________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७६
जैनेन्द्र-व्याकरणम् [अ० ५ पा० २ सू० ११६-११६ शापकात् णौ कृतं स्थानिवद्भवति । अथ वा “द्वित्वेऽचि" [१५] इति स्थानिवद्भावः । कृहशब्दयोद्वित्वम् । “घौ कच्यनङ खे सन्वत्" [५।२।१६०] इति सन्वद्भावेनेत्वम् । “धेर्दीः" [५।२।१५१] इति दीत्वमेवअलीलवत् । अपीपवत् । “प्रोः पुयएज्ये" [५।२।१७८] इति उकारस्येत्वम्। अथवा श्रोण, अपनयने इत्यस्य प्रतिषेधार्थम् । ऋदित्करण ज्ञापकं द्वित्वात्पूर्व प्रादेश इति । अन्यथा मा प्रोण्णिदित्यत्र द्वित्वे कृते परेण रूपेण व्यवधानात् प्रादेशस्याप्राप्तिः। अत एव मा भवानटिटत अत्र प्रादेशे सति "अचः" [ २] इति द्वित्वम् । णाविति किम् ? कच्युङः प्र इत्युच्यमाने अलीलवदित्यत्र प्रादेशो वचनसामादन्तरङ्गमैपमावादेशं बाधित्वा नित्यत्वेन गे: खं च बाधित्वा वकारस्य स्यात् । इह चापीपचदपीपटदिति अनुङ भूतत्वात् प्रो न स्यात् । किम् ? कारयति । हास्यति । ननु मितां गौ प्रादेशवचनं ज्ञापकमन्यत्र प्रादेशाभावस्य । यद्येवमचीकरदित्या न स्यात् । अथ प्रवचनाद् भवति । कारयतीत्यादावपि स्यात्तद्विशेषहेत्वभावात् । उङः इति किम ? अचकाक्षत् । अनुङ श्राकारस्य मा भूत् । अशावकत्यदित इति किम् ? अशशासत् । परस्य थेरभावान्न सन्वद्भावः । अकः स्वम् अक्वम् अक्वमस्यास्तीति अक्खी तस्य नेति । राजानमत्याख्यत् अन्यरराजत् । “तत्करोति तदाचष्टे" इति णिच् । यत्र केवलस्याचः खं तत्र “परेऽचः पूर्वविधौ" [११११५७] इति स्थानिवद्भावः । हल चोश्चायमादेशः । तदर्थमकिवप्रतिषेधः । ननु च अनकारिदं वं कथमनकः खम् । यदत्राकः खं तदाश्रयः प्रतिषेधः। स्थानिवद्भावस्तु नास्याश्रयः । ताधिकारस्तत्रानुवर्तते । तानिर्दिष्टश्याचः स्थानिवद्भावो न समुदायरूपेण टिव स्य । ऋदित् । अडुटौकत् । अतुत्रौकत । इह कथं एयन्तारिणचि प्रादेशः । वादितवन्तं प्रयोजितवान् अवीवदवीण परिवादकेन । णौ णि वस्य स्थानिवद्भावादनुडो न स्यात् । णावित्यत्र जातिग्रहणाददोषः ।
भ्राजभासभाषदीपजीवमोलपीडो वा ॥शश११६॥ भ्राज भास भाष दीप जीव मील पोड इत्येतेषां कच्परे णी उडः वा प्रो भवति । अबभ्राजत् । अबिभ्रजत् । अबभासत् । अबीमसत् । अयभाषत । अबीभपत् । अदिदीपत् । अदीदिपत् । अजिजीवत्। अजीजिवत् । अमीमिलत् । अमिमीलत्। अपिपीडत् । अपोपिडत् । पूर्वसूत्रेण प्रादेशे प्राते विकल्पः। यदा प्रः तदा पूर्ववत्सन्वद्भावेनेत्वं घेीत्वम् । वेति योगविभागात कणादीनां विकल्पः । अचमाणत् । अचीकणत् । अत्रमाणत । अत्रीभगत् इत्यादि । भ्राजग्रहणं किम् ? यावता फणादिषु नाज इत्यनुकारेदस्ति तस्य सिद्धः प्रः । एज़ भेजृ भ्राज दीतावस्य ऋदितो नेति सिद्धमुभयम् । एवं तहि ज्ञापकार्थम् । अन्यत्र “यजराजभ्राजच्छसां प" [५।३।५३ ] इत्यादौ भ्राजग्रहणेन राजिसहचरितस्य अदितो ग्रहणम् । ऋदितो भ्रागिति भवति । भास ऋदित्करणमनर्थकम्
खं पिवश्चस्येत् ॥शरा११७॥ पिबतेरुङः णौ कच्परे खं भवति चस्य च ईकारादेशः। अपीप्यत् । अपीप्यताम् । अपीयन् । उङः खे कृते "द्वित्वेऽचि" [११५६] इति स्थानिवद्भावादृद्वित्वम् । पित्र इति शब्बिकरणान्तो विकृतनिर्देशः। पिचतेरेकदेशो यङ बन्तनिवृत्त्यर्थः । अपपायत् । घेरभावात्सन्वद्भावी न भवति । पातेरुचिकरणत्वात् "पै अोवै शोषणे" इत्यस्य च लाक्षणिकत्वादेव निवृत्तिः।
स्थ इत् ॥शश११८॥ तिष्ठतेः कच्परे णावुङ इकारादेशो भवति । अतिष्ठिपत्। अतिष्टिपताम् । अतिष्ठिषन् । "लुइलिटोः प्रतिपदोक्तानि" इत्यादि वचनाद्यङ बन्तस्य न भवति । अततास्थपत् । ता स्था इति स्थिते णिचि पुक् कचि द्वित्वं घेरभावात् सन्वद्भावो नास्ति ।
घ्रो वा ॥शरा११६॥ जिघ्रतेः कच्चरे णावुङ इकारादेशो भवति वा । अजिघ्रिपत् । अजिधिपताम् । अजिध्रिपन् । अजिघ्रपत् । अजिघ्रपताम् । अजिघ्रपन् । चस्य सन्वद्भावेनेन्वम् । अत्रापि यङ बन्तस्य न भवति । अजजाघ्रपत् । उभयोर्विकल्पयोर्मध्ये योगा नित्या इति पूर्वी प्रापवादौ नित्यौ ।
For Private And Personal Use Only