________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० १ पा० १ सू० ३६-३८ ]
महावृत्तिसहितम्
उभाभ्यां हेतुभ्याम् । उभयोर्हे लोर्वसति । द्विवचनटाप्परश्चायम् । उभौ पक्षौ । उभे कुले । उभे विद्ये । उभे । उभयस्मिन् । उभयेषाम् । जसि " प्रथमचरम " [१|१| ४१ ] आदिविकल्पात् पूर्वनिर्णयेनायमेव विधिः । उभये इति । डतरडतम इति त्यौ । कतरस्मै । इतर अन्य अन्यतर । इतरस्मै । अन्यस्मिन् । अन्यतरस्मै । व इत्ययं शब्दोऽन्यवाची । ये । लेषाम् । नेम । नेमस्मिन् । जसि वदयमाणो विकल्पः । नेमे । नेमाः । समशब्दः सर्वशब्दस्यार्थे । समे । समस्मिन् । अन्यत्र यथासंख्यं समाः । समे देशे तिष्ठतीति भवति । सिमः । सिमस्मै । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्” “स्वमज्ञातिधनाख्यायाम्" " " अन्तरं बहिर्योगोपसंव्यानयोः ” त्यद् तद् यद् एतद् दम् इदम् एक द्वि । अत्वविधिं प्रति द्विपर्यन्तास्त्यदादयः । युष्मद् श्रस्मद् भवत् किम् ।' त्यदादीनां यद्यत्परं तत्तदुभयवाचि । सर्वनामेत्यन्वर्थसंज्ञाविज्ञानात् संज्ञोपसर्जनानां न भवति । सर्वो नाम कश्चित्तस्मै सर्वाय देहि । श्रतिक्रान्तः सर्वमतिसर्वस्तस्मै अतिसर्वाय । “पूर्वपदात् खावग: " [५|४|८७] इति णत्वं न भवति । सर्वनामप्रदेशाः “आम्यात्सर्वनाम्नः” [५|१|३४] इत्येवमादयः ।
वा दिक्स ||१|१|३६|| दिगुपदिष्टे से बसंज्ञके सर्वादीनि वा सर्वनामसंज्ञकानि भवन्ति । "न बे" [१|१|३७] इति प्रतिषेधे प्राप्ते वचनम् । दक्षिणपूर्वस्यै । दक्षिणपूर्वायै । उत्तरपूर्वस्यै । उत्तरपूर्वायै । दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालमिति विगृह्यं “दिशोऽन्तराले” [११३३८८] इति बसः । “सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः " [वा०] इति पूर्वपदस्य पुंवद्भावः । उत्तरपदस्य " स्त्रीगोनींच: " [११] ८ ] इति प्रः । पुनष्टाप् । प्रतिपदोक्तस्य दिक्सस्य ग्रहणादिह नास्ति विकल्पः । दक्षिणैव पूर्वा श्रस्य मुग्धस्य दक्षिणपूर्वीय देहि । दक्षिणा च सापूर्वी च सा अस्मिन्नपि विग्रहे परत्वात् “दिशोऽन्तराले " [११३३८८ ] इतीयं प्राप्तिर्न राज्ञा दण्डवारितैति कर्तव्यमेवेदं सूत्रम् । दिग्रहणं किम् ? “न बे" इति प्रतिषेधं वक्ष्यति तस्य प्रतिषेधस्यास्य च विकल्पस्य विषयज्ञापनार्थम् । सग्रहणं किम् ? साधिकार विहिते बसे विकल्पो यथा स्यादातिदेशिके मा भूत् । दक्षिणदक्षिणस्मै देहि । “श्रबाधे" [३८] इति द्वित्वम् । अवदतिदेशश्च "न बे" इत्यत्रापीदं सग्रहणमनुवर्तते तेनापि न प्रतिषेधः । चग्रहणं किम् ? दक्षिणोत्तरपूर्वाणाम् । द्वन्द्वे विकल्पो मा भूत् । ननु प्रतिपदोक्तस्य ग्रहणमत्रोक्तं ततो द्वन्द्व " [१|१|३] इत्येव प्रतिषेधः सिद्धः । उत्तरार्थं तहि बग्रहणम् ।
नये ||१|१|३७|| बसे सर्वादीनि सर्वनामसंज्ञानि न भवन्ति । द्वयन्याय । त्र्यन्याय | "सर्वनामसंख्ययोः " इति वक्तव्येन पूर्वनिपातः संख्याया एवं । प्रियविश्वाय । प्रियोभयाय । इदमेव प्रतिषेधवचनं ज्ञापकमत्र तदन्तविधिरस्तीति । तेन परमसर्वस्मै इत्यत्रापि सर्वनामसंज्ञा । ननु सर्वनामसंज्ञायामन्वर्थविज्ञानात्संज्ञोपसर्जननिवृत्तिरुक्का सर्वोपसर्जनश्च बस इति सर्वनामसंज्ञायाः प्राप्त्यभावात्सूत्रमिदमनर्थकम् । नानर्थकमेतत् प्रयोजनसद्भावात् । कं पिताऽस्य ग्रहकं पिताऽस्य त्वत्कपितृकः । मत्कपितृकः । बसावयवस्य सर्वनामसंज्ञाविरहादग्मा भूत् । कुत्साद्यर्थे के परतः " त्यद्योश्व” [ ५ | १|१५७ ] इति खमादेशौ । स इत्येव । एकैकस्मिन् । “एको बघत्" [२२३३७] इत्यातिदेशिके बसे प्रतिषेधो मा भूत् । बाऽधिकारे पुनर्ब्रग्रहणं बसगर्भे द्वन्द्वेपि नित्यप्रतिषेधार्थम् । वस्त्रान्तरगृहान्तरा इति ।
६
भासे ॥ १|१|३८ ॥ भासे सर्वादीनि सर्वनामसंज्ञानि न भवन्ति । मासपूर्वाय । संवत्सर पूर्वाय । मासेन पूर्वः । “पूर्वावरसदृश" [१|३|२८ ] आदिसूत्रेण भासः । सः इति वर्त्तमाने पुनः सग्रहणं भासार्थे वाक्येऽपि तत्संज्ञाप्रतिषेधार्थम् । मासेन पूर्वाय । मुख्ये च "पूर्वावर " [१|३|२८ ] इत्यादि भासे यद् वाक्यं तत्र प्रतिषेधो न । "साधनं कृता बहुलम् " [ ११३।२६] इति भासे । त्वयका कृतम् । मयका कृतम् । अन्यथा त्वत्केन कृतं मत्न कृतमित्यनिष्टं स्यात् । त्वयका मयकेति पूर्वं त्वमादेशौ । ततः सुबन्तादकू । तथा ह्यग्विधौ वक्ष्यति । मृदः सुपः इति च द्वयमपीहानुवर्त्तते । श्रभिधानतश्च व्यवस्था । तत्र मृदः प्राक् सुपोऽग्भवति । युष्मकाभिः । अस्माभिः ।
For Private And Personal Use Only
१. एकशेषवादिनो हि “त्यदादीनामिथः सहोकौ यत्परं तच्छ्रिध्यते" इति वचनेन परस्य पूर्वार्थ - बाचितामभ्युपगच्छन्ति । परं “त्यदानीनां यद्यत्परं तत्तदुभयवाचि" इत्य ेकशेषम कृत्वैवायमाचार्य एकशेषप्रयोजनं निर्वाहयति । २. 'सर्वनाम इत्यत्र' इति शेषः । ३. सौन्रत्वात् इति शेषः । ४. 'प्रदाय' मु० | ५. "न बे" सूत्रार्थ मित्यर्थः । ६. 'एवं' मु० ।