SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७० जैनेन्द्र-व्याकरणम् [अ० ५ पा० २ सू० ६६-७६ भोज्या यवागूरिति ? भक्षिरभ्यवहार्येऽपि वर्तते न खरविशद एव । अभक्षः । वायुभक्षः इति । अभ्यवहरणादन्यत्र न भवति । भोग्या अग्रिपाः पालनीयाः इत्यर्थः। भोग्यः कम्बलः । इष्टार्थसङ्ग्रहो निपातनात् । न्युज इति कथं सिध्यति ? न्युब्जिताः शेरतेऽस्मिन्निति न्युजो रोगः । “घजर्थ कविधानम्" [वा.] इति एयन्तस्य वाऽचि रूपम् । क्सस्याचि खम् ॥श।६६॥ क्सस्याजादौ परतः खं भवति । “अन्तेऽलः" [११॥४१] इत्यन्तस्य । अयुक्षि । अधुनाताम् । अधिक्षि। अधिक्षाताम् । दुहिदिही स्वरितेती। "इगुरुः शलोऽनिटोऽदृशः क्सः” [२११४०]। अचि किम् ? अधुक्षत् । अधिक्षत् । अधुक्षन्तेत्यत्र सस्य खे कृते “देऽनतः" [५/१५] इत्यन्तादेशस्य स्थानिवद्भावन झस्यादादेशः प्राप्नोति । "परेऽचः पूर्वविधौ" [१1१५७] इत्यकारस्य स्थानिवद्भावान्न भवति । पूर्वस्मादपि विधिः पूर्वविधिरित्युक्तम् । क्सस्य कितो ग्रहणं किम् ? इह मा भूत् । वत्सौ । वत्साः “वृतवदिहनिकमिकषिमुचिमाभ्यः सः" [ उ० सू० ] । बोब्दुहदिहलिहगुहो दे दन्त्ये ॥५॥७०॥ दुह दिह लिह गुह इत्येतेभ्यः क्सस्य वा उव् भवति दे दन्यादौ परतः । अदुग्ध । अदुग्धाः। अधुक्षत । अधुक्षथाः। अधुग्ध्वम् । अधुक्षवम् । अदुद्वहि ! अधुनावहि । दिद। अदिग्ध । अधिक्षत । अलोट । अलिक्षत । न्यगूढ । न्यधुक्षत । दुहादिभ्य इति किम् ? व्यत्यरूक्षत | द इति किम् ? अक्षत् । दन्त्य इति किम् ? अधुक्षामहि । स्वमिति बर्तमाने उग्रहणं सर्वापहारार्थम् । श्रोतः श्ये ॥२७१॥ श्रोकारान्तस्य गोः श्ये परतः खं भवति । निश्यति । अपछयति । अयद्यति । अवस्यति । बोब्ग्रहणमत्वरितत्वान्नाधिकृतम् । श्य इति शित्करणं किम् ? गव्यम् । शमित्यामदो दीः ॥ ७२॥ शमादीनामामदो दीर्भवति श्ये परतः। शाम्यति । ताम्यति । दाम्यति । श्रान्यति । भ्राम्यति । क्षाम्यति । क्लाम्यति । माद्यति । “अचश्च" [1111१२] इत्यचः स्थाने दीः । श्राम इति किम् ? अस्यति । श्य इत्येव । भ्रमति । "वा भ्राशभ्लाश" [२।१।६६] इत्यादिना वा शम् । ष्ठित्रुक्लम्बाचमां शिति ॥७३॥ ष्टिषु क्लमु अाचम इत्येतेषां दीर्भवति शिति परतः । ष्ठीवति । ष्टीवेत् । क्लामति । क्लामेत् । आचामति । आचामेत् । क्लमः शितीति दीत्ववचनं शवथम् । चमेराङपूर्वस्यैव । केवलस्यान्यपूर्वस्य च मा भूत् । चमति । विचमति । क्रमो मे ॥२७॥ क्रमो मपरे शिति दीभवति । क्रामति । क्रामेत् । म इति किम ? अाक्रमते आदित्यः । "ज्योतिरुद्गतावाङः" [१॥२॥३६] इति दः । शितीत्येव । क्रमिष्यति । ननु सर्वत्र गृह्यमाणेन शमादिना अविशेष्यते । तेनाटोऽपि दीत्वं स्यात् । अशाम्यत् । “अन्त्याभावेऽन्त्यसदेशस्य कार्यम्" [१०] इत्यदोषः । इह सङ्क्रामेति हेरुपि कृते "नोमता गोः" [११११६४] इति त्याश्रयकार्यप्रतिषेधाद् दीत्वं न प्राप्नोति । न दोषोऽयम् । उमता वचनेन नष्टे यो गुस्तस्य कार्य स प्रतिषेधः। तत्रायं क्रमिः हिवचने गुः । किं तर्हि शिति । गमिषुयमां छः ॥१७॥ गम् इषु यम् इत्येतेषां छो भवति शिति परतः । गच्छति । इच्छति । यच्छति। म इति नाधिकृतम् । संगच्छते। इप्रेरु दितः शब्धिकरणस्य ग्रहणम् । “इप गती' [ धा० ] इत्यस्य इश्यति । “इप भाभीचण्ये" [ धा० ] इष्णातीति ।। पाघ्राध्मास्थाम्नादाणद्रष्टयर्तिसतिशदसदां पिबजिनधमतिष्ठमनयच्छपश्यर्छधौशीयसीदाः ॥५॥७६॥ पा घ्रा ध्मा स्था म्ना दाण् द्रष्टि अर्ति सर्ति शद सद इत्येतेषां पिब जिघ्र धम तिष्ठ मन यच्छ पश्य ऋच्छ धौ शीय सीद इत्येते यादेशा शिति यथासङ्ग.यं भवन्ति । पा-पिबति । पित्रतः। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy