________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० १ प ० १ सू०७३-७६]
महावृत्तिसहितम्
परः । इदमेव ज्ञापकं सविधौ केति योगविभागोऽस्ति । " आदेगेप्" । [ १1१1१५ ] “श्रदेहेप्” [ १।१।१६] तपरत्वादैजेङादिषु त्रिमात्रचतुर्मात्राणां निवृत्तिः । " भाव्योऽतपरः" इति पृथग्भावान्नशुच्चारणं किम् ? क्वचिद्भाव्योऽपि स्वं गृह्णातीति ज्ञापनार्थम् । अमूभ्याम् । संज्ञासूत्रमिदं न परिभाषा । साहि नियमार्था भवति । न चादितां स्वस्यास्वस्य च ग्रहणं प्राप्तं येन स्वस्यैवेति नियमः स्यात् ।
१७
अन्त्येतादिः ॥ १|१/७३ ॥ अन्त्येनेत्संज्ञकेन गृह्यमाण आदिस्तन्मध्यपतितानां ग्राहको भवत्यात्मना सह । श्राद्यन्तौ सम्बन्धिशब्दौ । श्रतः सामर्थ्यादाद्यन्तव्यतिरेकेण तन्मध्यपाति वस्तु प्रत्येकं संज्ञित्वेनाक्षिप्तम् । अ इ उ इत्येतेषां प्रत्येकमरिणति संज्ञा । एवमकू अच् श्रट् इत्येवमादयः । श्रन्त्येनेति किम् ? सुडित्यत्र प्रादिना टाइत्येतस्य टकारेण ग्रहणं मा भूत् । अन्त्येनेतीदमेव ज्ञापकं सहार्थे गम्यमानेऽपि भा भवति ।
असंख्यं झः ||१|१|७४ ॥ संख्या एकत्वादिका सा यस्य न विद्यते तदसंख्यं झिसंज्ञ भवति । एकत्वादिनिबन्धना विभक्त्युत्पत्तिरसंख्यादप्राप्ता "सुपो : " [१|४|११० ] इति वचनाद्भवति । के पुनरसंख्याः १ स्वर् । अन्तर् । प्रातर् । सनुतर् । पुनर् । सायम् । नक्तम् । अस्तम् । वस्तोः । दिवा । दोषा । ह्यः । श्वः । कम् । शम् । योर्मयः (१) च । न । अम्नत् । विहायसा । रोदसी । श्रोम् । भूः । भुवः । स्वस्ति । समया । निकषा । अन्तरा । बहिस्॑ । साम्प्रतम् । श्रद्धा | सत्यम् । इद्धा | मुधा । मृषा । वृथा । मिथ्या । मिथो । मिथु | मिथुनम् | मिथस् । अनिशम् | मुहुः | अभीक्ष्णम् | मनु । झटिति । उच्चैस् । अवश्यम् । सामि | साचि । विष्वक् । श्रन्वक् । आनुषक् । साज । द्राक् । प्राक् । ऋधक् | पृथक् । धिक् । हिरुक् | ज्योक् । मनाक् । शनैः । ईषत् | जोषम् | तूष्णीम् । कामम् । निकामम् । प्रकामम् । श्रारात् । अरम् । वरम् । परम् । चिरम् । तिरः । नमः । स्वयम् । भूयः । प्रायः । प्रवाहुकम् ।। श्रार्यहलम् । कुः । अलम् । बलवत् । अतीव । सुष्ठु । दुष्ठु । ऋते । सपदि । साक्षात् । सनात् । सना । श्राशु । सहसा । युगपत् । उपांशु । पुरा । पुरतः। पुरस्तात् । पुरः । इत्येवंप्रकाराः, निसंज्ञकाश्च सर्वे "च, वा, ह, ग्रह" एवम्प्रभृतयो हृतश्च तसादयस्तत इत्यादयश्च्व्यर्थाः कृतः मुमातुमादयः क्वाप्यादेशश्चेति । हसश्चेति केचित्पठन्ति तत्तु चिन्त्यम् । उपाग्निकमित्यकोऽसम्भवात् । उपकुम्भमन्यम् इति मुमो दर्शनात् । उपकुम्भीकृत्येति ईत्वविधानाच्च । सामान्यविषया भिसंज्ञा । विशेषविषया निसंज्ञा । असंख्यग्रहणं किम् ? यत्रासंख्यत्वं प्रतीयते तत्र भिसंज्ञा । उच्चैः । परमोच्चैः । श्रस्ति । स्वस्ति । उपसर्जने मा भूत् । अत्युच्चैः । श्रच्युच्चैसौ । श्रत्युच्चैसः । श्रत्यस्तिः । झिप्रदेशाः “सुपो भेः " [ १।४।१५० ] इत्येवमादयः ।
/
गाङ्कटादेरणिन्ङित् ||१|१| ७५ ॥ गाङित्येतस्मात् कुटादिभ्यश्व घुभ्यः परेऽणितस्त्या ङितो भवन्ति । विनापि वतमतिदेशो गम्यते । गाङिति व्याख्यानादिङादेशो गृह्यते । कुटादिस्तुदादेरन्तर्गणो यावत् वृत्शब्द इति । गाङ - अध्यगीष्ट । अध्यगीषाताम् । अध्यगीषत । लुङ्लुङोर्वेति इङो गाङादेशः । " भुमा” [४/४/६५ ] श्रादिसूत्रेणेत्वम् । कुटादि कुटिता । कुटितुम् । कुटितव्यम् । पुटिता । पुटितुम् । पुटितव्यम् । व्यचेरनसि कुटादित्यम् — विचिता । विचितुम् । विचितव्यम् । अनसीति किम् ? उद्वयचाः । “अस् सर्वधुभ्यः” इत्यस् ।
दिति किम् ? उत्कोटयति । उत्कोटो वर्तते । ङितीव ङिद्वत् । ईबन्ताद्वदर्थो गम्यते । तेन उच्चुकुटिषति इत्यत्र "नुदात्ततो द:" [१।२।६] इति दो न भवति ।
||१|१|७६ || अन्त्येनेतादिरित्यत श्रादिरिति वर्तते । विजेर्धोरुत्तर इडादिस्त्यो ङिद्भवति । उद्विजत्वा । उद्विजितम् । उद्विजितव्यम् । इडिति किम् ? उद्वेजनम् । उद्वेजनीयम् । विज इति किम् ? लविता ।
For Private And Personal Use Only
१. " झि" मु०२. "च नाम्नो" इति अ०, ब०, स०, पुस्तकेषु तत्र "च" "न" "श्राम्" "नो" इति पदच्छेदो युक्तः । ३. 'बहिर्' अ०, ब०, स० । ४. " भाजक्" इति श्र० । " ताजक्" इति स० । "साजक्" इति ब० मुद्वितयोः । परमयं शब्दभेदोऽन्वेष्यमाणोऽन्यव्याकरणकोशेषु च नोपलब्धः । ५. अदर्शनादिति युक्तम् । ६. "ङिवद्भ - श्र०, ब०, स० ।
३