________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ०१ पा० १ सू० ३-६ ] महावृत्तिसहितम् चैतेऽणसु पठ्यन्ते । अण् स्वं गृह्णातीति यथा स्यात् । रेफोष्मणां स्वा न सन्ति । वर्ग्यः स्ववर्येण स्वसञ्शो भवति । उदाहरण-लोकाग्रम् । मुनीशः । स्थानग्रहणं किम् ? कचटतपानां समानक्रियाणां भिन्नस्थानानां मा भूत्। तर्ता तप्तुमिति । अत्र "झरो झरि स्वे" [५।४।१३६] इति पकारस्य तकारे खं प्रसज्येत । क्रियाग्रहणं किम् ? इचुयशानां समानस्थानानां भिन्नक्रियाणां मा भृत् । तत्र को दोषः ? अरुश्श्च्योततीत्यत्र "झरो झरि स्वे" [५।४।१३६] इति शकारस्य चकारे खं प्रसज्येत । "ऋकारलूकारयोः स्वसज्ञा वक्तव्या" [वा०] । पितृ लकारः पितृकारः। स्वप्रदेशाः "स्वेऽको दी:" [४।३।८८] इत्येवमादयः । शास्त्रलाघवाथै संज्ञाकरणम् ।
हलोऽनन्तराः स्फः ।। ११॥३॥ हलोऽनन्तराः विजातीयैरम्भिरव्यवहिताः सम्बद्धोच्चारणाः स्फसंज्ञा भवन्ति । समुदाये वाक्यपरिसमाप्तिराश्रीयते । तेन प्रत्येक स्फसञ्ज्ञा न भवति । हल इति जात्यपेक्षो बहुत्वनिर्देशः । तेन द्वयोर्बहूनां च स्फसज्ञा । शर्म-कर्मेति रमौ । इन्द्रश्चन्द्र इति नदराः । हल इति किम् ? तितउः। "तनेड उः सन्वच्च' इति डउः । अत्राकारोकारावनन्तरौ स्फान्तखं प्रसज्येत । अनन्तरा इति किम् ? पचति पनसम् । श्राद्य रूपं प्रत्युदाहरणं पनसमित्यत्र "स्फादेः स्कोऽन्ते च" [ ४१३।४६ ] इति सखं स्यात् । स्फ इति वर्णपिण्डेन सज्ञाकरणं किम् ? एवंरूपः समुदायः स्फसञ्ज्ञो यथा स्यादित्येवमर्थम् । स्कप्रदेशाः "स्फेरुः" [१।२।१००] "लिडस्फात् किन्” [१।१।७६] इत्येवमादयः ।
नासिक्यो ङः॥शश४|| नासिकायां भवो वणों डसज्ञो भवति । नासिकायाश्चावर्णनगरयोनसादेशो ये विहितः । ञमङणना उदाहरणम् ।: परस्परं स्वसज्ञा स्यात् इति चेत् । नैवम् ; स्वस्थानप्रभवा एवामी । उपचारान्नासिक्यत्वम् । यथा मुखप्रभवोऽपि स्वर उपचाराद्वंशे भवो वंश्य इत्युच्यते । तथापि सति मुख्येऽनुस्वारे नासिक्ये कथमुपचरितग्रहणम् । तस्य डसंज्ञायां प्रयोजनं नास्तीत्यग्रहणम् । ङसज्ञाकार्य शान्तो दान्त इति "ढस्य क्विझलो: किति" [ १३] इति दीत्वम् । नासिक्य इति किम् ? तप्तम् । "अनुदात्तोपदेश" [४।४।३७] इत्यादिना ङखन प्रसज्येत । पक्कः पक्कवान् इत्यत्र "डस्य क्विझलो:"[४।४।१३ ] इति दीत्वं स्यात् । वत्वस्य चासिद्धत्वात् "अनुदात्तोपदेश' [ ४१४३७ ] इत्यादिना ङखं च प्रसज्येत । __ अधु मृत् ।।१।१५। धुवर्जितमर्थवच्छब्दरूपं मृत्सझं भवति । धोरर्थवतः पर्युदासाचा [८] र्थवत्त्वं लभ्यते । अर्थश्चाभिधेयो भावाभावरूपः । तत्र भावरूपो जातिगुणक्रियाद्रव्यभेदेन चतुर्विधः । गौः । शुक्लः । पाचकः । इति । अद्रव्यविवक्षायां जात्यादिनार्थवत्त्वम् । द्रव्याभिधाने तु द्रव्यगुणलिङ्गसंख्याकर्मादयो व्यपदिश्यन्ते । तेषां द्योतनार्थ टाबादयः स्वादयश्चोत्पद्यन्ते। एवं डित्थो डविथः । कुण्डं पीठम् । अभावरूपाभिधाने अभावो विनाशः । शशविषाणम् । अध्विति किम् ? अहन् । मृत्त्वे नखं स्यात् । पर्युदासादर्थवदिति किम् ? धनं वनम् । नकारावधेम॒सञ्ज्ञायां नखं प्रसज्येत । लूः पूरिति वच्यन्तस्य धुत्वेऽपि कृदन्तत्वान् मृत्सज्ञा। मृत्प्रदेशाः"ड्याम्मृदः', [३।१११] इत्येवमादयः ।
क्रदधत्साः ॥श६|| कृदन्तं हृदन्तं ससञ्जकञ्च मृत्सझ भवति । कृत-ज्ञाता। ज्ञातव्यम । हतप्राजापत्यः । प्राकम्पनिः । सः-जिनधर्मः । साधुवृत्तम् । “सिद्ध सत्यारम्भो नियमार्थ : [परि०] 'नियमश्च विधिमुखः प्रतिषेधफलः' इति त्यान्तेषु कृ. दन्तस्यैव मृत्संज्ञा । इह मा भूत् । असिचन् । अभवन् । उत्पन्नानां स्वादीनामेकत्वादिनियम इत्यस्मिन् दर्शने स्वायत्पत्तिः स्यात् । इह च काण्डे कुख्य रमते राजकुलमिति "प्रो नपि' [११] इति मृत्त्वात्प्रादेशः स्यात् । सग्रहणमपि नियमार्थम् | अर्थवत्संघातानां ससंज्ञकस्यैव मृत्संज्ञा, वाक्यस्य माभूत् । साधुधमे बृत इति, "सुपा धुमृदो:" [११४४१४२] इति सुप उपप्रसज्येत । सग्रहणात् तुल्यजातीयस्यैव
समुदायस्य वाक्यस्य निवृत्तिः, न प्रकृतित्यसमुदायस्य । तेन "वा सुपो बहुःप्राक्तु १२७इति वहौ केडकचि च कृते बहुतृणं कुमारिका उच्चकैः पठतीति मृत्त्वं न निवर्तते । ननु च "सुम्मिङन्तं पदम्" [१२।१०३]
१.-सम्बन्धो-इति पाठः । २.-ति नै-अ० । ३. खम्प्रस-इति सुवचम् । ४.-ना चु खं च मु० । ५. स्यात् । अर्थवत्पर्यु-अ०, स०।-त् । अर्थवत: पर्यु-ब०। ६. न्यायसं० । ७. मुखप्रतिषेधफलमिमु०, स०।८. मते । १. कचि कृ-म०।
For Private And Personal Use Only