________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ५ षा० २ ० ३८-४४] महावृत्तिसहितम् चात्राचो निमित्तत्वं भेदाभावात् । एवं तर्हि "द्वित्वेऽचि" [ ५६] इति सूत्रे द्वित्व इति योगविभागादिह स्थानिवद्भावः।
निकृतोर्युक ॥२॥३८॥ आकारान्तस्य गोः औ कृति णिति च परतः युगागमो भवति । अदायि । अधायि । दायः । धायः । दायकः। धायकः । जिकृतोरिति किम् ? ययौ । बभौ। वी। ज्ञा देवता अस्य अणि ज्ञः। .
न सेटस्तासि मोऽवमिकमिचमः ॥५॥२॥३९॥ मान्तस्य गोः तासि सेट: औ कृति निति च यदुक्त तन्न भवति । किञ्चोक्तम् ? णितीत्यनुवर्तनाद् "उङोऽतः" [५।२।४] इत्यैप । अशमि । अतमि । अदमि । शमकः । दमकः । तमकः । शमः । तमः । दमः । विश्रमः । कथं सूर्यविश्रामभूमिः ? प्रमादप्रयोग एषः । तासि सेट इति किम् ? यामकः । रामकः । म इति किम् ? चारकः । पाठकः । अवमिकमिचम इति किम् ? वामः । कामः । श्राचामः | जिकृतोरिति किम् ? शशाम | तताम। कथमुद्यमः । उपरमः ? “अड उद्यमे" [धा०] “यम उपरमे" [धा०] इति निपातनात् ।
जनिवध्योः ॥शरा४०|| जनि वधि इत्येतयोश्च निकृतोयदुक्तं तन्न भवति । अजनि । अवधि । जनकः । वधकः । जनः । वधः । वधिरिति प्रकृत्यन्तरं हलन्तमस्ति । तस्येदं ग्रहगाम् । न हनादेशस्यादन्तत्वात । तेन सिद्धम। "भक्षकश्चन्न विद्येत वधकोऽपि न विद्यते"।
अर्तिहीब्लीरीक्नूयीमाय्यातां पुग्णावेप ॥५॥२॥४१॥ गोरिति वर्तते । अति ही ब्ली री स्नूयी क्ष्मायो इत्येपामाकारान्तानां च गूना णौ परतः पुग् भवति एच । अतिरिति तिपा निर्देशः प्रकारान्तनिवृत्त्यर्थः । इयति ऋच्छति वा कश्चित् तं प्रयुङकते अपयति । हेपयति । दिलनातेब्लॅपयति | रीयते रिणातेश्च रेपयति । निरनुबन्धपरिभाषा नाश्रीयते । क्नूयी क्नोपयति । “वलि व्योः खम्" [४।३।५५] इति यखम् । “न धु
[91१11८] इत्येप्रतिषेधः प्राप्नोति अगनिमित्ते खे स प्रतिषेधः । वर्णनिमित्तं चेदम् । क्ष्मायी क्षमापयति । आकारान्तानाम् । दापयति । धापयति । लक्षणप्रतिपदोक्तपरिभालेह नाश्रीयते । ग्लापयति । अध्यापयति | "इकस्तो" [१1१1१७] इत्याश्रयणात् प्रातः एव न भवति । पुकः पूर्वान्तकरणं किम् ? दापयतेलुडि अदीदपदित्यत्र "णी कच्युङः” [५।२।११५] प्रादेशार्थः ।
शाच्छासाह्वाव्यावपां युक् ॥५॥४२॥ शा च्छा सा हा व्या वे पा इत्येतेषां णौ परतः युगागमो भवति । निशाययति । अपच्छाययति । अवसाययति । संह्वाययति । संवाययति । पाययति । शादीनां कृतात्वानां ग्रहणं लाक्षणिकस्यापि पूर्वेण पुकमाख्यातुम् । क्रापयति । जापयति । वेञ एकारान्तनिर्देश "औवै शोषणे" [धा०] इत्यस्य निवृत्त्यर्थः । वातेरुब्दिकरणादग्रहणम्: पाग्रहणे "पै ओवै शोषणे" [धा०] इत्यस्यापि ग्रहणम् । प्राकारान्तवर्गात् पृथक् पाठो लाक्षणिकल्यागार्थः इत्यन्ये । पातेलकं वक्ष्यति । युकः पूर्वान्तत्वं निशाययतेलुङि न्यशीशयदिति प्रादेशार्थम् ।
घो विधूनने जुक् ॥शरा४३।। वा इत्येतस्य विधूननेऽर्थे जुग्भवति णौ परतः । पक्षकेणोपवाजयति ।
गली" धिा. इत्यस्य ण्यन्तस्य किन्न रूपम् । नैवं वातेयुक स्यात् । विधूनन इति किम् ? अावापयति केशान् । "ओवै शोषणे" [धा०] इत्यस्येदं रूपम् । “धून्प्रीजोणों नुगिष्यते” इति विधूननवचनं ज्ञापकम् ।
४४॥ पातेलुगागमो भवति णौ परतः । पालयति शीलं गुरुः । तिपा निर्देशोऽनव्यिकरणनिवृत्त्यर्थः । यङ अन्तनिवृत्त्यर्थश्च । ननु पाल रक्षण • इति चौरादिकस्य रूपं भविष्यति । नात्रापि युक्स्थात् ।
For Private And Personal Use Only