________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
०५ प० २ सू० ८६-६६ ]
महावृत्तिसहितम्
३७३
हल्येषु ||५|२|८६॥ उर्णोतेर्हलि पिति गे एक्भवति । प्रौर्गाः । प्रौर्णात् । पुनर्हल्ग्रहणं केवलार्थम् । हलादौ मा भूत् । वेति नाधिकृतम् ।
तृणह इम् ||५|२२६०॥ तृणह इत्येतस्य गोरिमागमो भवति हलादौ पिति गे परतः तुहिरागतश्नको गृह्यते । श्नमि कृते इमागमो यथा स्यादिति । तृणेक्षि | तृणेढि | हलीत्येव । तुहानि । पितीत्येव । तृण्ढः । अतृडित्यत्र तिस्यो: “हल्ड्यापः " [४|३|५६] इत्यादिना से कृते हलायभावादिम्न प्राप्नोति । "त्यखे त्यायम्" [ ११११६३] अपि न सम्भवति । वर्णाश्रये नास्ति त्याश्रयमिति । यथा गये हितम् गोहितमित्यत्र अचीति वर्णाश्रये नास्त्यवादेशस्त्याश्रयः । नेदं वर्णाश्रयं कार्यम् । किं तर्हि मिङाश्रयम् । मेङि हलादौ परतः । तस्य च त्यले त्याश्रयमित्यवस्थानादिम् ।
ईट ||५२२२६१ ॥ ब्रुव ईडागमो भवति हलि पिति गे । ब्रुव इति कानिर्देशात्परादिरी | ब्रवीति । ब्रवीतु | अब्रवीदित्यत्र व्यपदेशिकद्भावेन हलादित्वम् । हलीत्येव । वारिण । पितीत्येव । ब्रतः । ग इत्येव । उवचिथ । इटं बाधित्वा परत्वादीट् स्यात् । श्रात्थ इत्यत्र स्थानिवद्भावात्प्राप्नोति "ब्रुव ग्राहश्च " [२|४|७०] इति ग्राहादेशः । सिपश्च थादेशः । " श्राहस्थः " [ ५|३|५२ ] इति हस्य थत्वम् । चर्व्वम् । नायं दोषः । अलि विधिरयम् । “अनल्विधौ” [ १।१।५६ ] इति प्रतिषेधः ।
यो वा || ५|२||२|| यङन्ताद्वा ईड् भवति हलि पिति गे । अत्रापि यङ इति कानिर्देशात् परस्य तया योगः । लालपीति । वावदीति । शाश्वसीति । चोक्रुशीति । “थस्य गे पित्यचि " [५|२८५ ] इत्युङ: एप्प्रतिषेधः । पक्षे लालति । वावत्ति । शाश्वत्ति । चोक्रोष्टि । यङन्तात्परस्य हलादेः पितो गस्याभावाद्वचनाद्यङअन्तस्य ग्रहणम् । इदमेव ज्ञापकं " यङोऽचि” [१|४|१४४ ] इत्यत्राविशेषेण यङ उबू भवति । “चर्करीतम्" इत्यादिषु पठितम् । तस्यादादिकार्यम् । “मम्” [१/२/७५ ] इति मविधिः । " चकंरीतम्" इति यङ बन्तस्य
सञ्ज्ञा ।
हल्यस्सेः ॥५|२|६३|| हलि परत: अस्तेः स्यन्ताच्च ईड्भवति । श्रस्तिग्रहणं लङर्थम् । आसीत् । । स्यन्तात् । अकार्षीः । लावीत् । अलावीः । पुनर्हल्ग्रहणं केवलार्थम् । इह मा भूत् । अस्ति | वेति नाधिकृतम् । नन्वभूदित्यत्र स्तेः स्थानिवद्भावात्प्राप्नोति । ग्रस्सेरिति त्रिसकारको निर्देशः । तेन स्तः सकारान्तादीट् ।
रुद्भ्योऽड्वाऽजज्ञेः ॥५|२| ६४|| रुदादिभ्यो जक्षिपर्यन्तेभ्यः श्रड्वागमो भवति ईट्च हलि पिति गे । आजदेरित्याङभिविधौ द्रष्टव्यः । केवलहल ग्रहणमनुवर्तते । श्ररोदत् । श्ररोदीत् । अस्वपत् । श्रस्वपीत् । श्रश्वसत् । अश्वसीत् । प्राणत् । प्राणीत् । श्रजक्षत् । श्रजक्षीत् । सर्वत्र लङ् । “गोऽनितेः " [ ५|४|१०४ ] इति रणत्वम् । आजदेरिति किम् ? अजागर्भवान् । एपि रन्तत्वे च कृते “ हल्ङया" [ ४/३/५६ ] आदिना खम् । “रुदादेर्गे” [५।१।१३५] इतीटि प्राप्त तदपवादोऽयम् ।
'दोऽय् ॥२६५॥ अदः अड् भवति हलि पिति गे । आदः । आदत् । केवलहलीति किम् ? श्रर्ति । पुनरग्रहणमीनिवृत्त्यर्थम् ।
यतो दीः || २६६ ॥ यत्रादौ मिङि अकारान्तस्य गोर्दीर्भवति । " सूभवत्योर्मिडिः " [ ५|२|८६ ] इत्यनुवर्तते । पचामि । पचावः । पक्ष्यामि । पक्ष्यावः । पक्ष्यामः । मिङीति किम् ? धनवान् । केशवः । केशा ग्रस्य सन्ति “केशाद्वो वा " [४।३।३५] इति वः । यञीति किम् ? पचति । श्रत इति किम् ? चिनुवः । चिनुमः । तपरकरणं किम् ? क्रीणीवः इत्यत्र माभूत् । नन्वीत्वेनात्र भवितव्यम् । नैवम् । क्रीणीथः । क्रोणीतः इत्यत्र सावकाशमीत्वं दीत्वेन बाध्येत । यत्रीतीनिर्देशादव्यवहितस्य गोरन्तस्य दीव्वम् ।
For Private And Personal Use Only