________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्र० १ पा० १ सू० ८४-११]
महावृत्तिसहितम्
१६
हलन्तात् ॥ १।१८४ ॥ सन् झलिक इति वर्तते । श्रन्तशब्दः समीपवचनः । इकोऽन्तः समीपो यो हल तदन्ताद्धोर्झलादिः सन्किद् भवति । बिभित्सति । बुभुत्सते । विवृत्सति । अन्तग्रहणं किम् ? यियति । जिनं भवति । नात्रेक्समीपाद्धलः परः सन् । एवं वा सूत्रार्थः । इकः परो हलन्तो हलवयवो यो धुस्तस्मादुत्तरो झलादिः सन्किद्भवति । अन्तग्रहणं स्पष्टार्थमुक्तमस्मिन् व्याख्याने । इक इति कानिर्देशः किम् ? यियक्षति | झलित्येव । विर्विद्वषते । “निरेकाजनाङ ” [१।१।२२] इत्यत्र एकग्रहणं ज्ञापकमुक्तम्, "अन्यत्र वर्णग्रहणे जातिग्रहणमिति ।” तैनेह् हल्ग्रहणेन भिन्नेष्वभिन्नाभिधानप्रत्ययनिमित्तं हल् जातिर्गृह्यते । ततो धिप्सतीति सिद्धम् ।
सिलिङ दे || १।१८५ ॥ सन्निति निवृत्तम् । झलिकः हलन्तादिति च वर्तते । सिश्च लिङ च दे इको हलन्तात्परौ झलादी किती भवतः । सेरेव दपरत्वं विशेषणं न लिङोऽसम्भवात् । द एव हि लिङ झलादिः । भित्त । बुद्ध । भित्सीष्ट । भुत्सीष्ट । द इति किम् ? साक्षीत् । श्रद्राक्षीत् । किवे सृजिहशोरमागमो न स्यात् । "वदब्रज ( ब्रजवद ) " [ २१/७६ ] इत्यादिनैप् । इक इत्येव । यष्ट । यक्षीष्ट । जिः प्रसज्येत । हलन्तादित्येव । अचेष्ट । चेषीष्ट । एम्न स्यात् । झलादिरित्येव । श्रवर्तिष्ट । वर्तिषीष्ट । एम्न स्यात् ।
उः ॥ १|१८६ ॥
व्र्व्याख्यानादग्रहणम् । ऋवर्णान्ताद्धोः परौ सिलिङौ दे भलादी कितौ भवतः । अकृत । ग्रहृत । कृषीष्ट । हृषीष्ट । द्विमात्रस्य । अस्तीम् । स्तीर्पोष्ट । “लिङ्स्योदें" [५1१1०] इत्यनिटूपक्षे द्रष्टव्यम् । झलादिरित्येव । श्रस्तरिष्ट । स्तरीषीष्ट ।
गमो वा ॥ ९९८७ ॥ गमेर्धोः परौ सिलिङौ दे फलादी वा कितौ भवतः । समगत । सङ्गसीष्ट । वागमः कित्त्वे “अनुदात्तोपदेश" [४ | ४ | ३७ ] इत्यादिना ङखं “प्राद् गो: " [ ५|३|४५] इति सेः खम् | पढ़ेंसमगंस्त । सङ्गंसीष्ट ।
हनः सिः ॥ ११८ ॥ हन्तेर्वोः परः सिर्दे किद्भवति । आहत । श्राहसाताम् । श्रहसत । सेः कित्त्वान्ङस्य खम् | ["अन्यथा अनिदित इति उङः खस्य प्रतिषेधः स्यात् । ] पुनः सिग्रहणं लिनिवृत्त्यर्थम् । ग्रहणमनुवर्तते । एवं नित्यो वधादेश इति इह प्रयोजनं नास्ति ।
यमः सूचने || १||८६ ॥ यमेधः सूचनेऽर्थे वर्तमानात्परः सिदें किद्भवति । सूचनं गन्धनमा - विष्करणमित्यर्थः । उदायत । उदायसाताम् । उदायसत । अकर्मकत्वे “ | ङो यमहनः " [१।२।२३] इति दः । सूचन इति किम् । श्रयंस्त कूपाद्रज्जुम् । सकर्मकत्वे “समुद | यमोऽग्रन्थे” [१|२|७० ] इति दः ।
वोपयमे ॥ १९६० ॥ उपयमो दारस्वीकारः । उपयमेऽर्थे वर्तमानाद्यमेधः परः सिर्दे वा किद्भवति । उपायत कन्याम् । उपायंस्त कन्याम् । “स्वीकृतावुपाद्यमः” [ १।२।२१] इति दः । इयमप्राप्ते विभाषा । स्वीकारसूचने पूर्वविप्रतिषेधेन पूर्वेण नित्यो विधिः ।
थोरः ||१|१|१| द इति वर्तते । भुसंज्ञकानां स्था इत्येतस्य च धोरिकारोऽन्तादेशो भवति सिश्च दे कि । अदित | अधित । उपास्थित । "प्रात्" [४|३|१८ ] इति सेः खम् । सन्निपातपरिभाषाया अनित्यतां वक्ष्यति । तिष्ठते: “उपान्मन्त्रकरणे " [१/२/२०] "धेः” [१/२/२१] इति दः । इलवचनसामर्थ्यादेपो निवृत्तिः सिद्धेति किग्रहणमुत्तरार्थमनुवर्त्तमानं सेरपि विशेषणम् ।
१. इति च वर्त्तते अ०, ब०, स० । अत्र च शब्दोऽप्यर्थकः । २ अन्तः शब्दः ब० । ३. श्रद्राक्षीत् इति मुद्वतपुस्तके नास्ति । ४. कोष्टकस्थितः पाठोsप्रासंगिक इव भावि । "हलुङः किङत्यनिदितः” इत्यस्यात्राप्रवृत्तेः । ५. हन्धोर्दे "हनो वध लिङि" इति नित्यवधादेशविधानात् "नः सिः" इत्यत्र लिङनुवृत्त ेः प्रयोजनं नास्ति किrवप्रयुक्त - नख रूप - फलस्य लिङि नित्ये बधादेशेऽभावात् । ६. - षणं विहितम् । तः खेटू - अ०, ब०, स० ।
For Private And Personal Use Only