________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४०४
जैनेन्द्र-व्याकरणम्
[ श्र० ५ पा०
सू० २२-२६
पौ ||५|४|२२|| शर्पर इति निवृत्तम् । खरीति वर्तते । इष्टत्वात् । खरि यो कुपू तयोः परतः रेफस्य इत्येतावादेशौ भवतः विसर्जनीयश्च । कX करोति । कः करोति । कः खनति । कः खनति । कः पचति । कः पचति । कः फलति । कः फलति । केवलौ जिह्वामूलीयोपध्यानीया बुच्चार - यितुमशक्यौ ककारपकारा उच्चारणार्थों । इह नृकुट्यां भवः नाकुट्यः । नृपतेरपत्यं नार्पत्य इति रेफस्य बहिरङ्गत्वान्नायं विधिः । ननु सति विसर्जनीये अन्तरङ्गेऽस्य प्रतिद्वन्द्वित्वाद्द्बह्रिङ्गत्वम् । विसर्जनीयश्चासिद्धः । कथं तन्मूलपरिभाषाव्यापारः । नैषः दोषः । ईषत्सिद्धमसिद्धं क्वचित् सिद्धमित्याश्रयणाद्विसर्जनीयः सिद्धः ।
1
Acharya Shri Kailassagarsuri Gyanmandir
शरि सच || ५|४|२३|| शरि परतः रेफस्य सकारादेशो भवति विसर्जनीयश्च । कश्शेते । कः शेते । कष्वष्कते । कः ष्वष्कते । कस्तरति । कः सरति ।
रेश्च सुपि || ५|४|२४|| सुपि परतः रेश्च सकारादेशो भवति विसर्जनीयश्च । चकारो विसर्जनीयानुकर्षणार्थः । शरीत्यनुवर्तते । सुपीति ईपो बहोर्ग्रहणम् । पयस्सु । पयःसु । सर्पिष्षु । सर्पिषु इत्यत्र सत्वपक्षे " नुमर्व्यवाये" [५|४|३८ ] इति परस्य षत्वे कृते पूर्वस्य पदान्तत्वात् "नाद्यन्ते” [ ५|४|७६ ] प्रतिषेधे सति त्वम् । विसर्जनीयपक्षे परस्य पत्वम् प्रयोगवाहस्य शर्ग्रहणेन ग्रहणात् पूर्वेण सिद्धे नियमार्थमिदम् । रेरेव सुपि सत्यविसर्जनीयौ नान्यस्य । गीर्षु । धूर्षु । सुप्येव रेरिति कस्मान्न नियमः । " सस्सेच्युस्थस्य " [ ५|४ | ३ ३] इति सकारद्वयनिर्देशात् ।
छ || ५|४|२५|| रोरीत्यतो रेफमात्रमनुवर्तते । विसर्जनीय इति निवृत्तम् । छवि परतः रेफस्य सकारादेशो भवति । कश्छिनत्ति । कष्ठकारीयति । कस्थुडति । कश्चरति । कष्टीकते । कस्तरति । पुनश्चरति ।
कुवत् ||५|४|२६|| स इति वर्तते । पदान्तरेफस्य सकारादेशो भवति कवर्गवर्गादौ त्ये परतः । “पाशकल्पकाम्याः प्रयोजयन्ति” [वा०] । याप्यं पयः । पयस्पाशम् । यस्पाशम् । “याप्ये पाशः " [ ४|१|११० ] इति पाशः । ईषदसिद्ध ं पयः पयस्कल्पम् । यस्कल्पम् । " श्रसिद्धौ देश्यदेशीयकल्पाः " [४।१।१२६] इति कल्पः । महोरस्कः । पयस्कम् । पयस्काम्यति । कुप्वोरिति किम् ? पयोभ्याम् । नन्वत्रापि पवर्गत्वात् प्राप्नोति । खरीत्यनुवर्तनान्न भवति । त्य इति किम् ? यः करोति । पयः पिबति । “उब्ज आर्जवे" इत्यस्योपध्मानीयोङपक्षे कुत्वविषये "उपध्मानीयस्य सत्वं वक्तव्यम्, द्वित्वप्रतिषेधश्च" [वा०] श्रभ्युद्गः । समुद्गः । उब्जिजिप्रतीति । दकारोङ्पक्षे तु कुत्वादन्यत्र । असिद्ध काण्डे " व उद्गेः " [वा०] इति वचनात् वत्वस्यासिद्धत्वात् "न स्फादौ न्द्रोऽयि” [४।३।३] इति द्वित्वप्रतिषेधः । उब्जिजिषति । "अत्रासिकस्येति वक्तव्यम्" [वा०] इह मा भूत् । प्रातःकल्पम् । मुहुः काम्यति । " रेरेव काम्ये वक्तव्यम्" [वा०] इह मा भूत् । गीः काम्यति । धूः काम्यति ।
इणः षः ||५|४|२७|| इण उत्तरस्य सकारस्य षकारादेशो भवति कवर्गपवर्गादौ त्ये परतः । सर्पिष्कल्पम् । सर्पिष्कः । सर्पिष्काम्यति । “कुप्वोस्स्ये” [५।४।२६ ] इत्यनेन निर्वृत्तस्य सकारस्य त्वमनेन विधीयते इति लक्षणमिदमधिकारश्च । इत ऊर्ध्वं यत्सत्वं विधीयते तस्य इण उत्तरस्य पत्वं भवतीत्येतदधिक्रियते ।
इदुदुङोऽत्यपु मुहुसः || ५|४|२८|| त्ये हि पूर्वेण सिद्ध मत्यार्थोऽयमारम्भः । इकारोकारोङोः रेफस्य सकारादेशो भवति कुप्बोः परतः त्यम्मुहुसो वर्जयित्वा । " निदुर्ब हिरा विश्चतुः प्रादुषः प्रायः प्रयोजयन्ति ' निष्कृतम् । निष्पीतम् । बहिष्कृतम् | बहिष्पीतम् | आविष्कृतम् । श्रविप्पीतम् । चतुष्कुण्डिका । चतुष्कण्टकः । चतुर्षु कण्टकेषु भवः इत्यण् । हृदऽर्थे रसे कृते "रस्योबनपत्ये” [३।११७४] इत्यण् उप् । प्रादुष्कृतम् । प्रादुध्पीतम् । सर्बत्र “इणः ष” [५।४।२७] इत्यनुवर्तनात् पत्वम् । तपरकरणं किम् ? गीः करोति । अत्यपुम्मुहुस इति किम् ? मुनिः करोति तपम् । पटुः पठति । पुंस्कामा | मुहुःकामा । ननु पुंस्कामेत्यत्र रेफाभावात् प्रतिषेधोऽनर्थकः । लक्षणान्तरेण सत्वस्य विधानाच्च त्वप्रतिषेधोऽप्ययुक्तः । नैष दोषः । उक्त हि भाष्ये विशेषण सत्वमुक्त्वा
For Private And Personal Use Only