वसूनां भद्धन्द्धे द्वित्वम् ॥११॥६६॥ तिष्य एकः पूनर्वसू द्वौ । तेषां भद्वन्द्वे द्वित्वं भवति । उदितौ तिष्यपुनर्वसू । तिष्यपुनर्वसूनामिति किम् । राधानुराधाः । श्रवणधनिष्ठाः । भग्रहणं किम् । तिष्ये जातः । पुनर्वस्वोर्जातो तत्र जात इत्यागतस्याणो 'भेभ्यो बहुलम्" [ ३।३।१३] इत्युप् । तिष्यश्च पुनर्वसू च तिष्यपुनर्वसवो माणवकाः। ननु गौणल्यादेवात्र न भविष्यति । पर्यायाधै तर्हि भग्रहणम् । पुष्यपुनर्वसू सिद्धपुनर्वसू इति । बहुवचननिर्देशः किमर्थः ? एकवद्भावे मा भूत् । इदं तिष्यपुनर्वसु । इदमेव ज्ञापकं "वा तरुमृग०" [ I] अादिसूत्रे वेति योगविभागोऽस्ति । द्वन्द्व इति किम् । यस्तिष्यस्तौ पूनर्वसू येषां ते तिष्यपुनर्वसवो मुग्धाः तिष्यादय एवात्र विपर्ययेण प्रतीयन्त इति भविषयत्वमास्त। "जात्याख्यायामकास्मन् बहुवचनमन्य तरस्याम् । [११८ पा० सू०] इति न वक्तव्यम् । सामान्यविशेषात्मकत्वाद्वस्तुनः । विशेषेष्वनुवृत्ताकार बुद्धि निमित्त सामान्यम् । व्यावृत्ताकारबुद्धिहेतवो विशेषाः। तत्र सामान्यविवक्षायामेकत्वं भवति । सन्नो श्रीहिः। विशेषविवक्षायां बहुलम् । सम्पन्ना ब्रीहयः। संख्यानुप्रयोगे जातिविवव । एको ब्रीहिः सम्पन्नः सुभिक्षं करोति । अस्मदो द्वयोरेकस्य च वा बहत्वं न वक्तव्यम् । कथमहं ब्रवीमि, आवां बवः, वयं ब्रम इति ? आत्मन इन्द्रियाणां च स्वातन्त्र्यं पारतन्त्र्यं विवक्षया भविष्यति । कदाचिदात्मा स्वतन्त्रो भवति । अनेनाणा पश्यामि । कदाचिदिन्द्रियाणां स्वातन्त्र्यम्। इदम्मेऽक्षि पश्यति । तत्रात्मनः स्वातन्त्र्यविवक्षाया
१. विकल्पेन विधीयत इत्यर्थः। २. “वद्धिका' अ. “वद्रिका'' मु०। ३. अस्मदो द्वयोश्च (पा० सू० १॥२ ५६ ) इति सूत्रं लक्षयति वृत्तिकारः।
For Private And Personal Use Only