________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
जैनेन्द्र-व्याकरणम्
[ अ० १ पा० १ सू० ३१-४१
थुष्मासु । अस्मासु । युवकयोरावकयोरिति । क्वचित्तु सुबन्तस्याक् । त्वयका । मयका । त्वयकि । मयकि ।
द्वन्द्वे ||१|१|३९|| द्वन्द्वे से सर्वादिनि सर्वनामसंज्ञानि न भवन्ति । कतरकतमाय । कतरकतमात् । कतरकतमानाम् ।
जसि || १||४०|| द्वन्द्वे से सर्वादयः सर्वनामसंज्ञा वा भवन्ति । कतरकतमे । कतरकतमाः । पूर्वेण नित्यप्रतिषेधः प्राप्तः । जसीत्याधारनिर्देशाज्जसि कार्य शीभावो विभाष्यते । ऋक् तु पूर्वेणैव प्रतिषिद्धः । यदि जसि परतस्तत्संज्ञा विकल्येत तदा संज्ञापक्षेऽग्भवेत्, कतरकतमके इत्यनिष्टं प्रसज्येत । कृत्साद्यर्थाविवक्षायां तु के सति तद्व्यवधानान्न शीभावः । श्रतः कतरकतमका इति सिध्यति । न च केऽपि सति स्वार्थिकस्य प्रकृतिग्रहणेन ग्रहणम् । अन्यथा सर्वादौ डतरडतमग्रहणमनर्थकं स्यात्, सर्वनाम्न एव तयोर्विधानात् ।
प्रथमचरमतयाल्पार्धकतिपयनेमाः || १ | १|४१।। प्रथमादयः शब्दा जसि वा सर्वनामसंज्ञा भवन्ति । प्रथमे, प्रथमाः । चरमे, चरमाः । तय इति त्यग्रहणं तेन वचनात्संज्ञाविधावपि तदन्तविधिः । द्वाववयवावेषामिति द्वितये, द्वितयाः । "संख्याया अवयवे तयटू” [ ३ | ४| १६४ ] इति तयट् । एकदेशविकृतस्यानन्यत्वाद्विकल्पः द्वये, द्वयाः । उभये । श्रयमुभयशब्दः सर्वादित्वान्नित्यं सर्वनामसंज्ञः । श्रल्पे, अल्पाः । अथें, अर्धाः । कतिपये, कतिपयाः । नेमे, नेमाः । नेमशब्दस्य प्राप्त ऽन्येषामप्राप्ते विभाषा । अत्रापि जसः कार्य प्रति विकल्पः । कुत्साद्यर्थे के कृते तेन व्यवधानात्पक्षेऽपि सर्वनामसंज्ञा न भवति । तेन प्रथमका इत्यादि सिद्धम् ।
पूर्वादयो नव ||१|१|२२|| पूर्वादयो नव सर्वादौ व्यवस्थिता जसि वा सर्वनामसंज्ञा भवन्ति । तथा हि“पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्" "स्वमज्ञातिधनाख्यायाम्" “श्रन्तरं बहिर्योगोपसंव्यानयोः" इति । पूर्वे, पूर्वाः । परे, पराः । वरे, श्रवराः । दक्षिणे, दक्षिणाः । उत्तरे, उत्तराः । अपरे,
पराः । अधरे, अधराः । व्यवस्थायामिति किम् ? दक्षिणा इमे गाथकाः । अपरा वादिनः । नात्र दिग्देशकाल - कृतोऽवधिनियमो व्यवस्था प्रतीयते; किं तर्हि ? प्रावीण्यमन्यार्थता च । श्रसंज्ञायामिति किम् । उत्तरा कुरवः । व्यवस्थायामपीयं संज्ञा । तेषां स्त्रे शिष्याः स्वाः । यदा ज्ञातिधनयोः संज्ञारूपेण वर्तते स्वशब्दस्तदा नास्ति सर्वनामसंज्ञा । उल्मुकानीव स्वा दहन्ति । विद्यमाना अपि स्वा न दीयन्ते । अन्तरे ग्रहाः । श्रन्तरा ग्रहाः । नगरबाह्या इत्यर्थः ।
पुरीति वक्रव्यम् [ वा०] । अन्तरायाः पुर श्रागताः । बाह्याया इत्यर्थः। अन्तरे शाय्काः । श्रन्तराः शाटकाः । उपसंव्यानमित्युत्तरीयवस्त्रस्य संज्ञा । बहिर्योगोपसंव्यानयोरिति किम् ? हमें ग्रामाणामन्तराः । श्रयमन - योरन्तरे स्थितः । जसि कार्य विभाष्यते; अक्तु भवत्येव प्रतिपेधाभावात् । पूर्वके, पूर्वकाः । इत्येवमादि ज्ञयम् । ङिङस्योरतः | १|१|२३|| पूर्वादयो नव वेति चानुवर्तते । अकारान्तानि नव पूर्वादीनि ङिङस्योर्वा सर्वनामसंज्ञानि भवन्ति । पूर्वस्मिन् पूर्वे । पूर्वस्मात् पूर्वात् । परस्मिन् परे । परस्मात् परात् । इत्यादि योज्यम् | ङिङस्याश्रयं कार्यं विभाष्यते; अक्तु भवत्येव । श्रत इति किम् ? पूर्वस्याम् । पूर्वस्याः ।
1
तीयस्य ङिति || ११ |४४ || तीयत्यान्तस्य ङिति वा सर्वनामसंज्ञा भवति । द्वितीयस्मै, द्वितीयाय । तृतीयस्याः, तृतीयाया । इह मुखादागतः पाशर्वादागतः “ मुखपार्श्वतसोरीयः " [ ३३२ | ११५ ग० ] इतीयः | मुखतीयः । पार्श्वतीयः । पर्वते जातः पर्वतीय इति । श्रमीषा लाक्षणिकत्वादग्रहणाम् । ङितीति किम् ? द्वितीयायाम् । ङिति कार्य विकल्प्यते; अक्तु न भवत्येव । कुत्सायर्थे के कृते द्वितीयकाय ।
इग्यणो जिः ||१|१|१५|| इक् यो यणः स्थाने भृतो भावी वा स जिसंशो भवति । इक् यण: थाने भाविवेनासत्वात् कथं जिसंज्ञ इति चेत्; संशिनो भावित्वात्संज्ञापि भाविनी । यथाऽस्य सूत्रस्य शाटकं वयेति भावी। यथा “ष े ष्यस्य पुत्रपत्योजि : " [ ४| ३ |8 ] “वसोर्जि:' [ ४|४|११८ ] इति । कारीषगन्धीपुत्रः ।
For Private And Personal Use Only