________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० १ पा० । सू. ११-१..]
महावृत्तिसहितम्
आकालोऽच प्रदीपः ॥११॥११॥ श्रा इति मात्रिकद्विमात्रिकत्रिमात्राणां संहितया निर्देशः । प्र-दी-प इति "सूत्रेऽस्मिन् सुब्विधिरिष्टः” [५/२।११४] इति जसः स्थाने सुः । अश्रा श्रा३इत्येवं काल इव कालो यस्य सोऽच् यथासंख्यं प्रदीप इत्येवंसंज्ञो भवति । अकाल:-दधि । मधु । पितृ । आकालः–खट्वा । गौरी । वामोरूः । श्रा ३ काल:-श्रागच्छ भो माणव जिनदत्ता ३ इत्यादयः। कालग्रहणं प्रत्येक परिमाणार्थम् । ततः अकाल इति विशेषणाद भिन्नकालयोर्दीपयोर्ग्रहणं न भवति । अज्ग्रहणं किमर्थम् ? हलचर्चा संघातनिवृत्त्यर्थम् । प्रतक्ष्य । तितउच्छत्रमिति । प्र-दी-पप्रदेशाः "प्रो नपि [११११७ ] इत्येवमादयः।
अचश्च ॥११॥१२॥ परिभाषेयम् । अचः स्थाने ते प्रदी पसंज्ञका भवन्ति । "प्रो नपि" [10] इति । अतिनु । अतिथि । इच्छातो विशेषणविशेष्यभाव इति अजन्तस्य प्रादेशः। अच इति किम् ? सुवाक् पूतकुलम् । हलः प्रो न भवति । “दीरकृद्रों" [५।२।१३४] इति । चीयते । स्तूयते । अच इति किम् ? भिद्यते । "शमित्यामदोदी" ५।।७२] इत्यत्र गृह्यमाणेन शमादिना विशिष्यत इत्यनजन्तस्यापि दीत्वम् । शाम्यति । वाक्यटेः५ इत्यत्रापि गृह्यमाणेन टिना अविशिष्यते । अागच्छ भो माणव जिनदत्ता ३। अच इति किम ? धर्मवी३त् । तकारस्य मा भूत् । चकारः किमर्थः ? संज्ञाविधौ नियमार्थः । इह मा भूत् । द्यौः । पन्थाः । सः। धुभ्याम् ।धुभिः।
उच्चनीचावुदात्तानुदात्तौ ॥१।१।१३॥ अजिति वर्तते । उच्चैरुपलभ्यमानोऽच् उदात्तसंज्ञो भवति । नीचैरुपलभ्यमानोऽनुदात्तसंज्ञो भवति । स्थानकृतमुच्चत्वं नीचत्वं च गुणः संशिनो विशेषणम् । समान एव स्थाने ऊर्जभागनिष्पन्नोऽच उदात्तसंज्ञो भवति, नंचभागनिव्यन्नोऽनुदात इति ( "नित्याः शब्दार्थसंबन्धाः इति यैरिष्यते तेषां निरवयवस्य नित्यस्य शब्दस्य अवयवोपचयापचयाभावात् उदात्तादिव्यपदेशो न घटते. सावयवत्वे च तेषामनित्यत्वं प्राप्नोति । न च नित्यस्य स्थान करणव्यापारविशेषाद्विशेषः प्रसज्यते । क्षणिकपनेऽपि नैका नित्या स्वरजातिरस्ति यामपेक्ष्यायमत्रोच्च यं नीचैरिति परस्परापेक्षो व्यवहारो भवेत् । तस्मादतमनेकान्तमाश्रित्योदातादयः समर्थनीयाः । न च लोकप्रतीतेषु शब्देषु विभागेनोदात्तादयः प्रतीयन्ते केवलं शास्त्रे व्यवहारार्थ प्रति संज्ञायन्ते । भू इति उदात्तत्वादिट् । भविता । एध स्पर्ध इत्येतयोरन्तोऽनुदात्त इति “अनुदात्त तो दः" [१।२।६] इति दो भवति । एधते । स्पर्धते । उदात्तानुदात्तप्रदेशेषु उच्चनीचगुणविशिष्टस्य ग्रहणं प्रत्येतव्यम् ।
व्यामिशः स्वरितः॥१११४॥ उच्चनीचगुणव्यामिश्रोऽच् स्वरितसंज्ञो भवति । पच यज इत्यन्तस्य स्वरितत्वात् "अस्वरितेत: कत्राप्य फले' [१।२।६८] इति दो भवति । पचे । यजे । स्वरितप्रदेशाः "स्वरितेनाधिकारः” [ ११२।५ ] हत्येवमादयः ।
१२१५॥ प्रत्येकं वाक्यपरिसमाप्तिराश्रीयते । प्रत्येकमादैचां वर्णानामैबित्येषा संज्ञा भवति । पारिशेष्यात्संज्ञासंजिसम्बन्धो ज्ञायते । तथा हि नानर्थकमिदमाचार्यप्रामाण्यात् । 'साधनानुशासनमपि न भवति. श्रादैचां प्रत्याहारे उपदेशात् । ऐपशब्दस्यापि मृत्संज्ञा सिद्धा। नापि पूर्वापरप्रयोगनियमार्थम् । "सावैम्मे" [५।१७७]इत्यन्यथापि प्रयोगदर्शनात् । स्थान्यादेशार्थमपि न संभवति।“अवधात् [अवयवाहतो:][५।२।१६] "रायो हलि [५/१1१४४] "नावों रात्"[१।२।१०२]"मृजेरप्”[५।२।१]इति च उभयदर्शनात् । लिङ्गाभावान्नागमामिभावः। विशेषणविशेष्यभावोऽपि प्रतीतपदार्थयोर्भवति नीलोत्पलवत् । एवमन्यस्यार्थस्यासम्भवात संज्ञासंजिसम्बन्धः। लध्वक्षरा संज्ञा । श्रादैचामैपा तद्भावितानामतदभावितानां च सामान्येनैप्संज्ञा । तदभावितानाम
हलामचा च संघातस्य प्र-दी-पसंज्ञानिवृत्यर्थः । २ 'क्ष' इत्यस्य हलसमुदायस्य 'प्र' संज्ञायां ल्यपि परतस्तुक प्रसज्येत । ३ तितउच्छन्नमित्यत्र 'उ' इति श्र-उसंघातस्य दीमंज्ञायां 'वा पदस्य'
३६४] इति विभाषया तक प्रसज्येत । ४. विशेष्यते अ०, ब०, स० । ५. परिशेषा-ब० । ६. साध्वनुशास-स० । ७ 'नाचो रात्' अ०, ब०, सः । एतच्च नोपलभ्यते । 'नावो रात्' इत्युपलभ्यते परन्तु नोचितमिदमत्र । ग्रन्थस्वारस्यात् “अतो नादेषैः [५।१।८३ ] इति प्रतिभाति ।
For Private And Personal Use Only