________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम् [अ० १ पा० १ सू० १२-१७ तः सेट पूङ शी स्विन्मिद्विषो न ॥१॥१२॥ पूङ् शीङ् स्विद् मिद् क्ष्विद् धृष इत्येतेभ्यः परस्तसंज्ञः सेट् न किद्भवति । पवितः । पवितवान् । "युकः किति" [शा१७] इतीटि प्रतिषिद्धे "पूङः" [११११] इति तक्त्वोरिट् विभाषितः। शी-शयितः । शयितवान् । अनुबन्धो यकुबन्तनिवृत्त्यर्थम् । शेश्यितः । शेश्यितवान् । “एर्गिवाक्चादुङोऽसुधियः'' [/४७८] इति यत्वम् । स्विदा । प्रस्वेदितः । प्रस्वेदितवान् । प्रमेदितः। प्रमेदितवान् । प्रदोदितः । प्रदवेदितवान् । प्रधर्षितः । प्रधर्षितवान् । वैयात्ये धृष्ट इत्येव भवति । पूङः “तयोर्व्यक्तखार्थः'' [२।४।५५] इति कर्मणि क्तः। शीङः "धिगत्यर्थाच्च" [२।४।५८] इति कर्तरि (क्तः) चेति । स्विदादीनां “कर्तरि चारम्भेक्तः''[२।४।५६] इति कर्त्तरिक्तः ।"आदितः" [शा१२२] इति प्रतिषेधे ( षिद्धे ) "वा भावारम्भयोः'' [२।१।१२३] इति पक्षे भवति । त इति किम् ? पवित्वा । “पूङ:'' [२।१।६६] इतीट्पक्षे मृडादिनियमादकित्त्वम् । सेडिति किम् ? पूतः । पूतवान् ।
मृषः स्वार्थे ॥११॥६३॥ स्वार्थस्तितिक्षा । मुषेोः स्वार्थे वर्तमानात्तसंज्ञः सेट न किद्भवति । मर्षितः। मर्षितवान् । स्वार्थ इति किम् ? अपमृषितं वाक्यमाह । धूनामनेकार्थत्वात् स्वार्थग्रहणं पठितापेक्षम् । पाठस्तूपलक्षणम् । सेडित्येव । मृत्रु सहने चास्योदिखात् “यस्य वा" [२१।१२१] इतीटि प्रतिषिद्धे मृष्टम् ।
वोदुङो भावारम्भयोः शपः ॥११॥४॥ तः सेएन किदिति वर्तते। उदुङो धोः शब्धिकरणात्परो भावे चारम्भे च तः सेड् वा न किद्भवति । भावग्रहणां क्तस्य विशेषणम् । श्रारम्भ श्राद्यःक्रियाक्षणः । स धोविशेषणम् । द्यतितमस्य । द्योतितमस्य । सम्बन्धे ता। कर्तृत्वविवक्षायां "न झित" [१२] इत्यादिना ताप्रतिषेधः। द्युतितमनेन । द्योतितमनेन । प्रलुठितः । प्रलोठितः। प्रलुठितवान् । प्रलोठितवान् । "कर्तरि चारम्भे क्तः" [२।४।५६] इति कर्तरि क्तः। उदुङ इति किम् ? विदितमनेन । प्रविदितः । भावारम्भयोरिति किम् ? रुचितः कार्षापणः । शब्धिकरणादिति किम् ? गुधितमस्य । प्रगुधितः । भाविकरणोऽयम् । सेडित्येव । रूढमस्य । प्ररूढः । तपरकरणमसन्देहार्थम् । निकुचित इति नकारस्य खे कृते “सन्निपातलक्षणो विधिरनिमिर्ग तद्विघातस्याः' इत्युदुडो विकल्पो न भवति । विहितविशेषणाद्वा ।
नोङस्थफात् क्त्वा ॥२१॥६५॥ सेडिति वर्तते वेति च । नकारोङोधोस्थकारान्तात् फकारान्ताच्च क्त्वा सेड् वा किद्भवति । श्रथित्वा । श्रन्थित्वा । ग्रथित्वा । ग्रन्थित्वा । गुफित्वा । गुम्फित्वा । मृडादिनियमान्नित्यमकित्त्वे प्राप्ते विधिर्विभाष्यते । नोङ इति किम् ? गोफित्वा । नन्वत्रापि “व्युङोऽवो हलः संश्च" [१११६७ ] इति विकल्पेन भाव्यम् । एवं तर्हि फेरफित्वा प्रत्युदाहरणम् । थकान्तादिति किम् ? स्रसित्वा ।।
वञ्चिलुयुत्त पिमृषिकृषः ।।१।१॥६६॥ वञ्चि लुञ्चि ऋति तृषि मृषि कृष् इत्येतेभ्यः परः क्त्वा सेड् वा किद्भवति । वचित्वा । वञ्चित्वा । लुचित्वा । लुञ्चित्वा । ऋतेर्वाऽगै इति यदा ईयङ् न भवति तदा ऋतित्वा । अर्तित्वा। तृषित्वा । तर्षित्वा । मूषित्वा । मर्षित्वा । कृषित्वा । कर्षित्वा। मृडादिनियमान्नित्यमकित्त्वं प्राप्तम् । सेडित्येव । वक्त्वा । मृष्टा । "वोदित: [शा१०४ 1 इति पक्षे नेट ।
व्युङोऽवो हलः संश्च ॥११॥६७॥ सेडिति वर्तते वेति च । उकारोङ इकारोङश्च धोरवकारान्ताद्धलादेः परः संश्च क्त्वा च सेटो वा कितौ भवतः। उकारेकारोडोऽजन्तत्वासम्भवाद्धलग्रहणमादिविशेषणम् । दिद्युतिषते । दियोतिषते । “धु तिस्वाप्योर्जि:''[१२।१६७] इति चंस्य जिः । द्युतित्वा । द्योतित्वा । लिलिखिषति । लिलेखिषति । लिखित्वा । लेखित्वा । सन्नकिदेव क्त्वापि सेएमृडादिनियमादकित । तयोरप्राप्त कित्त्वमनेन विधीयमानं
१. धातुपाठपठिततितिक्षार्थस्य ग्रहणमित्यर्थः । २, मृष्टः ब०। ३.-धक्रि-ब०। ४. "कमृत्यो. र्णिङीयङ्' २१२८। इति नित्यं हिङीयौ । अत्र वाडगे" इत्यनुवृत्त अगे विकल्पेन विडीयौ इति तत्रत्यवृत्त्यभिप्रायः । एतदाशयेनैवात्र ऋतेर्वाग इति इत्याद्य क्तम् । नस्वित्थं किमपि सूत्रम् । ५. क्वेति ब०, स०। ६. अभ्यासस्य।
For Private And Personal Use Only