________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम् [अ० ५ पा० २ सू० ६७-१०६ सुपि ॥५॥२६७॥ अकारान्तस्य गोः यत्रादौ सुपि दीर्भवति । देवाय । देवाभ्याम् । यजीत्येव | देवस्य । सुपीति सु इत्यतः प्रभृति पा सुपः पकारेण ।।
बहौ भल्येत् ॥५॥रा८॥ झलादौ बहौ सुपि परतः अकारान्तस्य गोरेकारादेशो भवति । देवेभ्यः । देवेषु । बहाविति किम् ? देवाभ्याम् ! झलीति किम् ? देवानाम् । “नामि" [४॥४॥३] इति दीत्वम् अग्नीनाम् , वायूनामित्यत्र सावकाशम् , इहासति झल्ग्रहणे परत्वादेत्वं स्यात् । यत्रीत्यस्य निवृत्यर्थ च झल्ग्रहणम् । अन्यथा देवेष्विति न स्यात् । अत इत्येव । अग्निभ्यः । तपरकरणं किम् ? खट्वाभ्यः । सुपीत्येव । पचध्वम् ।।
श्रोसि ॥५२॥६६॥ श्रोसि च परतः अकारान्तत्य गोरेकारादेशो भवति । देवयोः स्वम् । देवयोर्विधेहि ।
आङिचापः ॥२१००॥ आङिओसि च परतः श्रावन्तस्य गोरेकारादेशो भवति । आमिति टापडापोहणम् । विद्यया। विद्ययोः। बहुराजया । बहुराजयोः। "अनश्च बात्" [३४११०]। "वोड़ खे" [३११११] इति डा। आङिति टारूपस्य ग्रहणं पूर्षाचार्यसज्ञानिदेशेन । अाप इति पिदग्रहणं किम् ? कीलालपा नरेण । कीलालपोः । विच्यामतनिवृत्ते “भातो धोः" [४।४।१२७] इति खम् । अथातिखट्वेनेत्यत्र "स्त्रीगोर्नीचः" [१1१1८] इति प्रादेशे कृते स्थानिवद्भावादेत्वं कस्मान्न भवति ? उच्यते "हल्ङयाप" [४॥३॥५६] दृति सत्रे हल्डयापोद्य इति योगविभागस्तस्याओं ड्यापोर्यत्कार्य तद्दीत्वभाजोरेव । नन दीत्वमपि स्थानिवद्भावाद्भविष्यति । "ब्यापोर्दीत्वं न स्थानिवत्" [वा०] इति प्रतिषेधः ।
कौ ॥५॥२॥१०॥ कौ च परतः श्राप एत्वं भवति । हे कन्ये । हे बहुराजे । “केरेङः" [१३१५७] इति सोः खम् ।
प्रोऽम्बार्थम्वोः २१०२॥ अम्बार्थवाचकानां मुसञ्ज्ञस्य च प्रो भवति की परतः। अम्बार्थाः मातृशब्दपर्यायाः । हे अम्ब । हे अक्क । हे अल्ल । हे अत्त । मुसज्ञकस्य । हे गोरि । हे वामोरू । “यङो वा" [५१२] इत्यतः मण्डकप्लुल्या बहुलार्थो वाशब्दोऽत्र वर्तते । तेन बह्वचोऽम्बार्थस्य प्रो न भवति । हे अम्बाले। हे अम्बिके । हे अम्बाडे | “तलन्तस्य डिक्योरुभयम्” [वा०]। देवते भक्तिः। देवतायां भी हे देवत । हे देवते । छान्दसमेतदिति केचित् । “बसे कौ मातुरदन्तत्वं पुत्रश्लाघायाम्" [वा०]। गार्गी माता अस्येति श्लाघते। हे गार्गीमात | श्लाघाया अन्यत्र । हे गार्गीमातृक । “जातिश्च" [४।३।१५३] इति न पुंवद्भावः ।
प्रस्यैप् ॥२२१०३॥ प्रान्तस्य गोरैब् भवति कौ परतः । हे मुने। हे साधो । “अन्तेऽलः" [११४६] इति न्यायादनन्त्यस्य न भवति । हे युव (बुध)। हे नदि । हे वधु । इत्यत्र प्रादेशवचनसामर्थ्या देब् न भवति ।
जसि ॥५।२।१०४|| जसि परतः प्रान्तस्य सोरेन् भवति । मुनयः । साधवः । “अन्तेऽलः" [१।११४६] इति परिभाषया अनन्तस्येको न भवति बुधा इति ।
धे ॥१२१०५॥ ऋकारान्तस्य गोः ङौ धसज्ञके च परतः एव भवति । मातरि । पितरि । कर्तरि । धे। मातरौ। मातरः। मातरम् । मातरौ । पितरः। तपरकरणमसन्देहाथम् । कृरिति ऋकारान्तः सम्भवति तन्निवृत्त्यर्थम् ।
सोर्डिति ॥२।१०६॥ स्वन्तस्य गोर्डिति एब् भवति । मुनये । साधये । मुनेः । साधोः। सोरिति किम् ? सख्ये । पत्ये । असखीति पर्युदासात् “पतिः से" [१।२६] इति नियमाच्च सुसज्ञा नास्ति । ङितीति किम ? मुनिभ्याम् । सुपीत्येव । पटवी । कुरुतः । डोतसोडिंतोरपि मा भूत। कारश्चासाविच्च ङित् तस्मिन् कित्यव्यवहितस्य कार्यम् । तेन वृद्ध्यै धेन्वै । इत्येप (न) व्यवधाने। आङि औङि च न भवति। मत्या । मती । इति ।
For Private And Personal Use Only