________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम् [अ० पा० . सू. २८-३५ त्वारः। प्रणिददाति । दाण। प्रणिदाता । प्रणिदयते । प्रगिद्यति । धारूपो द्वौ। प्रणिदधाति । प्रणिधयति । दैपः पित्करणं ज्ञापकम् । अत्र प्रतिपदोक्लपरिभाषा नाश्रीयते । भुसंज्ञाकार्य "नेर्गदनद" [५/१०.] इत्यादिना णत्वं “भुमा"
f 7 इत्यादिना हलीत्वं च । दीयते। धीयते। धीतं वत्सेन । अपिदिति किम् ? दायते बर्हिः। अवदायते भाजनम् । भूप्रदेशाः “भुस्थो:" [११] इत्येवमादयः।
क्लक्लवतू तः॥॥॥२८॥ क्तश्च क्तवतुश्च तसंज्ञौ भवतः । रूपसंज्ञेयम् । कृतः । कृतवान् । भूत इति वर्तमाने इति तक्तवतुरूपौ त्यो भवतः । कारितः। कारितवान् । "ते सेटि" [ १५४] इति णे: खम् । भिन्नः । भिन्नवान् । "द्रान्तस्य तो नः"[५।३१५६] इति नत्वम् । ककारः कित्कार्यार्थः । उकार उगित्कार्यार्थः । तप्रदेशाः "ते सेटि" [४४।५४] इत्येवमादयः ।
संज्ञाः खुः॥११२६॥ संज्ञाशब्दवाच्योऽर्थः खुसंज्ञो भवति । खुप्रदेशाः "खावन्यपदार्थे" [॥३॥१८] इत्येवमादयः।
भावकर्म डिः ॥११॥३०॥ भावकर्मशब्दवाच्योऽर्थो डिसंज्ञो भवति । डिप्रदेशाः "जिडौँ” [२।११६२] इत्येवमादयः । तत्र भावकर्मणोम्रहणं प्रत्येतव्यम् ।
शि धम् ॥ ३१॥ शि इत्येतद्धसंज्ञ भवति । शि इति नपुंसके जश्शसोरादेशस्यार्थवतो ग्रहणम् । कुण्डानि तिष्ठन्ति । कुण्डानि पश्य । धप्रदेशाः "धेऽकौ" [१४६] इत्येवमादयः ।
सुडनपः ।।१।१।३२।। सुडिति प्रत्याहारेण स्वौजसमौटां ग्रहणम् । सुट् धसंज्ञो भवति नपुंसकलिङ्गादन्यस्य । राजा । राजानौ । राजानः । राजानम् । राजानौ। "धेऽकौ" [४॥४॥६] इति दीत्वम् । सुडिति किम् ? राशः पश्य । अनप इति किम् ? सामनी । वेमनी । अनप इति पर्युदासात् स्त्रीपुंसम्बन्धिनः सुटो धसंज्ञा नसके न विधिन प्रतिषेधः । तत्र पूर्वेण जश्शसोरादेशस्य शेर्धसंज्ञा भवत्येव । ननु व्यक्तं स्त्रीपुंसग्रहणमेव कर्तव्यम् ? एवं तर्धनप इति निर्देशात् सापेक्षस्यापि नः सविधिर्भवतीति ज्ञाप्यते । तेन अश्राद्धभोजी अलवणभोजीत्येवमादयः सिद्धाः।
कतिः संख्या ॥ ११॥३३॥ कतिशब्दः संख्यासंज्ञो भवति । कतिकृत्वः। कतिधा । कतिकः । किं परिमाणमेषां "किमः" [२४।१६२] "सख्यापरिमाणे डतिश्च" शि१६३] इति इतिः। कति वारान् भुक्त । कतिभिः प्रकारैः । कतिभिः क्रीत इति । यथाक्रमं "संख्याया भ्यावृत्तौ कृत्वस" [।२।२४] "संख्याया विधार्थे धा" १०६] "संख्यायाः कोऽतिशतः" ३११] इति क इत्येते भवन्ति । ननु प्रदेशेषु संख्याग्रहणेनान्वर्थविज्ञानात् संख्यायतेऽनयेति कृत्वा कतिशब्दस्यापि ग्रहणे सिद्धे किमर्थमिदम् ? नियमार्थम् । अनियमितेषु कतिशब्दस्यैव संख्यारूपता । तेन भूरिप्रभूतादीनां निवृत्तिः “संख्याबाड्डोऽबहुगणात्" [४।२।६६] इत्यत्र बहुगणयोः प्रतिषेधाद्भवति संख्याग्रहणम् । बहुकृत्वः । गणकृत्वः । वैपुल्यसङ्घयोन संख्यात्वम् | "वतोवट ३४२०] इति वचनं ज्ञापकं भवति वत्वन्तस्य संख्याग्रहणेन ग्रहणम् । तावतिकः । तावत्कः । संख्याप्रदेशाः "संख्यायाः कोऽतिशत:" [३।४।१६] इत्येवमादयः ।
ष्णान्तेल ॥ ११२३४॥ कतिः संख्येति वर्तते । षकारनकारान्ता संख्या कतिशब्दश्च इल्संज्ञौ भवतः । प्रणान्तेति पदस्य संख्यापेक्षः स्त्रीलिङ्गनिर्देशः। कतेरनुवर्तनसामर्थ्यादिलसंज्ञा। षट् । पञ्च । सप्त । कति तिष्ठन्ति । "उबिलः" [५1१1१६] इति जस उप । ष्णान्तेति संख्याविशेषणं किम् ? विप्रष. पामान इति अन्तग्रहणं बसनिर्देशेन संख्याप्रतिपत्त्यर्थमौपदेशिकार्थ च। तेन शतानीत्यादौ न भवति । इलप्रदेशाः "उबिला" [५।११६] इत्येवमादयः ।
सर्वादिः सर्वनाम ॥ १।१।३५ ।। सर्वादयः शब्दाः प्रत्येकं सर्वनामसंज्ञा भवन्ति । सर्वे । सर्वस्मै । सर्वेषाम् । स्त्रियाम्-सर्वस्यै । विश्वे । विश्वस्मै । उभशब्दस्य सर्वनाम्नों भा[१४॥३६] इत्येवमर्थः पाठः।
१. जिडा-१०, स०। २, स्त्रीपुससम्ब-१०, स०। ३. नपः ब०। ५.-या अभ्या-मुः। ५.-दिस-मु०। ६.-मो भावत्ये-ब० । -म्नो भावत्ये-स० ।
For Private And Personal Use Only