________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० १ पा० १ सू० ६२-६७ ]
महावृत्तिसहितम्
१५
1
उबुजुस् ॥१|१|६२॥ तस्यैव नाशस्त्र उप् उच् उस् इत्येताः संज्ञा भवन्ति । संज्ञासंकरप्रसङ्ग इति चेत् उप् उच् उस् संज्ञाभिर्भावितस्य नाशस्य एताः पृथक् संज्ञास्तेनादोषः । “नोमता गो: " [ १/१/३४ ] इति प्रतिषेधो ज्ञापकः खसंज्ञाया श्रत्र समावेशो भवति । ततः पञ्च सप्तेति त्याश्रयं पदत्वं सिद्धम् । “क्सस्याचि खम् " [ ५२६१ ] इति वर्तमाने "वो दुहदिह" [ ५/२/७० ] श्रादिसूत्र उब्वचनं ज्ञापकमुबुजुसः सर्वस्य स्थाने भवन्ति नान्तस्य । एता अपि भाविन्यः संज्ञाः । उदाहरणम् - पञ्चशष्कुलम् । पञ्चभिः शष्कुलीभिः क्रीतम् । "दुबखौ " [ ३ । २६ ] इत्याहस्य ठण उप् । ततो " हृदुप्युप्” [ १|१|8 ] इति स्त्रीस्यस्योपू । जुहोति । बिभेति । “उज् जुहोत्यादिभ्यः " [ १|४ | १४५ ] इति शप उच् । तत उचि द्वित्वम् । पञ्चालानां निवासो जनपद इत्यागतस्याणः “जनपदे उस्" [ ३१२१६१] इत्युस् । ततो "युक्त दुखि लिङ्गसंख्ये" [ १/१६८ ] इति लिङ्गसंख्यातिदेशः । उबुजुभूप्रदेशाः “हृदुष्युप्” [ १|१| ] इत्येवमादयः ।
त्यखेत्याश्रयम् ||१|१|६३ ॥ त्यस्य खे कृतेऽपि त्याश्रयं कार्य भवति । सुमिङ् क्विप्यङ् शिखानि प्रायः प्रयोजयन्ति । सुपः खम्-धर्मवित् । सोः खेऽपि पदसंज्ञा भवति । मिङः खम्-अधोक्। “हल्डचापः " [ ४/३/५६ ] इति तपः खेऽपि पदसंज्ञायामेन्घत्यभष्ट्वजश्वचर्त्वानि भवन्ति । किपः खम् अग्निचित् । विपो नाशेऽपि तुकू । यः खम् पापचीति । यङो नाशेऽपि द्वित्वादिकार्य भवति । खिम् — कार्यते । हार्यते । रोरभावेऽयैभवति । प्रथमं त्यग्रहणं किम् ? आध्नीत । आङ् पूर्वाद्धन्तेर्विध्यादिलिङ् । "श्राङो यमहनः " [ २ ] इति दः । " लिङोऽनन्त्यसखम् " [ २|१|१३८ ] इति सीयुडेकदेशस्य सकारस्य खेऽपि त्याश्रयं कार्य लिक्ङिति डस्य खं न भवति । द्वितीयं त्यग्रहणं किम् ? वर्णाश्रयं मा भूत् । गवे हितम् गोहितम् । त्यखे सत्यपि चीति वर्णाश्रया अवादयो न भवन्ति ।
नोमता गोः ||१|१|६४ ॥ उमता वचनेन नाशिते त्ये यो गुस्तस्य त्याश्रयं न भवति । मृष्टः । जुहुवः । शबाश्रयावैवेपौ न भवतः । गर्गा इति बहुत्वविवक्षायां यञिञोरुपि कृते तदाश्रय श्रादेरैन्न भवति । गोरिति किम् १ पाक्ति । जरीगृहीति । द्वित्वं ञिश्च भवतः । नोमतेति योगविभागः । तेन गोरन्यत्रापि क्वचि - च्याश्रयं न भवति । परमवाचः । परमवाचा | अन्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वात्कुत्वं प्राप्तं नोमतेति प्रतिषिध्यते ।
अन्त्याद्यष्टिः || १ |१| ६५ ॥ श्रच इति जातिनिर्देशः । निर्धारणे च ता । समानजातीयस्यैवं लोके निर्धारणं प्रसिद्धमिति द्वितीयमज्ग्रहणं लभ्यते । श्रचां योऽन्त्योऽच् तदादि शब्दरूपं टिसंज्ञ भवति । धर्मविदत्र इच्छन्दः । ज्ञानभुदत्र उच्छन्दः । श्राताम् श्राथामित्यत्र उच्छब्दः । पचेते । पचेथे “टिद्दट रे" [ २/४/६५ ] इति टेरेत्वम् । ग्रहं पचे इति व्यपदेशिवद्भावात्तदादित्वम् । टिप्रदेशाः “टिद्वट” [२|४| ६५ ] इत्येवमादयः ।
उपान्त्यालुङ् ||१|१|६६॥ अलामन्त्यस्य समीपोऽलू उसंज्ञो भवति । अन्त्यग्रहणादलां समुदायो लभ्यते । श्रसमुदायापेक्षया ह्यन्त्योऽलू भवति न केवलः । पच् इत्यकारः । भिद् इतीकारः । पाचकः । भेदकः । उपान्त्य इति किम् ? व्यवहितस्यान्त्यस्य च मा भूत् । अलिति किम् ? समुदायस्य मा भूत् । उङ प्रदेशाः "उङोsa: " ' [ ५|२१४ ] “भ्युङ: " [ ५२८३ ] इत्येवमादयः । येनालि विधिस्तदन्ताद्योः || १ | १२६७ ॥ येन शब्देन यो विधिर्विधीयते स तदन्तस्य भवति । यो विधिः स तदादौ भवति । "योऽचोऽरासुयुव:" [ २१८४ ] इत्यचो यविधिर्विधीयत इत्यजन्ता - द्भवति । चेयम् । जेयम् । केवलाद्व्यपदेशिवद्भावेन । एयम् । श्रध्येयम् । “आतः कः " [ २१२१३ ] इत्याकारान्तात्कः। गोदः। कम्बलदः । “सत्य-विधौ न तदन्तविधिः " [वा०] । सविधौ - कथं परमश्रित इति ईप्सो न भवति । यविधौ – सूत्रनडस्यापत्यं सौत्रनाडि: । "नडादेः फण्" [ ३१८८ ] इति फण् न भवति । “उगित्कार्य' वर्णकार्ये च तदन्तादपि भवतीति वक्तव्यम्" [वा०] भवती । अतिभवती' । दाक्षिः । नैतद्वक्तव्यम् ।
1
१. कार्य तद- अ०, ब०, स० । २. वती । नैत-०, ब०, स० ।
For Private And Personal Use Only