SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७२ जैनेन्द्र-व्याकरणम् [ श्र० ५ पा० २ सू० ८३-८ तीति ततश्च जागरुरित्यत्र " जुसि " [ ५२८० ] इत्यस्य श्रहं जजागर । णित्पक्षे "गागयोः " [ ५८१] इत्यस्य च प्रतिषेधः स्यात् । अथवा जागुरित्यनेनानन्तराप्राप्तिः प्रतिषिध्यते न " जुसि" [ ५२८०] इत्यादि प्रातिः । अथ नञर्थः पर्युदासो नोपपद्यते अभावमात्रस्य वृत्यर्थत्वात् । न चोत्तरपदार्थाभावेन विधेर्निमित्तत्वमाश्रयितुं शक्यम् । तदयुक्तम्, यद्यभाव एव वृत्त्या गम्यते कथमब्राह्मणादिवाक्ये क्षत्रियादेरानयनम् । अथापि स्यात् । कथमुत्तरपदं सादृश्येन विपरीते वर्तते । वृत्तौ वा वर्त्तिपदार्थव्यतिरेकेणान्यपदार्थसम्प्रत्ययादुपसर्जनीभूतस्वार्थ सत्यवमन्त इत्यत्र "श्रीगोनीचः " [१/१८ ] इति प्रादेशः प्राप्नोति । श्रनेकमित्यत्र च द्विबहू स्यातामित्येव्यसारम् । यथोत्तरपदं स्वार्थे वर्तते । स्वभावतः तथानवृत्तौ परार्थि न वर्त्तिपदार्थकत्वे वर्तिष्यते । यथा च स्वार्थं वर्तमानं नोपसर्जनमेवं परार्थेऽपि सादृश्येन स्वार्थ एवेति कथमुपसर्जनत्वात् प्रादेशप्रातिः । श्रनेकमित्यत्र च एकशब्दः प्रधानभूत उपात्तस्वलिङ्गसंख्य एव परार्थे वर्तते इति द्वित्वबहुत्वयोरभावः । एवं तर्हि प्रसज्यप्रतिपेधो नञर्थो न युक्तो वृत्त्यभावप्रसङ्गात् । तथाहि क्रियामपेक्षमाणस्य नञः उत्तरपदेन सामर्थ्याभावाद्वृत्तिर्न प्राप्नोति । नैष दोषः, बचनाद् भविष्यति । देवदत्तस्य गौनास्तीत्यनभिधानान्न भवति । ततो द्वावपि नञर्थी युक्तौ । यदोत्तरपदं स्वार्थविपरीते वस्तुनि वर्तते तदा निवृत्त पदार्थकत्वं द्योतयन्न वृत्तिं लभते । यदा तूत्तरपदं स्वार्थ एव वर्तते तदा नञ् क्रियाप्रतिषेधद्वारेण सामर्थ्यमनुभवन् वृत्तिमाप्नोति । युङः ||२३|| सञ्ज्ञस्योङः एव भवति गागयोः । द्योतते । वर्षति । छेदनम् । भेदनम् । ननु च भेत्ता छेत्ता इत्यत्र त्यादेगोरवयवस्य च हलोरानन्तर्ये “ स्फेरु : ” [ |२| १०० ] इति दसञ्ज्ञया चिसा बाधिता कथमे । उच्यते " त्रसिगृधिष्टषिक्षिपः मनुः " [२।२।११६] इति " हलन्तात् [ ११८४ ] इति च नुनोः किरणं ज्ञापकम् | त्यादेर्गोत्तस्य च हलोरानन्तर्ये " ध्युङ" एत्र न व्यावर्तते । घि चासावुङ् च बुङिति यसः किम् ? भिनत्तीत्यत्र मा भूत् । इको ध्युङ एब्भवतीति सम्बन्धात् प्रसज्येत । नेटः ||२४|| इट एव न भवति । करिणम् । अरणियम् । कणिता । रणिता । श्रमं डादेशे टिखं चाश्रित्य पूर्वस्य गुसञ्ज्ञायां "ध्युङ : " [५२८३] इति एम्प्राप्तः । थस्य गे पित्यचि ॥ २२८॥ थसञ्जस्य गोर्यो युङ् तस्याजादी गे पित्ये न भवति । नेनिजानि । निजम् । विचानि । अवेविचम् । वेविषाणि । अवेविषम् । लोटि लङि च चस्य " निजामुच्येपू" [५।२।१७४] | एवं बोबुधीति । बोभुजीति । बेभिदीति । भस्येति किम् ? वेदानि । ग इति किम् ? निनेज । अनीति किम् ? नेनेक्ति । विग्रहणमुत्तरार्थम् । अपिति गे ङ्कितीति प्रतिषेधः सिद्धः । ध्युङ इत्येव । जुहवानि । सूभवत्योर्मिङि ॥|५|२२८६ ॥ सू भवति इत्येतयोर्मिंङि पिति गे एच् न भवति । सुवै । सुवावहै। सुवामहै । अभूवम् । अभूत् । सूग्रहणेन सूतिर्गृह्यते । सूयतिसुवत्योर्विकरणेन व्यवधानम् । विकरणस्य ङित्त्वादेव प्रतिषेधः सिद्धः । मिङीति किम् ? भवति । शत्रयम् । भवतैस्तिपा निर्देशो यङबन्तनिवृत्यर्थः । बोभवीति । सूत्रोपलक्षणं चेदं तिपा निर्देशेनं सूतेरपि यङन्तस्य निवृत्तिः । सोपवीति । हल्यैबुप्युतः ||५|२|८७||हलादौ पिति गे परतः उपि सति उकारान्तस्य गोरे भवति । एपोऽपवादोऽयम् | यौमि । यौषि । यौति । रौमि । रोषि । रौति । इदमेव ज्ञापकम् - पूर्वे विकरणः पश्चाद् गुकार्यम् । अन्यथा पूर्वमपि सति उकारान्तता न भवेत् । तरतः । तरन्तीत्यत्र ऋत इत्वं च स्यात् । अथवा नित्यः शप् । हीति किम् ? यवानि । उपीति किम् ? जुहोमि । सुनोमि । उत इति किम् ? एमि । एपि । एति । तपरकरणं किम् ? लोलोति । पितीत्येव । युतः । स्तः । हलि पितीनिर्देशादव्यवहितग्रहणम् । इह मा भूत् । अपि स्याद्राजानम् । थस्य नेत्येतदिहानुवर्त्यमिति केचित् । योयोति । रोरोतीत्यादिसिद्धये । वोऽणः ॥ २८८ ॥ उपतेर्वा एब्भवति हलादौ पिति गे । प्रोर्णोमि । प्रोणमि । प्रोणौषि । प्रोणोषि । प्रोति। प्रोर्णोति । हलीत्येव । प्रोर्णवानि । पितीत्येव । प्रोतिः । पूर्वेण प्राप्ते विकल्पः । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy