________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्र० पा० १ सू० ४६-४८] महावृत्तिसहितम् विदुषः पश्य । शास्त्रान्तरेण भूतो यणः स्थाने इ स जिसंज्ञो यथा “जेः" [४।३।१५] इति परपूर्वत्वम् , जेरिति दीत्वम् । हूतः । गृहीतः । यदि यणः स्थाने इक् भाव्यमानो जिसंज्ञ इहापि स्यात् , अदुहितराम् । अक्षाभ्याम् । अनवा । दुह प्रात्मकर्मणि लङ्। "स्नोश्च जिश्च' [२।११५६] इति जियकोः प्रतिषेधः । शप तस्याप । अत्र लस्य स्थाने इट् वकारस्य स्थाने उदूठा? ततश्च "ज" ||३१५] इति परपवत्वं हल" [ २] इति दीत्वं च प्रसज्येत । नायं दोषः, भाविन्या संज्ञया विधीयमानस्येको जित्वात। "कार्यकालं संज्ञापरिभाषम" इति । जिप्रदेशाह " ब्यस्य पुत्रपत्योर्जिः" [३६] इत्येवमादयः
ता स्थाने ॥ ४६॥ येयमनुसूत्रमुच्चारिता ता सा स्थान एव ज्ञातव्या । बह्वो हि तार्थाः। स्वस्वामिसंबन्धसमीपसमूहविकारावयवस्थानादयः । तेषु प्राप्तेषु नियमः क्रियत-अन्यार्थसंप्रत्ययो मा भूदिति । नित्यशब्दार्थसंबन्धविवक्षायां स्थानशब्दः प्रसङ्गवाची। प्रसङ्गश्च प्राप्ताहवं स्वार्थप्रत्यायकावसरो वा। यथा गरो स्थाने शिष्य उपचर्यते इति गुरोः पसङ्ग इति गभ्यते । एवमस्तेः स्थाने प्रसङ्ग भूः। भविता । भवितम । भवितव्यम् । ब्रजः प्रसङ्ग वचिर्भवति । वक्ता । वक्तम् । वक्तव्यम् । अनित्यशब्दार्थसम्बन्धविवक्षायामपकवाची स्थानशब्दः । यथा गोः स्थाने अश्वं बन्नाति । एवमस्तेः स्थानेऽपकर्षे भूर्भवति । अस्तेरनन्तरमस्ते समीप इत्येवमादयो निवर्तिता भवन्ति । यत्र तानिर्देशे सम्बन्धविशेषो न निर्मातस्तत्रयं परिभाषोपतिष्ठते । शास इत्येवमादिषु तु शासो य उ तस्येत्यवयवयोगो निज्ञात इति नेयं व्याप्रियते ।
स्थानेऽन्तरतमः ॥११॥४७॥ अन्तरः प्रत्यासन्नः । स्थाने प्राप्यमाणानामन्तरतम एवादेशो भवति । श्रान्तयं च शब्दस्य स्थानार्थगुणप्रमाणतः । स्थानतः-लोकाग्रम् । “स्वेऽको दी:"[ ८८ ] इति कण्ठय एवाकारो दीर्भवति । अर्थतः-वतण्डस्यापत्यं स्त्री 'वतण्डात्"[३/११६७] इति यम् । तस्य "स्त्रियामु" [३।१९८] इत्युप् । वतण्डी चासौ युवतिश्च वातण्ड्ययुवतिः । “पोटायुवतिस्तोक'' [॥३।६०] आदि सूत्रेण यसंज्ञः सः, "स्त्र्युक्तपुंस्क" [३/१४६] श्रादिना पुंवद्भावः प्रातो "जातिश्च" [४।३।१५३] इति प्रतिषिद्धः "पुंवद्यजातीयदेशीये" [४/३/१५४] इति । अर्थतो वातण्ड्यशब्दो भवति । गुणतःपाकः । त्यागः । अल्पप्राणस्य घोषवतस्तादृश एव । प्रमाणतः-अभुष्मै । अमूभ्याम् । प्रस्य प्रः । दीसंज्ञकस्य दीः । स्थान इति वर्तमाने पुनः स्थानग्रहणं यत्रानेकमान्तर्य सम्भवति तत्र स्थानत एव भवतीति । चेता । स्तोता। प्रमाणतोऽकारः प्राप्त. स्थानतोऽन्तरतमावेकारौकारौ च । तत्र पुनः स्थानग्रहणात्स्थानकृतमेवान्तर्य बलीय इत्येकारौकारौ भवतः । तमग्रहणं किम् ? वाग्धसति । हकारस्य पूर्वस्वत्वे सोष्मसस्सोष्मा द्वितीयः प्राप्तो नादवतो नादवांस्तृतीयः । तमग्रहणाद्यः सोष्मा नादवांश्च स चतुर्थो भवति ।
रन्तोऽणुः ॥१४॥ उः स्थानेऽण प्रसज्यमान एव रन्तो भवति । लक्षणान्तरेण विधीयमान एवाण विधानबलेन तत्सहायक प्रतिपद्यमानेन रन्तो भाव्यत इत्यर्थः। अकर्तरीति निर्देशात्सर्वादेशो न भवति । कर्ता । किरति । गिरति । द्वैमातुरः । भरतः। शातमातुरः। द्वयोर्मात्रोरपत्यं [ शतमातुरपत्यम् ] 'तस्यापत्यम्' [३।१।७७] इत्यणि परतो "मातुरुल्संख्याऽसम्भद्रादेः' [३।११३०४इत्युकारादेशः । उरिति किम् ? गेयम् । पन्थाः । अणिति किम् ? मातापितरौ । सौधातकिः। अानङ्गकङौ संघातावेतौ । नाणौ । महर्षिरित्यत्र द्वयोः स्थाने एप कथं रन्तः ? यो हि द्वयोस्तानिर्दिष्टयोः स्थाने भवति सोऽन्यतरेणापि व्यपदिश्यते । नरस्य पुत्रः । नायाः पुत्रः । ऋकारलकारयोः स्वसंज्ञोक्ता । तेन तवल्कारः। कथं लन्तत्वम् ? रन्त इति लणो लकाराकारेण प्रश्लेषनिर्देशात् प्रत्याहारग्रहणम् । तेनादोषः।
१. स्थाने इग्भूतो जि-मु०। २. प्रत्यायनावसरो वा अ०स०। ३. उस्तस्य मु०। ४. "रन्तोऽणुः" सूत्रारम्भसामय नेत्यर्थः । ५. अनेनेति शेषः। ६.-पत्यं शतमातृणामपत्यं तस्या, अ०, ब०, स.।
For Private And Personal Use Only