________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११० १ सू. २१-२७ ]
महावृत्तिसहितम्
इति प्रकृतिभावः । ईदूदेदिति किम् ? वृक्षावत्र । तपकरणमसन्देहार्थम् "मणीवादिषु नेष्यते" मणीव | दम्पतीव । रोदसीव शोभेते । " संज्ञाविधौ त्यग्रहणे तदन्तविधिर्नास्ति" इति अशुक्ले शुक्ले सम्पन्ने शुक्लयास्तां वस्त्रे इति त्यखे त्याश्रयन्यायेन दिसंज्ञा न भवति ।
Acharya Shri Kailassagarsuri Gyanmandir
“ ईषद मातं
द्मः ||१|१|२१|| एदिति निवृत्तम् । दकारस्य स्थाने यो मकारस्तस्मात्परावीदूतौ दिसंज्ञौ भवतः । श्रमी आसते । श्रमी अत्र । अमू आसते । अभू अत्र | "बहावीरेतः" [ ५८ ] इति मत्वमीत्वं च । " दादुर्दो मोsसोऽसे: " [ ५३ ] इति मत्वम् । द्विमात्रस्य चौकारस्य द्विमात्र ऊकारः । श्राश्रयान्म कारादीनां सिद्धि: । द इति किम् शम्यत्र । दाडिम्यत्र । म इति किम् ? द इति तानिर्देशपक्षे तेऽत्रेत्यत्र दकारादेशस्य 'परेणादेपि कृते स्थानिवद्भावात्तद्वद्भावाच्च दिसंज्ञा प्रसज्येत । कानिर्देशपदे चतुष्पद्यर्थ इत्यत्र स्यात् । ईदूदित्येव । इमेऽत्र । एकयोग निर्दिष्टानामेकदेशोऽनुवर्तते निवर्तते चैक देश इति एद्ग्रहणं निवृत्तमिति । श्रन्यथा अमुकेऽत्रेत्यत्रानुवर्तनसामर्थ्यादुकारककाराभ्यां व्यवधानेऽपि वचनप्रामाण्याद्दिसंज्ञा प्रसज्येत ।
निरेकाजनाङ् ||१|१|२२|| निसंज्ञ एकाच् अनाङ दिसंज्ञो भवति ।
७
अपेहि । इ इन्द्रं पश्य । उ पायिना ह्यनुबन्धलिङ्गेन'
पसर । निरित किम् ? चकारात्र । अन्वयव्यतिरेकाभ्यां प्रकृतेस्त्यस्य च विभागः । निरनुबन्धादकाराद् भिद्यते एल् । एकश्चासावच्च एकाजिति किम् ? प्रश्नाति । अनाङिति किम् ? श्री उदकान्तात् । श्रोदकान्तात् । ङित्करणं येष्वर्थेषु ङिदयं वर्तते तत्र प्रतिषेधो यथा स्यादन्यत्र दिसंज्ञ व भवति । क्रियायोगे मर्यादाऽभि विधौ च यः । तं विद्याद् वाक्यस्मरणयोरङित् ॥”
यथाक्रमम् । श्रा उष्णम् श्रोष्णम् । श्रा इहि एहि । श्रा उदकान्तात् श्रदकान्तात् । श्रा अर्भकेभ्यः श्रर्भकेभ्यः । श्रर्भकेभ्यो यशः प्रतीतम् । वाक्यपूरणे स्मरणे चार्थे ङित्त्वाभावाद्दिसंज्ञा । श्रा एवं नु मन्यसे । श्रा एवं किल तत् ।
ओत् ||१|१|२३|| अनेकार्थ आरम्भः । श्रोदन्तो निर्दिसंज्ञो भवति । श्रहो इति । उताहो इति । दिति प्रधानम् । वचनात्तु प्रधानेनापि तदन्तविधिः । तेनेह लाक्षणिकत्वान्न भवति । श्रदोऽभवत् । तिरोऽभवत् । अनुपदेशेऽदः [१/२/१३६] “तिरोऽन्तर्धी [ १/२/१४० ] इति निसंज्ञा । इह तु गौणत्वान्न भवति । अगौर्गौः सम्पन्नो गोभवत् । “च्विडाजूर्यादि : ” [ १/२/१३२ ] इति निसंज्ञा । गौणत्वाद्वाहीके गोशब्दस्य कथमैवादिकार्यमिति चेत् ? सामान्येन संस्तु तस्य पदस्य प्रयोगाददोषः ।
कौ तौ ॥ १|१|२४|| किनिमित्तो य प्रकारस्तदन्त इतौ परतो वा दिसंज्ञो भवति । पटो इति । पटविति । साधो इती । साधविती । काविति किम् ? गवित्ययमाह । गौरिति वक्तव्यमशक्त्या गो इत्युक्तमनुक्रियतेऽनेकान्ताश्रयणात् । अनुकार्यानुकरणयोरभेदविवक्षायामसत्यर्थवत्त्वे विभक्त्यनुत्पाद: । इताविति किम् ? पटोऽत्र ।
उञः ||१|१|२५|| उञित्येतस्य वा दिसंज्ञा भवतीतौ परतः । उ इति, विति । "निरेकाजनाङ " [ १।१।२२ ] इति नित्यं दिसंज्ञा प्राप्ता । सानुबन्धकनिर्देशः किमर्थः १ ग्रहो इति । उताहो इति । निसंघातपक्षे निरनुबन्धस्य मा भूत् ।
ऊम् ||१|११२६ ॥ उञः ऊमित्ययमादेशो भवतीतौ परतः । इति द्विमात्रो नासिक्यो दिसंज्ञकश्च ऊ इति यद्यपठितोऽपि निसंज्ञकोऽस्ति तस्येतावेव प्रयोगो यथा स्यादित्यारम्भः ।
दाat वपि ॥ १|१|२७|| दा धा इत्येवंरूपा धवो भुसंज्ञका भवन्ति पितौ वर्जयित्वा । दारूपाश्च -
For Private And Personal Use Only
१. - यात्मका – श्र०, स० मु० । २. अकारेण इत्यर्थ: । ३. योगे निर्दि- - श्र० । ४. को दे स० । ५. निरिति ग्रहणे कस्मान्न भवतीत्यत श्राह श्रपायिनेत्यादि । ६. लिङ्गेन निरनुबन्धलिङ्गेन निर - अ०, मु० । परमसमीचीन एष पाठः । ७. एण्व मु० ८ तेन विना मर्यादा । १ तेन सहाभिविधिः । १०, माछ डि - भ०, ब०, स० । ११. संस्कृतस्य ब० ।