________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१० ५ पा० २ सू० ६१-६८ ] महावृत्तिसहितम्
३६६ हेरकचि ॥शश६१॥ हिनोतेह कारस्य चात्परस्य अकचि कुत्वं भवति । प्रजिघाय । प्रजेघीयते । प्रजिघीषति । अकचीति किम् ? प्राजीहयत् । हेय॑न्ताल्लुङि “णिश्रिद्श्रु" [२।१।४३] इत्यादिना कच् । गिखम् "णौ कच्युङः" [५.२१११५] इति प्रादेशः । गौ कृतं स्थानिवद्भवतीति कचि हिशब्दस्य द्वित्वम् । ननु हेः स्वनिमित्ते त्ये चादुत्तरस्य कुत्वमुक्तम् । ण्यन्तं च प्रकृत्यन्तर कथं कचि प्राप्तिः। अयमेव प्रतिषेधो शापको एयधिकस्यापि भवति । प्रहाययितुमिच्छति प्रजिघाययिषति ।
सन्लिटोर्जः॥५॥२॥ सनि लिटि च यश्चस्तस्मात्परस्य जेः कुत्वं भवति । जिगीषति। जिगाय । संल्लिटोरिति किम् ? जेजीयते । जिनातेर्लिटि जित्वे कृते "हलः" [१४] इति दीत्वे कृते एकदेशपरिभाषया जिग्रहणेन ग्रहण नेप्यते लाक्षणिकत्वात् । “एर्गिवाक्चादुकोऽसुधियः [४७८] इति यत्वम् । जिज्यतुः। जिज्युः।
या चेः॥शश६३॥ चिनोतेः सँल्लिटोः परतः चात्परस्य वा कुत्वं भवति । धर्म चिकीपति । धर्म चिचीषति | चिकाय । चिचाय । संल्लिटोरित्येव । चेचीयते । अप्राप्त विकल्पोऽयम् ।
न वञ्चेर्गतौ ॥५६४॥ वञ्चेर्गत्यर्थस्य कुत्वं न भवति । वयं वञ्चति वाणिजाः। गतौ किम् ? बङ्कय काष्ठम् । “यस्य वा" [५।१।१२१] इति "तेऽनिटः" [५।२।५६] कुत्वं प्राप्तम् । ननु गतावेव वञ्चिः पठ्यते । सत्यम् । अनेकार्था धव इत्यन्यत्र मा भूत् ।
राय आवश्यके ॥५॥२॥६५॥ आवश्यकेऽथें प्ये परतः कुत्वं न भवति । अवश्यपाच्यम् । अवश्यसेच्यम् । “आवश्यकाधमण्यंयोणिन्" [२।३।१४६] इत्यधिकृत्य "व्याः" [२।३।१४७] इति एयः । मयूख्यसकादित्वात्सविधिः। "व्यान्ते ह्यवश्यमो नाशः" इति मखम् । ग्रावश्यक इति किम् ? पाक्यम। सेक्यम् ।
यजित्यजिप्रवचाम ॥शश६६॥ यजि त्यजि प्रवच इत्येतेषां गये परतः कत्वं न भवति । याज्यम् । त्याज्यम् । प्रवाच्यम् । अनावश्यकार्थमिदम् । प्रवचिग्रहणं शब्दखावपि प्रतिषेधार्थम् । प्रवाच्यो नाम पाठविशेषः । अन्ये तु पुनराहुः-प्रपूर्वस्यैव वचेः अशब्दखे कुत्वप्रतिषेधो यथा स्यात् । अत्यगिपूर्वस्य मा भूत् । अधिवाक्यम् ।
वचोऽशब्दखौ ॥५॥२।६७॥ वचोऽशब्दखौ ण्ये परतः कुत्वं न भवति। वाच्यमाह । अशब्दखाविति किम् ? अवधुपितं वाक्यमाह । शब्दस्यैव सज्ञावाक्यमिति । तदुक्तम्-ग्राख्यातं सविशेषणमित्यादि वाक्यम् ।
भुजप्रयाजानुयाजोकप्रयोज्यनियोज्यभोज्यानि ॥शश६८॥ भुज प्रयाज अनुयाज श्रोक प्रयोज्य नियोज्य भोज्य इत्येतानि शब्दरूपाणि निपात्यन्ते । भुज इति पाणौ। भुज्यतेऽनेनेति भुजः । "हलः" [२।३।१०२] इति करणे पत्र । एकुत्वयोरभावो निपात्यते । भोगोऽन्यः । अथ “भुजो कौटिल्ये" [धा०] इत्यत्य इगुलक्षणे के रूपम् । न तस्याभ्यवहारार्था प्रतीतिः । रूढिशब्देऽप्यनुगमोऽस्ति । यथा गच्छनीति गौः । प्रया जानुयाजी यज्ञाङ्गे । “अकर्तरि" [२।३।१८] इति घन । प्रयागः । अनुयागः । इत्येवान्यत्र । योक इति भवति । उचः के उच्यतीत्योकः । इगुङलक्षणः कः । न्युच्यल्यस्मिन्निति न्योकः । "घअर्थे कविधानम्" [ वा० ] इति कः । एप् कुत्वं च निपात्यते । उचिस्ते सेट् तदर्थम् । के उच इत्यस्य रूपस्य निवृत्त्यर्थ वेदम् । दिवौकस इत्यादिषु “उणादयो बलम्" [२१२११६७] इति कुत्वम् । प्रयोज्यनि योज्यौ शक्याथें । प्रयोक्तुं शक्यः प्रयोज्यः । नियोक्तुं शक्यो नियोज्यः । “शकि लिङ च" [२।३।१४८] इति एयः। कुत्वाभावोऽनेन । प्रयोग्यो नियोग्य इत्येवान्यत्र । भोज्यमिति भुज पालनाभ्यवहारयोरित्यस्य भदयेऽभिधेये। भोज्य ग्रोदनः । भोज्या अपूपाः। ननु भक्षिरयं खरविशदे वर्तते न तु द्रवद्रव्ये तत्कथं
For Private And Personal Use Only