________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८
जैनेन्द्र-व्याकरणम्
[ अ० १ पा० १ सू० ७७ - ८३
वोर्णोः ॥ १|१|७७ ॥ ऊर्णोतेः पर इडादित्यो वा ङिद्भवति । प्रोणु विता । प्रोर्णविता । श्रप्राप्से २ विकपोऽयम् । दसंज्ञके तु लङ इटि परत्वान्नित्यो विधिः । प्रौणुवि । ञ्णिदित्येव । निवदिटि - प्रोविष्यते ।
डादिरित्येव । प्रोवनम् । प्रोविनीयम् ।
Acharya Shri Kailassagarsuri Gyanmandir
गोऽपि ॥ ११७८ ॥ अपिद् गसंज्ञको ङिद्भवति । कुरुतः । कुर्वन्ति । चिनुतः । चिन्वन्ति । मृष्टः । मृजन्ति । ग इति किम् ? कर्ता । मा । श्रपिदिति किम् ? करोति । मार्ष्टि । अपिदिति प्रसज्यप्रतिषेधः । ari तुदान लिखानीत्यत्र पिदपितोरेकादेशः ३ पिद्भवतीति “भ्युङ : " [२२८३] एप्प्रसज्येत । नायं दोषः । लोडादेशस्य पित्वं न चाट: । अथवायं पर्युदासः । इह तर्हि च्यवन्ते 'लवन्त इति परापेक्षपिदपितोरेकादेशस्य पितोऽन्यत्वमस्तीत्यप्रतिषेधः प्रसज्येत । नैष दोषः "वार्णाद् गावं बलीयः" इति प्रागेवैकादेशादेप् ।
लिडस्फात्कित् ॥ ११११७६ || पिदित्येव । स्फान्तात्परोऽपिल्लिट् किद्भवति । बिभिदतुः । चिभिदुः । ममृजतुः । ममृजुः । लिडिति किम् ? यष्टा । अस्फादिति किम् ? ममन्यतुः । ममन्धुः । ननु ररन्धिव र रन्धिम इत्यत्रास्फाद्विहितो लिट् । नैवम् । भुम्विधावुपदेशग्रहणाश्रयणात् । एवञ्च कुराडा हुण्डेत्यत्र " सरोल : " [३८] इति श्रस्त्यो भवति । अपिदित्येव । विभेदिथ । ङिदिति वर्त्तमाने किद्ग्रहणं किम् ? ईजतुः । ईजुः । ङिति जिनं स्यात् । श्रयमेव विद्विषयः । ववृते वृवृधे इत्यत्र परत्वादेपि कृते स्फान्तत्वमिति चेत्, इष्टवाचित्वात्परशब्दस्येत्यदोषः । अस्फादिति प्रसज्यप्रतिषेधः । न चेत् स्फान्ताद्विहित इति पर्युदासे हि हलन्तादेव लिट कित् स्यात् । "बोर्णोः ” [२८] इत्यतो वेति व्यवस्थितविभाषाऽनुवर्तते । ततः श्रन्थिग्रन्थिदम्भिध्वञ्जीन्धिभ्योऽपि द्भिवतीत्येके । श्रेथतुः । श्रेथुः । ग्रेथतुः । ग्रेधुः | देभतुः । देभुः । परिषस्वजे । परिषस्वजाते । समीधे । समीधाते । समीधिरे ।
1
मृडमृदगुधकुषवदवसः क्त्वा ॥ १११२८० ॥ मृड मृद गुध कुष वद वस इत्येतेभ्यः परः क्त्वा त्यः किद्भवति । मृडित्वा । मृदित्वा । गुधित्वा । कुषित्वा । उदित्वा । उषित्वा । सिद्धे विधिरारभ्यमाणो नियमार्थः । तुल्यजातीयस्य च नियमः । सेट् क्त्वा तुल्यजातीयः, तेन मृडादिभ्य एव क्त्वा सेट् किद्भवति नान्येभ्यः । देवित्वा । सेवित्वा । वर्तित्वा । सेडिति विशेषणं किम् ? भुक्त्वा । मुक्त्वा । मृडादिभ्यः क्त्वैव किद्भवतीति विपरीतो नियमो नाशङ्कनीयः । एवं हि "क्लिश: " [११८१] इति कित्त्ववचनमनर्थकं स्यात्, प्रतिषेधाभावात् । गुधकुष्योस्तु “व्युङोऽवो हलः संश्च" [१।१।६७ ] इति विकल्पे प्राप्त नित्यार्थः पाठः ।
क्लिशः ॥ ११११८१ ॥ क्लिशः परः क्त्वा सेट् किद्भवति । क्लिशित्वा । पूर्वेण नियमेन किच्चे निवर्तिते "हङोsat हल: संश्च" [१/१/१७] इति विकल्पः प्राप्तः । पूर्व सूत्रे इष्टतोऽवधारणार्थं योगान्तरम् । मुग्रहिरुदविदः संश्च ॥ ११११८२ ॥ मुष ग्रहि रुदविद इत्येतेभ्यः परः संश्च (सन्) क्त्वा च सेट् किद्धवति । मुमुषिषति । जिघृक्षति । रुरुदिषति । विविदिषति । मुषित्वा । गृहीत्वा । रुदित्वा । विदित्वा । ग्रहेडादिनियमान्निवृत्तौ विध्यर्थमितरेषां "ब्युङोऽवो हलः संश्व" [१1१1९७ ] इति विकल्पे प्राप्ते वचनम् ।
झलिकः ॥ १|१|८३ ॥ क्त्वेति निवृत्तम् । अन्त्येनेतादिरित्यत श्रादिरिति वर्तते । इगन्ताद्धोः परो भलादिः सन्किद्भवति । सामर्थ्यात्सन्निहितस्य धोरिका तदन्तविधिः । चिचीषति । निनीषति । रुरूषति । चिकीर्षति । लुलूषति । यदि सनि दीत्ववचनसामर्थ्यान्मात्रिर्काद्विमात्रिकयोरेवभावः सिद्ध इत्यस्यानर्थक्यम् । णिखमपि तर्हि न स्यात् । ' ज्ञीप्सति । एतस्मिंस्तु सनि चिचीषत्यादिषु सावकाशं दीत्वं परत्वारिणखेन बाध्यते । भलादिरिति किम् ? शिशयिषते । इक इति किम् ? पिपासति । सनीत्येव । कर्ता ।
१. - दिः त्यो " ब०, स०, मु० । २. प्तविक प्र० । ३. पिवद् भ-अ०, ब०, स० । ४. त्वाटः अ० | ५. यति विप श्र०, ब०, स० । ६. पूर्वे सूत्रे मु० । ७. रुदित्वा इति नास्ति अ० ब० स० पुस्तकेषु । म. ज्ञीप्सतीति अ०, ब०, स० ।
For Private And Personal Use Only