________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्र० ५ पा० २ सू० १०७ - ११५ ]
महावृत्तिसहितम्
३७५
अण मोः || ५|२| १०७ ॥ म्वन्तागोः परस्य ङितोऽडागमो भवति । मोरित्यकृतार्थः कानिर्देशो ङितीत्यस्य तां प्रकल्पयति । कुमायें । वामोर्वै । कुमार्याः । वामोर्वाः । परेण सह " अटश्च " [ ४|३|७८ ] इत्यैब् वचनात् “एप्यतोऽपदे” [४|३|८४] इति पररूपं न भवति ।
याडापः || ५|२| १०८ ॥ श्रान्तादुत्तरस्य ङितो यागमो भवति । विद्यायै । बहुजायै । विद्यायाः । “एच्यैष्" [४।३।७६ ] “स्वेको दी: ” [ ४३८८ ] इति दीत्वं वा । ड्याब ग्रहणेन दीत्वं न स्थानिवदिति । प्रतिखट्वाय । पुनर्दीत्वे लाक्षणिकत्वम् ।
सर्वनाम्नः स्याउ प्रश्च ॥ १२२१०६॥ आवन्तात् सर्वनाम्नः परस्य ङितः स्याडागमो भवति प्रश्च भवत्याः । सर्वस्यै । यस्यै । तस्यै । कस्यै । सर्वस्याः । यस्याः | तस्याः । एयैप स्वेको दीत्वे । आप इत्येव । भवत्यै । भवत्याः ।
डेराम् म्वाम्नीम्यः || ५|२| ११०|| "प्रे लिप्सायाम्" [२।३।४२ ] इति निर्देशात् देरिति ङिवचनस्य ग्रहणम् । डेरामादेशो भवति स्वन्तादावन्तान्नी इत्येतस्माच्च परस्य । कुमार्याम् । वामोर्वाम् । विद्यायाम् । बहुरा जायाम् । ग्रामण्याम । सेनान्याम् । “सत्सूद्विष" [२।२५६ ] इत्यादिना किप् । “अग्रग्रामाभ्यां नियो णत्वम्” [वा०] | "एर्गवाचादुङोऽसुधिय:" [४४७८ ] इति यत्वम् । अथ रामः नुटुकस्मान्न भवति । परत्वादडादिभिरागमैर्भवितव्यम् । कृतेष्वपि "सकृद्गते परनिर्णये बाधितो बाधित एव" [१०] । डयापोर्दीव्वभाजोः कार्यमुक्तम्" (ङयाप) " ग्रहणे दीवं न स्थानिवत्" इति च । तेन निष्कौशाम्यौ । श्रतिखट्वे निधेहि |
इदुद्भयाम् ||५|२|१११॥ इकारोकाराभ्यां मुसकाभ्यां परस्य राम् भवति । क्रुद्धयाम् । धेन्वान् । ननु पूर्व वामसिद्धोऽपार्थक्रमिदम् । " श्रदच्च सोः " [५/२/११२ ] इत्यौलं स्यात् तच्चाविशेषेण वक्ष्यति । मुग्रहणमिहानुवर्तते तेनेदुतौ विशेष्येते ।
दच्च सोः || ५|२|११२|| मुसञ्ज्ञकाभ्यामिदुद्भ्यां परस्य ङेरौकारादेशो भवति सोश्चाकारादेशः । सख्यौ । पत्यौ । सोः मुनौ । साधौ । प्रधानशिष्टमियामोत्वम् । श्रन्वाचयशिष्ट सोरत्वम् । यथा भिक्षां चर गां चानय । गोनयनम् । शास्त्रेऽपि " कतु' : क्यङ सखं विभाषा" [२1१18 ] इति श्रन्वाचयशिष्ट सुखम् । तपरकरणं मुख सुखार्थम् । श्रचे कृते स्त्रियां यो निवृत्यर्थमित्यप्यन्ये । टापि को दोष इति चेत्, श्रौकारस्य ङिग्रहणेन ग्रहणादामादेशयाडागमौ स्याताम् । तदसत् । प्रागेव सुबुत्पत्तेः स्त्रीत्येन भाव्यम् अन्यथा मातेत्यत्र नान्तलक्षणो सीविधिः स्यात् ।
याङो नाऽस्त्रियाम् ||५|२| ११३ || सोरिति वर्तमानमर्थात् काविभक्त्यन्तं सम्पद्यते । सोरुत्तरस्याङ: ना इत्यादेशो भवत्यस्त्रियाम् । मुनिना । साधुना । सोरित्येव । सख्या । पत्या | स्त्रियामिति किम् ? बुद्धया । धन्वा । आङो ना पुंसीति कर्तव्यम् । त्रपुणा । जाननेत्यादि । "सुपीकोऽचि" [ ५१११५२] इति नुमैव सिद्धम् । नपुंसके यमुना कुलेनेति न सिद्ध्येत् । मुभावस्यासिद्धत्वान्नुम्न स्यात् । अस्त्रियामित्युच्यमाने नपुंसकेऽपि नाभावो भवति । ततश्च " न मु टाविधौ” [५।३।२६] इति नाभावे मुभावस्य नासिद्धत्वम् ।
सूत्रेऽस्मिन् सुब्विधिरिष्टः || ५ |२| ११४ || सूत्रेऽस्मिन् जैनेन्द्रेषु यो विधि: सुपि च विधिरिष्टो भवति । सूत्रावयवेषु सूत्रशब्दो द्रष्टव्यः । उदाहरणम् - "श्रीगोनच : " [1111८] स्त्रीगूनामिति प्राप्तं सुविधिरयम् । “मिङ कार्थे वाः” [१|४|५४ ] | हल्ङयादिना सुखं प्राप्तम् । सुपो विधिरयम् । अथ विति हलन्तात् कथं टापू । यमपि सुपो विधिरिष्टः । या कपः पकारेण सुपो ग्रहणात् ।
गौ कच्युङः प्रोऽशास्वक्ख्यदितः || ५|२|११५ ॥ णौ परतः कच्परे गोरुङ : भवति शामु अक्ख ऋदित् इत्येतान् वर्जयित्वा । ऋचीकरत् । श्रजीहरत् । अत्र “शिश्रिस्रु” [ २|१|४३ ] इत्यादिना कचि कृते द्विर्वचनोप्रादेशयोः प्राप्तयोः परत्वादुङ: प्रादेशः । तत्र कृते "श्रोः पुयण्ज्ये" [५/२/१७८ ] इति
For Private And Personal Use Only