________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
[अ० १ पा० १ सू० ५९-६१
श्रामलक्या अवयवः फलं "नित्यं दुशरादेः [३।३।१०१] इति मयट । तस्य "उफ्फले" [३।३।१२३] इत्युप् । "हृदुप्युप्' [१॥१६] इति स्त्रीत्यस्योप् परनिमित्तकस्तस्य स्थानिवद्भावप्रतिषेधात् “यस्य ङयाँ च" [४।४।१३६] इत्यखं न भवति । पञ्चभिर्दादीभिः क्रीतः "रादुबखौ" [३।४।२६] इति ठण उपि स्त्रीत्यस्योप। तस्य स्थानिवद्भावप्रति धादिकारस्य खं न भवति । यखविधी-करा इतिः । कराइयते: "क्तिचक्ती खो" [२।३।१५० ] इति तिचि कृतेऽतः खल्यागनिमित्तस्य स्थानिवद्भावप्रतिषेधात् "वलि व्योः खम्" [ ४३११५] इति यखं भवति । उबादेशं प्रति स्थानिवद्भावः स्यादिति चेद भवतु । च्छवोः शूड भविष्यति । ततः स्वेऽको दीत्वम् । योऽनादिष्टापूर्व इति न्यायात्पुनरुबादेशो न भवति । स्वविधौ-शिण्टि । पिरिढ । श्नस खस्य स्थानिवद्भावप्रति धादत्रानुस्वारस्य परस्वत्वं भवति । अनादिष्टादचः पूर्वस्थानी नकारस्तस्यैवायं विधिः । अनुस्वारविधौ-शिषन्ति । पिंपन्ति । "नश्चापदान्तस्य झलि" [ ५/४/८ ] इत्यनुस्वारे कर्तव्ये नकारः “श्नसः खम्''[४।४।१०१]इत्यनादिष्टादचः पूर्व इत्यखं न स्थानिवद्भवति । दीविधौ प्रतिदीनः । प्रतिदीना । अनः खस्य परनिमित्तस्य स्थानिषद्भावप्रतिषेधात् "हल्यभकुछुरः" [५/३१८६] इत्यनुवृत्तौ "उङि" [५।३।८७] इति दील सिद्धम् । वकारो हल्परोऽस्मादेव वचनात् । चर्विधौ —जक्षतुः । जक्षुः । "गमहनजनखनबसोऽनङि जिङति' [-1४/६३] इन्युङः खं धकारस्य चखे कर्तव्ये स्थानीव न भवति । गिर्योरिति प्रकृतिपूर्ववेनान्तरङ्गे दोचे कर्तव्ये यणादेशोऽसिद्धः।।
२ द्वित्वेऽचि ॥११॥५६॥ नपदान्तद्वित्त्यतो द्विखग्रहणमनुवर्तते । त कार्यविशेषणम्। द्वित्वनिमित्तेऽच्यजादेशो द्विले कर्तव्ये स्थानीय भवति । रूपातिदेशोऽयम्। श्रादुणिखान्तःस्थायाद्यादेशाः प्रयोजनम्। श्राखम्-पपतुः । पपुः। "इटि चात्खम्" [४/४/६३1 इत्यात्वस्य स्थानिवद्रावादेकाचो लिटि द्वित्वं सिद्धम् । उङः खम्-जग्मतुः । जग्मुः। “गमहनजनखनघसोऽनङि" [४|४|१३] इत्युङः खस्य स्थानिवद्भावाद द्वित्वं भवति । णिखम्-आटिटत् । लुङि कचि णिखे च कृते णिखस्य स्थानिवद्भावादच इति द्वितीयस्पैकाचो द्वित्व भवति । अन्तःस्थादेशः--चक्रतुः । चक्रः । यणादेशस्य स्थानिवद्भावादेकाचो द्विख भवति । अयाद्यादेशाः--अहं निनय निनाय । अहं लुलव लुलाव । अयाद्यादेशानां स्थानिवद्भाबादस्य गलि नेने, लोलौ इति द्वित्व भवति । द्विलनिमित्त इति किम् ? दुयषति । ऊठि यणादेशो धोर्न तू द्विवनिमित्तमिति स्थानिवद्भावो न भवति । अचीति किम् ? जेनीयते । देधमीयते । यङि द्विलनिमित्त प्राध्मोरीकारादेशः स्थानीव न भवति । द्विवे कर्तव्य इति किम र जन्ले । मम्ले | धोराकारस्यावस्थानं न भवति ।
"ईकेत्यव्यवाय पूर्वपरयोः ॥१॥९॥६०॥ ईबिति यत्र निर्दिश्यते तत्र पूर्वस्याव्यवहितस्य कार्य भवति । केति यत्र निर्दिश्यते तत्र परस्याव्यवहितस्य कार्य भवति । ताप्रक्तृतिर्भवतीत्यर्थः । इतिकरणोऽर्थ
शार्थः। ईप्केति इमे संज्ञे द्वयोर्विभक्त्योः प्रत्यायिके प्रसिद्ध । ताभ्यामितिशब्दः परः प्रयुज्यमानो विभक्तिप्रतिपाद्यो योऽर्थस्तं प्रत्याययति । ईबों यत्र निर्दिश्यते, कार्थो यत्र निर्दिश्यत इत्यर्थः । ईबर्थनिर्देशः "अचीको यण" [४३१६५] दध्युदकम् । मध्वियत् । अव्यवाय इति किम् ? धर्मविदत्र । कार्थनिर्देश:अत्यात् । ददति । दधति । अव्यवाय इति किम् ? चिकीर्षन्ति । शपा व्यवायाज्झेरदादेशो न भवति ।
नाशःखम ॥११॥६१॥ नाशोऽनुपलब्धिरभावोऽप्रयोग इत्यनर्थान्तरम् । एतैः शब्दैः प्रतिपाद्यमानस्यार्थस्य खमित्येषा संज्ञा भवति । इतिकरणोऽनुवर्तते । तेन नाशार्थस्य संज्ञेयं लभ्यते । स्थानिग्रहणां चानुवर्तते । प्रसङ्गवांश्च स्थानी । तेन प्रसक्तस्य नाशः खसंज्ञो भवति । भाविनो नाशस्य संशित्वं संज्ञापि भाविनीति नेतरेतराश्रयदोषः। वक्ष्यति"वलि व्योः खम् ॥४॥३५५] दासेरः। काणेर। "क्षुद्राभ्यो वा”[३११११२०] इति दूण, । "इटि चात्खम्"[४|४|१३]यिखम् । जह्यात् । खप्रदेशाः "वलि व्योः खम्"४३५५] इत्येवमादयः।
१. खभित्यखं न अ०, स०। २. प्रतिदीना अ०, स० । ३. प्रतिदने अ०, स०। ४. प्रकृतेः "गिरि" इत्यस्य पूर्वभागस्य "गिर'' इत्यस्यापेक्षवेनेत्यर्थः । ५. -वादेकाचो द्वि-प० । ६. आयाद्यादे-स।
For Private And Personal Use Only