SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६८ जैनेन्द्र-व्याकरणम् [अ० ५ पा० २ सू० ५५-६० इसुसुक्तः कः ॥२२॥५५॥ इस् उस् उक् इत्येवमन्तात्तकारान्ताच्च गोः परस्य ठस्य क इत्ययमादेशो भवति । सर्पिः पण्यमस्य सार्पिकः । वाहिष्कः “कुप्वोस्स्ये" [५॥२६] इति रेफस्य सः । "इणः षः” [५।४।२७] इति पत्वम् । धनुः प्रहरणमस्य यजुः पण्यमस्य "प्राग्याहण" [३।३।१२६] धानुष्कः । याजुष्कः । उक्-निषाहको जातः नैषाहक'कः । शावरजम्बुकः । "श्रोर्देशे ठम्' [३।२।६६] । “केऽणः" [५।२।१२५] इति प्रादेशः । मातुरागतं मातृकम् । “ऋतष्टा" [३।१५२] । तान्तात्उदश्वित् पण्यमस्य श्रौदश्वित्कः। भवतोऽयं भावकः । ननु मथितं पण्यमस्य माथितिक इत्यत्र “यस्य यां च" [४॥४/१३६] इति खे कृते तान्तादिकस्य स्थानिवद्भावेन कादेशः प्राप्नोति । अजादिति निमित्तस्तकारो नाजादिं हन्ति । “सन्निपातलक्षणो विधिरनिमित्त तद्विघातस्य" [१०] "अनिशुचिहुसृपिच्छदिच्छदिभ्य इत्" [उ० सू०] इत्येवमादिना प्रतिपदोक्त योरिसुसोर्ग्रहणादिह न भवति । आशिषा तरति आशिषिकः । उपा चरति औषिकः। "श्राङः शासु इच्छायाम्" [धा०] "वस निवासे' [धा०] इत्येताभ्यां क्विपि “लिङाशिपि" [ १६] इति निपातनादित्वम् । “वसोजिः" [ २०] "शासिवसिघसाम्" [५।४।४०] इति पत्वं नसेऽपीत्यतोऽपिशब्दवृत्तेः “दोषोऽपीप्यते' [वा०] । दोा तरति दौष्कः । चजोः कुघिराण्ययोस्तेऽनिटः ॥२२॥५६॥ चकरजकारयोः कुत्यं भवति घिति ण्ये च परतः । पाकः । त्यागः । रागः । पाक्यम् । योग्यम् । भोग्यम् । न त्वत्र चकारस्य घिति जकारस्य णे साम्याद्यथासङ्घय प्राप्नोति "तेन रक्तं रागात् ॥२॥१] इति ज्ञापकात स्वरितलिङ्गाभावाद्वा न भवति । तेऽनिटः इति किम् ? कजः । खर्जः। गजः । समाजः। परिवाज्यम् । याच्यम् । अयम्। नन्यजेस्तेऽनिट इति कुल्वं प्राप्नोति । नैप दोषः । तेऽनिट इति विद्यमानस्य विशेषणम् । अजेल वीभावेनासत्त्वादविशेषणं तस्मात् समाज इति भवति । शुच्युज्योर्घमि ॥५॥२४५७॥ शुचि उब्जि इत्येतयोर्घजि परतः कुत्वं भवति । ते सेटाविमौ । शोकः । समदगः। उजेदंकारोङ्पक्षे कुत्वे कृते "उद्ग" इति । चुना योगे बत्यमुक्तं चुत्वाभावे न भवति । अथ समुद्गतः । समुद्ग इति । गमेडेन सिद्धम् । एवं तर्हि घञि उद्गेः जकारान्ततानिवृत्त्यर्थम् । न्य वादेः ॥२।५८॥ पूर्वेणाप्राते विधिः । न्यङ्कु इत्येवमादीनां च कुत्यं भवति । "नावञ्चेः” [उ० सू०] इत्युः । मद्गुः । मस्जेः “भृमृशीतृचरितनिमिमस्जिभ्य उः" [उ० सू०] जश्त्वम् । सस्य दः । भृगुः । भ्रस्जेः “प्रथिमृदिभ्रस्जां जिः सखं च" [उ० सू०] इति कुः। तक्रम् । चक्रम् । “स्फायितञ्चिवञ्चि" [उ० सू०] अादिसूत्रेण रक् । मेहतीति मेघः । इगङ्लक्षणः कः गणपाठादेप । शुनः पचतीति श्वपाकः । पचादिषु श्वपचशब्दोऽस्ति सोऽपि साधुः । अर्घअवदापनिदाघाः घनाः सज्ञाशब्दाः । अविहित लक्षणं कुत्वमिह ज्ञेयम् । हो हन्तेणिन्नि ॥५॥२॥५६॥ हन्तेह कारस्य कुत्वं भवति णिति त्ये नकारे घञि भावकरणे खपरतः । घातयति । घातकः । सर्वघाती । देशघाती | घाघातम् । घातो वर्तते। नकारे-ध्नन्ति । नन्नु। अनन् । ह इति किम् ? अलोऽन्त्यस्य मा भृत् । हन्तरिति किम् ? विहारः। णितीति किम् ? हतः। कथं यङयन्तस्य जनीति । अथ “चात् [५।२।६०] इति कुत्वमिष्यते । धुनिर्देशार्थस्तिप् । त्रिणद्ग्रहणं हन्तेविशेषणं जित्परस्य तेयों हकारस्तस्य । नकारो हकारस्य विशेपण म् । नकारे परतोऽनन्तरस्य हकारस्य स चेद्धन्तेरिति श्रीतं चानन्तर्य घ्नन्तीत्यादाविष्टं स्थानिवद्भावादेकेन व्यवधानं नाश्रितम् । वचनप्रामाण्यात् । सङ्घातेन पुनर्व्यवधानम् , हननमिच्छति हननीयति । तस्य ग्यौ हननीयकः । चात् ॥५॥२।६०॥ चादुत्तरस्य हन्तेह कारस्य कुत्वं भवति । अहं जघन। अणित्पने गलि । जवन्यते। जिघांसति । हन्तेर्यश्वः तस्मादत्परस्य कुत्वं च निमित्तत्वे तेनेह न भवति। हननीयितुमिच्छति जिननीयिपति । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy