________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र व्याकरणम् -
[अ० १ पा० १ सू०।४६-५६
अन्तेऽलः ॥११॥४६॥ तानिर्दिष्टस्य य उच्यते विधिः सोऽन्ते वर्तमानस्यालः स्थाने भवति । "ता स्थाने" इति तास्थाने निर्मातस्यानेनान्ते उपसंहारः क्रियते । टित्किन्मितस्त्ववयवसम्बन्धतानिर्दिष्टस्य विधीयमाना अन्तस्य न भवन्ति । "इद् गोण्या:" [ १।१।१०] पञ्चगोणिः । दशगोणिः । अन्त्यस्येद् भवति । ननु "पुसीदोऽ" [५११११६६ ] इति वर्तमाने "हलि खम्" [१।१७१] इतीद्रूपस्य योऽन्त्यस्तस्य प्राप्नोति । "नानर्थकऽन्तेऽलो विधिः" इति न भवति । "ता स्थाने"इत्यस्य योगस्य कि प्रयोजनम् ? यस्तानिर्दिष्टस्तस्य स्थाने श्रादेशो यथा स्यादधिकस्य मा भूत् । “पादः पत्' [४।४।११६] इति । द्विपदः पश्य । पादन्तस्य न भवति ।
जित् ॥२१॥५०॥ ङितः सर्वेऽनेकालः । डिद्य आदेशोऽनेकाल सोऽन्तेऽलः स्थाने भवति । वक्ष्यति "युष्मदस्मदोऽकङ खन्' [३१२११२१] योष्माकीणः । श्रास्माकीनः। दकारस्याकङ् । अकारोचारणसामर्थ्यात्पररूपाभावः । "सिरे सत्यारम्भो नियमाय" ङिदेवानेकालन्त्यस्य स्थाने। अतोऽन्यः सर्वस्य । “अस्तिओवची' [१॥४॥१२४ ] इत्येवमादयः सर्वा देशाः।
परस्यादेः ।।१।११५१॥ परस्य कार्य शिष्यमाणमादेरलः स्थाने वेदितव्यम् । क्व च परस्य कार्यम् । यत्र कानिर्देशेन "ईप्केत्यव्यवाये पूर्वपरयोः [ ११११६० ] इति परस्य तापक्लूप्तिः । "ईदासः''[२११४२] श्रासीनो भुङ्क्ते । द्वयनगरीदपः'' [ ४।३।२०२ ] द्वीपः । अन्तरीपः । समीपः ।
शित्सर्वस्य ॥११॥५२॥ शिदादेशः सर्वस्य स्थाने वेदितव्यः । “जश्शसो: शिः" [१।१।१७] धनानि तिष्ठन्ति । वनानि पश्य । इदमेव ज्ञापकमनुबन्धकृतमनेकाल्त्वं न भवतीति । तेन "दिव उत्" [४३१०८] इत्येवमादिषु सर्वादेशो न भवति । ण अल् णलिति प्रश्लेषनिर्देशारणलादयः सर्वादेशाः । “अष्टाभ्य औश्'
१८] इति ॥ परस्यादेः" इतीमं बाधित्वा शित्त्वेन परत्वाद्वा सर्वा देशः ।
टिदादिः ॥१।१।५३ टिद्यः स तानिर्दिष्टस्यादिर्भवति । “बलाद्यगस्येट् [१११८४] लविता । लवितुम् । लवितव्यम् । "ता स्थाने" इत्यस्यायमपवादः । “चरेष्टः" [२१२।२१] इत्येवमादौ तानिर्देशाभावानादौ विधिः । अथवा “मध्य ऽपवादाः पूर्वान्विधीन् बाधन्ते'' इति "ता स्थाने" इत्यस्यैव बाधो न तु त्यपरत्वस्य ।
किदन्तः ॥२॥१॥५४ किद्यः स तानिर्दिष्टस्यान्तो भवति । मुण्डो भीषयते । जटिलो भीषयते । भियो णिच् हेतुभयार्थे । "ईतः पुग्नित्यम्' [४।३।४६] इति षुक् । “णे स्मेहें तुभय" [१२।६४] इति दः । पूर्वोक्तपरिहाराट् “आतः कः" [२२२१३] इत्येवमादिषु नातिप्रसङ्गः ।
परोऽचो मित् ॥११॥५५ अन्त इति वर्तते । अर्थवशाद्विभक्तिपरिणामः। मिद्यः स तानिर्दिष्टस्यान्त्यादचः परो भवति । अन्तग्रहणानुवृत्तेहलन्तस्यापि भवति । अन्यथा अच इति विशेषणम् तेन तदन्तविधिः स्वयमेव लभ्येतेति वक्ष्यति । "इदिद्धोनु म्" [५।१३७ ] नन्दिता। नन्दितुम् । नन्दितव्यम् । व्यपदेशिवद्भावादत्रान्त्यत्वम् । “रुधितुदादिभ्यो श्नम्शौ" [२१११७३] रुणद्धि । भिनत्ति । "ता स्थाने' [१।१।४६] "त्य:"[२।१११] "परः"[
२२] इत्यनयोरयमपवादः । "मध्य ऽपवादाः पूर्वान् विधीन् बाधन्ते' इत्यनित्या परिभाषा "तृणह" [५।२।६०] इति निर्देशात् ।।
स्थानीवादशोऽनल्विधौ ॥१॥२॥५६॥ स्थानं प्रसङ्गोऽस्यास्तीति स्थानीव भवत्यादेशः । स्थान्याश्रयेष कार्येष्वनलाश्रयेषु स्थान्यादेशयो नाखात् स्थानिकार्यमादेशे न प्राप्नोतीत्यतिदिश्यते । धुगुकृतहत् सुम्मिङपदगादेशाः प्रायः प्रयोजयन्ति । घोरादेशो धुरिव भवति । अस्ते भावे धोर्विहितास्तव्यादयः सिद्धाः। भवितव्यम् । भवित्त । गोरादेशो गुरिव भवति । त्रयाणाम् | "गो:' [४|४१] "नामि" [१४३] इति दीत्वं सिद्धम् । कृदादेशः कृदिव । प्रकृत्य । प्रहृत्य । प्यादेशे कृते पिति तुक्सिद्धः । हृदादेशो हृदिव। अर्दीव्यति आक्षिकः ।
१. नानुबन्धेति परिभाषा एतत्सामर्थ्यानिष्पन्ना। २. "वाधा" अ०, ब०, स० । ३. तानिर्देशाभाषादित्यर्थः।
For Private And Personal Use Only