________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ५ पा० २ सू० ७७-८२]
महावृत्तिसहितम्
३७१
पिचन्ति । अत्र “युङ : " [ ५/२/८३] इति एप्प्राप्नोति । अकारान्तोऽयमादेशो अथवा गुकायें निवृत्ते पुनर्न तन्निमित्तमिति न भवति । प्रा-जिघ्रति । ध्मा-धमति । स्था- तिष्ठति । म्ना मनति । दाणू | प्रयच्छति । द्रष्टि इति दृशेस्तिपि “शपोऽदादिभ्यः " [ १।४।१४३ ] इत्यत्र शप इति योगविभागाच्छप उपि कृते " कल्यकिसि सृजिदृशोऽम्” [४/३/५१] इत्यमा निर्देशः । एवमर्तिसत्योंरपि ज्ञेयम् । पश्यति । पश्यतः । पश्यन्ति । अति-ऋच्छति । अनुब्विकरणस्य ग्रहणम् । सर्ति । धावति । सर्तेर्व्याख्यानात् शैत्र्ये धावादेशो नान्यत्र । संसरति । प्रसरतीत्यादि । शद् - शीयते । शीयेते । “सदेर्गात्” [११२/५५ ] इति: । सद् | सीदति । द्रष्ट्यादीनां तिपा निर्देशो यङ्चन्तनिवृत्त्यर्थः । शतरि शिति प्राप्तिः । दर्दर्शत् । अरियत् । सत् । श्रश्व रिक् । इतरय रुक् ।
शाजनोर्जा || ५|२|७७ ॥ ज्ञा जन इत्येतयोः जा इत्ययमादेशो भवति शिति । जानाति । जायते । जा इति दोच्चारणं किम् ? " यब्यतो दी: " [५/२/१६] इत्यत्र मिङीत्यनुवर्तनाद् दीत्वं न स्यात् ।
प्वादेः प्रः || २२|७८ ॥ पू इत्येवमादीनां प्रादेशो भवति शिति परतः । पुनाति । लुनाति । वाइयो लीवृदिति यावत् । ल्वादीनां समाप्त्यर्थं वृत्करणमेतदिति केचित् । आगणान्ताः प्वादयः । तदयुक्तम् । उभयगणपरिसमान्त्यर्थता वृत्करणस्य न विरुद्धयते । किञ्चागणान्तपक्षे श्रीणाति, श्रीणाति जानातीत्यत्र प्रः स्यात् ।
मिरे || ५|२|७६ || मिदेर्गो रेन्भवति शिति । मेव्यति । मेद्यतः । मेयन्ति । मिदेव इ तस्यायमे । मिदेरिति किम् ? क्लियति । शितीत्येव । मियते ।
जुसि ॥ २८० ॥ जुसि परतः इगन्तस्य गोरेप् भवति । कामचारेण विशेषणम् । इका सन्निहितेन गुर्विशेष्यते । तेन तदन्तविधिः । अजुहवुः । अविभयुः । श्रविभरुः । लङो भिः। शप उप् । “थवित्सेः” [२४] इति जुस् । भृजश्श्रत्येत्वम् । इगन्तस्येति विशेषणं किम् ? अनेनिजुः । जुसीति कारग्रहणं किम् ? लुलुवुः । अथ चिनुयु: सुनुयुरित्यत्र उसीति पररूपे कृते " तदागमास्तद्ग्रहणेन गृह्यन्ते” [ ५० ] इति श्नोः कस्मान्न भवति । अत्र द्वे ङित्वे गाश्रयं यासुडाश्रयं च । तत्र नाप्राप्ते गाश्रये ङित्त्व निमित्ते प्रतिषेधे एन्त्रिहितस्तमेव बाधते । यामुडाश्रये ङित्वनिमित्ते तु प्रतिषेधे प्राप्ते चाप्राप्ते च । तस्तं न बाधते ।
गागयोः || ५|२२८१ ॥ गे चागे च परतः इगन्तस्य गोरेब्भवति । तरति । नयति । करोति । अगे कर्त्ता । भविता । चेता । स्तोता । गागयोरिति किम् ? अग्नित्वम् । अथ सङीति कर्तव्यम् । सनः सकारादारभ्य श्रा ग्राङो ङकारात्प्रत्याहारः । यदि सङीत्युच्येत अग्निकाम्यतीत्यत्रापि स्यात् । अथ यङीत्युच्येत । शिशयिषत इत्यत्र न स्यात् ।
66
जागुरविञल्ङिति ॥ २८२॥ जाग इत्येतस्य गोरेव भवति श्रविजिगल्ति परतः । जागरयति । जागरकः । साधु जागरी । नागरं जागरम् । जागरो वर्तते । किति- जागरितः । जागरितवान् । ऐच्चिपये प्रतिषेधविषये च प्रापणार्थो जागुरेब्विहितोऽन्यत्र पूर्वेणैव सिद्धः । नायमे सावैपमन्तरङ्गं बाधते । तेन "ह्म्यम्यक्ष णश्वस्” [ ५1१1८१] इत्यादिना जागुरैष्प्रतिषेधः । जागरयतीत्यादौ " उङोऽतः " [ ५/२/४ ] इति पुनरैप् कस्मान्न भवति ? यदि स्याद्वचनमनर्थकं भवेत् । जागरित इत्यत्र सार्थकमिति चेत्; एवं तर्हि ञिणलोः प्रतिपेधोऽनर्थकः स्यात् । कृते एपि " उङोऽतः " [५२।४] ऐपा सिद्धवात् । अविभिखङितीति किम् ? जागृविः । "जशस्त जागृभ्यो कित " [ उ० सू०] इति विः । जागरि । जजागार । ङिति - जागृतः । जागृथः । अविञिणलिङतीति पर्युदासोऽयम् । विञिलिङद्भ्योऽन्यत्रायमेबू विधीयते तेन विञिणङिति प्रतिषिध्यते । यदि लक्षणान्तरमस्ति भवत्येव । जागरः । श्रहं जजागार । प्रसज्यप्रतिषेधे हि दोषः । विजिल्ङिति न भव
For Private And Personal Use Only