________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म. पा० १ सू० ५७-५८] महावृत्तिसहितम् शालाकिका “प्राग्याट्ठण्" [ ३।३।१२६ ] इकादेशे कृते “कृद्धृत्साः" [१६] इति मृत्संज्ञा सिद्धा। सुबादेशः सुबिव । वृक्षाय । ङादेशेऽपि "सुपि" [ १७] इति दीत्वं सिद्धम् । मिङादेशो मिडिव । बभूवतुः । बभूवुः । अतुस्युसि च कृते "सुम्मिङन्तं पदम्" [ १।२।१०३ ] इति पदसंज्ञायां पदस्येति रित्वं सिद्धम । पदादेशः पदमिव भवति । ग्रामो वः स्वम् । ग्रामो नः स्वम् । वस्नसोः कृतयोः पदस्येति रित्वं सिद्धम् । गादेशो ग इव । अचिनुतम् । डिलादेप्रतिषेधः । इवेति किम् ? स्थानी आदेशस्य संज्ञति मा विज्ञायि । अत्र को दोषः? "श्राङा यमहमः [१।२।२३ ] हात वधरेव दावाधः स्याद्धन्तस्त्वाश्रयस्य न स्या इवग्रहणादभयत्र भवति । अाहत । श्रावधिष्ट । अादेशग्रहणं किम् ? विकारमात्रेऽपि यथा स्यात। पचत । पचन्तु । मिङन्तं पदं सिद्धम् । अनल्विधाविति किम् ? द्यौः। पन्थाः । स्यः। पथित्यदादेशा न स्थानिवद भवन्ति । स्थानिवद्भावे "हल्यापः" [ ४।३।५६] इति सोः खं प्रसज्येत । अलः परो विधिरयं प्राप्तः । क इष्ट इत्यत्रेकारस्य स्थानिवद्भावे हशि रेरुत्वं प्रसज्येत । अलि विधिरयम् । प्रदीव्येति क्वात्यस्य स्थानिवदावे "वलाद्यगस्येद" [१९८४ ] प्रसज्येत । अलः स्थाने विधिरयम् । अलाश्रयो विधिः अल्बिधिः। शाकपार्थिवादिवन्मयूरव्यंसकादित्वात्सः ।
.' परेऽचः पूर्वविधौ ॥१॥११५७॥ श्रादेशः स्थानीवेति वर्तते । अजादेशः परनिमित्तकः पूर्वविधौ कर्तव्ये स्थानीव भवति । पटुमाचष्टे पटयति । णिनिमित्तस्य स्थानिवद्भावात् "उडोऽतः" [सशक्षा इत्यैम्न भवति । अवधीत् । श्रगनिमित्तस्यातः खस्य स्थानिवद्भावात् "अतोऽनादेः" [श१९३] इति हलन्तलक्षण ऐविकल्पो न भवति । पूर्वेण "अनस्विधी" [१।१।१६] इति प्रतिवेध उक्तऽल्विध्यर्थमिदम् । परे इति किम ? वैयाघ्रपद्यः । पादस्य खमजादेशः परनिमित्तो न भवतीति पद्भावे स्थानीव न भवति । यतिञ्जयार स्य युवजानिः । जायाया निकन परनिमित्तक इति "वलि व्योः खम्" [ ४३१५५1न प्रतिबध्नाति । अच इति किम् १ प्रगत्य । प्ये परतो ङस्य खं परनिमिचे प्रस्य तुकि कर्तव्ये स्थानीव न भवति । पर्वविधाविति किम् ? नैधेयः । निधेरपत्यं “इयचः' [३।१।११०] "इतोऽनिजः'' [३।१११११] इति ढणि परविधौ कर्तव्ये श्रावस्य न स्थानिवद्भावः । अन्यथा त्र्यचो ढण् न स्यात् । हे गौः । परविधौ सुखे कर्तव्ये ऐपो न स्थानिवद्भावः । अचोऽनादिष्टात् पूर्वविधौ स्थानिवद्भावः । इह मा भूत् । अचीकरत् । अजीहरत् । अत्र हि "णो कच्युङ:"श२।११५] इति प्रादेशे कृते द्वित्वे च प्रादेशस्य स्थानिवभावात् “छौ कच्यनक्खे सनवत" [२१११०] इति सन्वद्भावो न प्राप्नोति । अादिष्टादेषोऽचः पूर्व इति स्थानिवद्भावाद्भवति । वाय्वोरध्व
ोरित्यत्र यखविधि प्रति स्थानिवद्भावप्रतिषेधात् “वलि व्योः खम्' [ ३।५५ ] इति यखं प्राप्नोति । कर्तव्योऽत्र यत्नः।
५) न पदान्तद्वित्ववरेयखस्वानुस्वारदीचर्विधौ ॥११११५८॥ पदान्तादिविधिध्वजादेशः स्थानीव न भवति । पूर्वेण प्राप्तस्य स्थानिवद्भावस्य प्रतिषेधोऽयम् । पदान्तविधौ---कौ स्तः। कानि सन्ति । अतः खं विङनिमित्तमावादेशे यणादेशे च कर्तव्ये स्थानीव न भवति । अथ नात्र नियमः पूर्वविधेः । स्तः को, सन्ति कानि इत्यपि प्रयोगात् । आदिष्ठाचाचः पूर्वमौकारादि । इदं त[दाहरणम्---अभिषन्ति । निषन्ति । द्वित्वविधौ-दध्यत्र । मध्वत्र । यणादेशस्य स्थानिवद्भावप्रतिषेधात् "अनचि" [१४।१२७ ] इति धकारस्य दित्वं सिद्धम | "असिदधं बहिरंगमन्तरंगे' इति स्फान्तस्य खं न भवति । वरविधी-----यायावरः। यातेर्यडन्तात "यो यङ:"[२।१५५] इति वरे कृतेऽतः खस्यागनिमित्तस्य स्थानिवदभावप्रतिषेधाद्यखेच कते: रस्य स्थानिवद्भावात् “इटि चाल्खम्" [४।४।६३ ] इत्यात्वं न भवति । ईविधौ-आमलकम् । पञ्चदाक्षिः ।
१. पदत्वात् “ससजुषो रिः' इति रित्वं सिद्धमित्यर्थः। २. ब्यावस्येव पादावस्येति बसे "खम्पादस्याहस्त्यादेः' इत्यतः खे ततोऽपत्यार्थे “गर्गादेयं'' इति यजि “पादः पत्" इति पदादेशे ऐचि रैयाघ्र पद्य इति । ३. "दीधे थलोपे च लोपाजादेश एव न स्थानिवत्' इत्येवंरूपो यत्नः ।
For Private And Personal Use Only