SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ० ५ पा० ४ सू० १३- २१ ] महावृत्तिसहितम् ४०३ षण्डे' । प्राक्साये । प्राङ्साये । कुकः पूर्वान्तत्वात् परस्य " नाद्यन्ते " [ ५/४४७६ ] इति षत्वप्रतिषेधः | टुक्—सुपण्ट् शेते । सुपण शेते । सुपरट् पण्डे । सुपण घडे । सुपटू साये । सुपप्साये । टुकः पूर्वान्तत्वे परस्य " पदस्य टो: " [५/४/१२१] इत्यादिनियमात् ष्टुत्वाभावः । [ नां घुट् सोवः ||५|४|१३ ॥ ] नश्शि तुक् ||५|४|१४|| नकारस्य पदान्तस्य शकारे परतो वा तुगागमो भवति । त्रापि छत्वार्थ पूर्वान्तत्वम् । भवा । भवाञ्च्शेते । भवाञ्शेते । [ मयो वोsच्युञः || ५|४|१५|| ] ङमो नित्यं ङमुट् प्रात् ||५|४|१६|| प्रात्परो यो ङम् तदन्तात्परस्याचो नित्यं ङमुड् भवति | क्रुङ्ङास्ते । सुगणिगढ । कुर्वन्नास्ते । प्रादिति किम् ? प्राङास्ते । अचीत्येव । कुङ् शेते । ननु परमदण्डिनावित्यत्र कस्मान्न भवति । अत्र हि "त्यखे त्याश्रयम्” [१।११६३ ] इत्यवयवविभक्तीमाश्रित्य पदान्तत्वमस्तीति चेत् ; नायं दोषः-याश्रयलक्षणेन पदत्वमुत्तरपदे एव भवति नान्यत्र । कथमिति चेत्, “भवद्भगवदधवतः” [५।४।२] इति निर्देशात् । अन्यथा वत्तकारस्यापि जश्त्वं स्यात् । एवं च पीतपयसौ सुराजानावित्यत्र रित्वनखे न भवतः । ढो दे खम् ||५|४|१७|| ढकारस्य ढकारे परतः खं भवति । ऊदिः । गूढम् | लीढम् । पदान्ते ढकारस्यासम्भवात् वचनात्पदमध्ये विधिः । नन्विह सम्भवति मधुलिहौकत इति । ढत्वस्यासिद्धत्वात् जश्त्वमत्र भविष्यति । ननु मध्येऽपि त्वस्यासिद्धत्वात्रो ढकारो नास्ति तत्र यदि वचनाडूटखम् । पदान्तेऽपि स्यात् । पदमध्ये श्रुतिकृतमानन्तर्यमस्तीति भवति । पदान्ते न श्रुतिकृतं नापि शास्त्रकृतमानन्तर्यम् । जश्त्वस्य सिद्धत्वात् । रोरि ||४|४|१८|| रेफस्य रेफे परतः खं भवति । नीरक्तम् । दूरक्तम् । श्रग्नीरथः । इन्दूरथः । पुना रक्तं वासः । “निरनुबन्धकग्रहणे न सानुबन्धकस्य " [१०] इतीयं परिभाषा नेहाश्रीयते " रेश्च सुपि" [ ५/४/२४] इति ज्ञापकात् । तत्र रेरेव सुपीति नियमो वक्ष्यते । इह यदि निरनुबन्धकस्य रेफस्य ग्रहणं स्यात् इदमेव तत्रानुवर्तते । इति रेः प्राप्त्यभावान्नियमोऽनर्थकः स्यात् । इह पदस्यावयवो यो रेफः तस्य खं भवतीत्याश्रयणादपदान्तरस्यापि रेफस्य खं भवति । अजर्घा इति जगृधू इत्यस्माद्यङवन्ताल्लङः सिपू । “हल्डचापः " [४/३/५६ ] इति सिपः खम् । “घ्युङ : " [ ५२८३] एप् । रन्तत्वम् । “झलो जश्” [ ५/३/५७ ] इति धकारस्य दत्वम् । “सिपि रिर्वा" [३१] “दः” [ ५३।८२ ] इति दकारस्य रित्वादेशः । अत्र से रीति पूर्वस्य खं परस्य विसर्जनीयः । एवं स्पर्द्धचन्तस्य अपास्पाः । रो रीति निर्देशात् "रादिकः " [उ० सू०] इति विधानमनित्यम् | "ढोढे खम्" [ ५|४|१७ ] इति निर्देशात् "वर्णात्कारः" [ उ० सू०] अप्यनिस्यः । विरामे विसर्जनीयः || ५|४|१६|| विरामविषये रेफान्तस्य पदस्य विसर्जनीयादेशो भवति । देवः । कविः । साधुः । स्वः । अत्तः । विराम इति किम् ? अग्निरत्र । प्रातरत्र । वायुवति । विरतिः वर्णस्यानुच्चारणं विरामः । विसर्जनीय इति प्रयोगवाहेषु चिन्दुद्वयस्य सञ्ज्ञा । शर्परे खरि ||५|४|२०|| शर्परे खरि परतः रेफान्तस्य विसर्जनीय आदेशो भवति । पुरुषः सरुकः । नरः सरति । " छवि" [ ५।४।२५ ] सत्वस्यायमपवादः । कुप्वोः ||५|४|२१|| शर्परे खरीति वर्तते । खरि यौ कुपू तयोः शर्परयोः परतः रेफस्य विसर्जनीय आदेशो भवति । वासः क्षौमम् । श्रद्भिः प्सातम् । ननु पूर्वेण सिद्धे किमर्थमिदम् । अस्मिन्ननुच्यमाने स पुरस्तादपवादः सन् ँक Xपयोरेव बाधकः स्यात् न छवि सत्त्वस्य । कुप्वोरित्यनेनारम्भेण पयोधा । पूर्वेण छवि सत्यस्येति । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy