________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४
जैनेन्द्र-व्याकरणम्
[अ० १ पा० १ सू०७-१०
इत्यत्रान्तग्रहणादन्यत्र " संज्ञाविधौ त्यग्रहणात्तदन्तविधिर्नास्ति" [परि० ] इत्युक्तं तत्कथं कृदन्तहृदन्तग्रहणम् ? नायं संज्ञाविधिः । पूर्वेण विहिताया मृत्संज्ञाया नियमोऽयम् । अथवा “सात्” [ ५।४।७७ ] इति षत्वप्रतिषेधादिह तदन्तविधिर्ज्ञायते । श्रन्यथा सादित्येतस्य केवलस्य मृत्त्वे "नाद्यन्ते” [५।४।७६ ] इत्यनेनैव प्रतिषेधः सिद्धः स्यात् । श्रथ “कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्" [परि० ] इति कृद्ग्रहणं समुदायविध्यर्थं न नियमार्थम् । तेन देवदत्तेन कृंतमित्यादेः समुदायस्य मृत्त्वात् " सुपो धुमृदो: [ १।४।१४२ ] इति सुपः उप् प्रसज्येत । नैष दोषः, “साधनं कृता बहुलम्” [ १1३।२६ ] इत्यस्यानर्थक्यप्रसङ्गात् । सर्वशब्दानां व्युत्पत्तिरस्तीत्यस्मिन् पो, पूर्वसूत्रे नास्त्युदाहरणं, संज्ञार्थमेव तत् ।
Acharya Shri Kailassagarsuri Gyanmandir
प्रो नपि ॥ १|१|७|| मृदिति वर्तमानमर्थात्तान्तं सम्पद्यते । प्रादेशो भवति नपि वर्तमानस्य मृदः । नत्रिति नपुंसकलिङ्गस्य संज्ञा पूर्वेषाम् । श्रियमतिक्रान्तमतिश्रि । अतिरि । प्रतिवधु कुलम् । अतिनु जलम् । Sardara तालव्यौ । ऊकारौकारौ च श्रोष्ठयावस्माकम्, ततः "स्थानेऽन्तरतमः ” [१1१1४७ ] इति परिभाषया अन्त्यस्याचः प्रादेशः । नपीति किम् ? राजकुमारी । अग्रणीः । मृद इति किम् ? रमते कुलम् । नन्वलिङ्गत्वा - दाख्यातस्यात्र प्रादेशाप्रासिरत एवात्रापि न प्रादेश: कारडीभूतमिति । इह तर्हि मा भूत् । काण्डे तिष्ठतः, कुब्ये तिष्ठत इति । अत्र मृदधिकाराद् मृदमृदोरेकादेशी मुद्रन्न भवति ।
स्त्री गोर्नीः ॥ ११८ ॥ न्यग्भूतो यः स्त्रीत्यः गोशब्दश्च तदन्तस्य मृदः प्रादेशो भवति । स्त्री इति स्वरितचिह्नितनिर्देशात् स्त्रियामित्येवंविहितस्य त्यस्य ग्रहणम् । निष्कौशाम्बिः । निर्मधुरः । उभयगतिरिह शास्त्रे । तैन एकविभक्तिकत्वादप्रधानत्वाच्च शास्त्रीयं लौकिकं च न्यक्त्वं गृह्यते । "त्यग्रहणे यस्मात्स तदादेः " इतीयं परिभाषा स्त्रीत्यग्रहणान्नेष्यते । तेन - प्रतितिलपीडनिः । ग्रतिराजकुमारिः । चित्रगुः । श्वेतगुः । 'वोक्तत्वादप्रधानत्वाच्च न्यक्त्वम् । स्त्री इति स्वरितचिह्नितग्रहणं किम् ? तिलक्ष्मीः । श्रतिश्रीः । नीच इति किम् ? साधुविद्या । सुगौः । इह राजकुमारीपुत्र : सुगोकुलमिति यदपेक्षं न्यक्त्वं तत्प्रति तदन्तत्वं नास्तीति न प्रादेशः । मृद इत्यधिकारः किमर्थः ? कुमारीपुत्रः गोकुलम् "वोक्तं व्यक" [१।३।१३] इति प्रादेशः प्रसज्येत । "ईयसो बसे प्रतिषेधो वक्तव्यः " (वा० ) बह्वयः श्रेयस्यो यस्य बहुश्रेयसी पुरुषः । विद्यमानश्रेयसी । सान्तो विधिरनित्य इति "ऋन्मो: " [ ४।२।१५३ ] इति कवपि न भवति ।
दुप्प् ॥ ११६ ॥ स्त्रीग्रहणं नीच इति चानुवर्तते । हृदुपि सति स्त्रीत्यस्य नीच उन्भवति । श्रामलकम् । कुवलम् । बदरम् । श्रामलक्या अवयवः फलम् । "नित्यं दुशरादे: " [३|३|१०३] इति मयट् । इतराभ्यां "प्राग् द्वोरण्” [३।११६८ ] तयोः "उप् फले” [३।३।१२१ ] इत्युप् । स्त्रीत्यस्य पूर्वेण प्रादेशे प्राप्ते उबनेन क्रियते । तस्य “परेऽचः पूर्वविधौ” [१।१।५७ ] इति स्थानिवद्भावाद् “यस्य ड्य च" [४|४|१३६ ] इत्यकारस्य खं प्राप्तमीविधिं प्रति स्थानिवद्भावप्रतिषेधान्न भवति । एवं पञ्चेन्द्रः । पञ्चशष्कुलः । पञ्चेन्द्रायो देवता श्रस्य "हृदर्थ--" [१।३।४६ ] इति प्रसः "संख्यादी रश्च" [१।३।४७ ] इति रसंज्ञः, "प्राोरण' [३।१।६८] इति, तस्य "स्योदनपत्ये” [३।१।७४ ] इत्युप् । स्त्रीत्यस्थोपि "सन्नियोगशिक्षनामन्यतरापाये उभयोरप्यभाव:" [परि०] इत्यानुको निवृत्तिः । पञ्चभिः शष्कुलीभिः क्रीतः श्रहहिणः “रादुबखौ”[३।४।२६] इत्युप् । हृदिति किम् ? गार्गीपुत्रः । सुप उचत्र । उपीति किम् । गार्गी त्वम् । नीच इत्येव - अवन्ती । कुन्ती । कुरूः । श्रवन्तेरपत्यं स्त्री "द्विकुरुन द्यजाद कोशलाज्ज्य: ” [ ३ | १ | १५३ ] इति त्र्यः । तस्य "कुन्त्यवन्ति कुरुभ्यः स्त्रियाम्” [३।१।१५७] इत्युप् । “ड़तो मनुष्यजातेः” [३ | १|५५ ] इति ङी । "ऊरुतः”[३|१|५६] इति ऊः । त्र उपि सतीत्युच्यमाने प्रसज्येत ।
इद् गोण्याः ||१|१|१०|| इकारादेशो भवति गोण्या हृदुपि सति । पञ्चभिर्गोणीभिः क्रीतः पञ्चगोणिः । दशगेणिः। आर्हाडणो “रादुबखौ" [३।४।२६] इत्युपि कृते स्त्रीत्यस्य पूर्वेणोपि प्राप्ते ऽनेन इकारः । गोण्या इति सूत्रे प्रकृतप्रादेशेन सिद्धे इद्वचनं किम् ? कचिदन्यत्रापि यथा स्यात् । पञ्चभिः सूचिभिः क्रीतः पञ्चसूचिः । सप्तसूचिः ।
१. चोक्क - मु० । २. गौरीपुत्रः ब० ।
For Private And Personal Use Only