________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
[अ० १ पा० १ सू० ६८-७२
सुपा श्रितादयो विशेष्यन्ते न तु श्रितादिभिः किञ्चिद्विशेषणेन च तदन्तविधिः । मृदा नडादयो विशेष्यन्ते न नडादिभिर्मदः । उगिता च वर्णेन मृद् विशेष्यते । अलीति वर्णनिर्देशः । अलि यो विधिः स तदादौ भवति । "श्नुधुभ्रुवां स्वोरचीयुवौ' [४१४७२] चिक्षियतुः । चिक्षियुः। व्यपदेशिवद्भावेन केवलेऽपि तदादिलम् । चिक्षिये । येनेति करणे भा । विधिशब्दः कर्मसाधनः ।
अवाद्यैब्दुः ॥ १।१।६८ ।। अक्ष्विति जातिनिर्देशो निर्धारणे चेप् । अक्षु श्रादिभूतोऽच् ऐप् यस्य समुदायस्य स दुसंज्ञो भवति । ऐतिकायनस्य शिष्य ऐतिकायनीयः “दोश्छः'' [३।२।६०] इति छः । आम्बष्ठस्यापत्यमाम्बष्ठ्यः "द्वित्कुरुनाद्यजादकोशलाइज्यः" [३।१।१५३] इति व्यः। दुघणा अस्मिन्देशे सन्ति "वुन्छणकठेल" [३।२।६.] आदिसूत्रे अरीहणादित्वाद् वुञ् । द्रौघणके जातो द्रौघणकीयः "दोः कखोल" [२१११७] इति छः । अदिवति किम् ? हलाविवक्षार्थम् । श्रोपगवीयः । कापटवीयः। जात्यपेक्षया बहुत्वं किम् ? दूधच एकाचश्च दुसंज्ञा यथा स्यात् । मालामयम् । वाङमयम् । आदिरिति किम् ? सभासन्नयने जातः साभासन्नयनः। छः प्रसज्येत । ऐबिति किम् ? दत्तस्यायं दात्तः । दुप्रदेशाः "दोश्छः"[ ३१०] इत्येवमादयः ।
त्यदादि । शश६।। त्यदादीनि शब्दरूपाणि दुसंज्ञानि भवन्ति । अवादिरिति नेहाभिसंबध्यते । यद्यभिसंबध्येत तदोपसर्जनत्वे सत्यपि वचनात्तदादेव दुसंज्ञा स्यान्न केवलानामिति । त्यदीयः। तदीयः । तवापत्यं खादायनिः। मादायनिः । “वा वृद्धाद् दो:" [३।१।१४४ ] इति फिञ् । त्यदादिः सर्वादेरन्तर्गण श्रा परिसमाप्तः।
एङ् प्राग्देशे ।। १।११७० ।। अक्ष्वादेरिति वर्तते । एङ, यस्याचामादिस्तद् दुसंज्ञ भवति प्राची देशाऽ भिधाने । एणीपचने जात एणीपचनीयः । एवं गोनीयः। भोजकटीयः। एङिति किम् ? आहिच्छत्रः । कान्यकुब्जः । प्राग्ग्रहण किम् ? देवदत्तो नाम वाहीकेषु ग्रामस्तत्र भवो देवदत्तः । देश इति किम् ? गोमती नाम नदी तस्यां भवो गौमतः । “या नाम्नः" [११] इति यदा दुसंज्ञा नास्ति तदेदमुक्तम् । “भिन्नलिङ्गो नदीदेशोऽग्रामोऽपुरम्' [ ११४८३ ] इति ज्ञापकान्नदी देशग्रहणेन न गृह्यते । शरावती नाम नदी तस्याः पूर्वो देशः प्राग्देशः । उत्तरस्तूदीचां देशः।
या नाम्नः॥ ॥१७१ ॥ पुरुषैर्व्यवहाराय सङ्केतितः शब्दः संज्ञा नाम । नामधेयस्य वा दुसंज्ञा भवति । पद्मनन्दीयम् । पाद्मनन्दिनम् । देवदत्तीयम् । देवदत्तम् । नाम्न इति किम् ? देवदत्त इति यः क्रियानिमित्तको देवदत्तशब्दस्तस्य काश्यादिषु पाठाहावेव भवतः । वेति व्यवस्थितविभाषा । तेन घृतप्रधानो रोदिः धृतरौदिः। संज्ञेयम् । तस्य शिष्या घृतरौदीयाः । एवमोदनपाणीयाः। वृद्धाम्भीयाः। वृद्धकाश्यपीयाः । नित्यं दुसंज्ञा । "जिह्वाकात्यहरितकात्ययो भवत्येव' [ वा. ] जैह्वाकाताः। हारितकाताः ।
अणुदित् स्वस्यात्मनाऽभाव्योऽतपरः ॥ १।१।७२ ॥ अण, उदिच्च गृह्यमाणः स्वस्य ग्राहको भवति श्रात्मना सह भाव्यमानं तपरं च वर्जयित्वा । इदमणग्रहणं परेण णकारेण । “ऋतः रफादेरेप्' [२२११२२] इति तपरनिर्देशाज्ञायते । “यस्य कथा च" [ ४।४।१३६ ] दाक्षिः । चौलिः । दैत्यः । कौमारः । "अस्य वौ' [।१४१] शुक्लीभवति । मालीभवति । उदित्-"स्तोः च ना :" [१४११६] " ना टुः" [१४।१२० ] । अभाव्य इति किम् ? भाव्यन्ते उत्पाद्यन्ते त्यादेशटिकिन्मितस्ते स्वस्य ग्राहका न भवन्ति । "अस्त्यात्" [ २२३८४ ] "त्यदादेरः" [ २११६१ ] टित्-लविता। कित्-बभूव । मित् । "सृजिशोरम्" ३।११। अतपर इति किम ? भिसोऽत ऐस" [ 1। वनैः । खटवा भिरित्यत्र न भवति । तकार इद्यस्य सोऽयं तिदिति सिद्ध परग्रहणमुभयार्थम् । तः परोऽस्मात्तपरस्तादपि परस्त
१. इतिकस्यापत्यं पुमान् ऐतिकायनः । नडादेः फणिति फण् । ३. प्रश्नादेरित्यर्थः । ४. वृद्धान्तीयाः ब०, स०।
For Private And Personal Use Only