________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्र० ५ पा० २ सू० १२० - १२७ ]
. महावृत्तिसहितम्
उर्ऋत् ||५|२|१२० ॥ कच्यरे णौ ऋवर्णस्य उङ: स्थाने ऋकारादेशो भवति वा । अनवकाशत्वादन्तरङ्गाणाम् इररारामपवादः । अचीकृतत् । श्रवीवृतत् । श्रमीमृजत् । पक्षे इर् । अचकीर्तत् । श्रर् अवर्तत् । आर । श्रममार्जत् । “उङ:" [ ५1१1७५ ] इति ऋकारस्येत्वम् । “युङः " [५२२८३] एप् । “मृजेरैप्” [२१] । ऋकारादेशस्य " रन्तोऽणुः " [१|१|४८ ] इति रन्तत्वं भवति । " अणुदित्स्वस्या- " [१1१/७२ ] इतीमं ग्राहकाणं मुक्त्वा सर्वमण्ग्रहणं पूर्वेण राकारेणेति व्याख्यानात् ।
३७७
देो दिगि लिटि || ५|२| १२१|| देङो दिग्यादेशो भवति लिटि परतः । वेति निवृत्तम् । श्रवदिये । अवदिग्याते । वदिग्यिरे । चस्येत्यनुवर्तते । वचनाद्वित्वे कृते चस्य देङश्च यथासङ्ख्यं दिगी आदेशौ भवतः । "ऐगिंवाक्चादुङोऽनुधियः " [४|४ | ७८ ] इति यणादेशः सिद्धोऽन्यथा हीयादेशः स्यात् ।
ऋतः स्फादेरेषु |||२|१२२|| ऋकारान्तस्य गोः स्फादेरेषु भवति लिटि परतः । सस्मरतुः । सस्मरुः । दधरतुः । दधरुः । वचनात्प्रादित्वात्स्फादेरिति विशेषणम् । अन्यथा स्फादित्वासम्भवः । प्रतिषेधविषये लिटीदमारभ्यते । सस्मारेस्यादौ ऐव भवति पूर्वविप्रतिषेधेन । ऋत इति किम् ? चिक्षिपतुः । चिक्षिपुः । तपरकरणमसन्देहार्थम् | ऋकारास्याप्युत्तरसूत्रेण विधानात् । स्फादेरिति किम् ? चक्रतुः । चक्रुः । लियेत्येव । स्मृतवान् । ननु संचस्करतुः । संचस्कररित्यत्र द्विपदाश्रयस्य सुटो बहिरङ्गलक्षणस्यासिद्धत्वात्कथमेप् । नैष दोषः । "पूर्व धुर्गिना युज्यते पश्चात्साधनवाचिना त्येन" [प०] इत्यस्मिन् दर्शनेऽन्तरङ्गे सुटि कृते पश्चादेप् । अतएव " स्फाटतोऽसुरः [५1१1१] । “स्फाद्यर्योरस्कुरे प्” [५।२।१३८] इति प्रतिषेध उपपन्नो भवति ।
स्मृतः ।
ऋच्छत्यताम् ||५|२|१२३|| ऋच्छत ऋइत्येतस्य ऋकारान्तानां च लिटि एव भवति । श्रनच्छं । आनर्च्छतुः । आनच्छुः । ए द्वित्वम् । “आद्यतः " [ ५/२/१७० ] इति दीत्वम् । “ततो नुटु” [५।२।१७१] इति नुट् । ऋ । श्रातुः । श्रारुः । " अश्नोतेः ' [ ५२।१७२] इति नियमान्नु न भवति । ऋत् । विचकरतु विचकरुः । निजगरतुः । निजगरुः । वितस्तरतुः । वितस्तरुः । ऋच्छेरन्तरङ्गत्वात् " " [ ४|३|६१] इति तुकि कृते सर्वत्रप्राप्तः ऋतां तु लिटि किति प्रतिषिद्ध एब्विधीयते । निजगारेत्यादा प् पूर्वनिर्णयेन ।
प्रां प्रो वा ||२२|१२४ || शृह पृ इत्येषां लिटि वा प्रो भवति । विशश्रतुः । विशश्रुः । प पूर्वेणैप । विशशरतुः । विशशरुः । विदद्रतुः । विदद्रुः । विददरतुः । विददरुः । निपप्रतुः । निपः । निपपरतुः । निपपरुः | प्रादेशवचनादित्वोत्वे न भवतः । ये तु श्रा पाके, द्रा कुत्सायां गतौ द्रा पूरणे इत्येतेषामनेकार्थत्वात्प प्रयोगादनर्थकमिदमिति मन्यन्ते तेषां प्रतिपत्तिगौरवं स्यात् ।
केऽणः ||५|२|१२५|| के परतोऽण्: प्रो भवति । नदिका । कुमारिका । वामोरुका । कुत्साद्यर्थविवक्षायाम् “एवाटकः” [४|१|१२६] इति कः । “स्वार्थिकाः प्रकृतिलिङ्गसङ्ख्यं श्रनुवर्तन्ते " [प०] इति टाप् । क इति साच्कनिर्देशात्त्यग्रहणम् । वर्णग्रहणे तदादिविधिः स्यात् । ततश्च नदीकल्पः परवाहः । कुमारी काम्यतीत्यत्रापि स्यात् । इति किम् ? गोका । नौका । पूर्वेण राकारेणाण व्याख्यातः । राका काक इत्यादिषु " उणादयो बहुलम् " [२।२११६७ ] इति न भवति “कृदाधाराचिकलिभ्यः कः " [उ० सू०] "इभीकापाशणतिमर्चिभ्यः कः " [ उ० सू०] इति कायतेः कः । “न कपि" [ ५।२।११६] इति प्रतिषेधादिहाननुबन्धकपरिभाषा नाश्रीयते । तेन निपाजात "ओदेशे ठज्" [३।२६५ ] तदादेशे के सानुबन्धकेऽपि प्रादेशः सिद्धो भवति । नैपाह कर्मुकः इति ।
For Private And Personal Use Only
न कपि || ५|२२१२६ || कपि परतोऽणः प्रो न भवति । बहुकुमारीकः । बहुवामोरूकः | "ॠन्मोः” [४।२।१५३] इति कप् सान्तः । खार्या क्रीतं खारीकम् । काकणीकम् । “खारीकाकणीभ्यां कप्” [ ३|४|३०] । चाऽऽपः || ५|२| १२७ ॥ कपि परतः आवन्तस्य वा प्रो भवति । बहुखट्वकः । बहुखट्वाकः । बहुदा मकः । बहुदामाकः । “ शेषाद्वा" [ ४/२/१५४ ] इति कपू ।
४८