________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३६४
जैनेन्द्र-व्याकरणम्
[अ० ५ पा० २ सू० ३१-३७
वाद्योः ॥ ५२२२३१ ॥ जङ्गल धेनु वलज इत्येतस्य योरचामादेरच एभवति वा । कौरुजाङ्गलः । कौरुजङ्गलः । वैश्वधैनवः । वैश्वधेनवः । सौवर्णवालजः । सौवर्गुवलजः । पूर्वेण नित्ये प्राप्ते विकल्पः ।
Acharya Shri Kailassagarsuri Gyanmandir
परिमाणस्याऽनतोऽर्धाद्वा पूर्वस्य || ५|२|३२|| परिमाणस्यार्द्धादुत्तरस्य श्रनतः स्थाने एं भवति पूर्वपदस्य तु वा । श्रर्धद्रोणं पचति आर्द्धद्रौणिकः । श्रर्द्धद्रौणिकः । ग्रार्धकौडविकः । अर्द्ध कौडविकः । " पूर्वपदस्य वा " इति वचनाद् ध्रुविशेषणं वाग्रहणं नेहाभिसम्बध्यते । नत इति किम् ? आई प्रस्थिकः । अर्द्धप्रस्थिकः । अर्धचमसेन क्रीतम् श्रार्धचमसिकम् । अर्धचमसिकम् ।
प्रवाहणस्य ढे ढस्य ||५|२|३३|| प्रवाहणस्य दे परतः चोरैम् भवति पूर्वपदस्य तु वा दान्तस्य चान्यस्मिन् हृतित परतः । प्रवाहणस्यापत्यं प्रावाहणेयः । " शुभ्रादेः " [ ३१।११२] इति ढण । ढान्तस्य प्रावाहणेयस्यापत्यं प्रावाहयिः । प्रवाहणेयिः । प्रवाहणेयस्येदम् । “वृद्धचरणान्नित्" [३।३।६४ ] इति वुञ् । प्रावाहणेयकम् । द्योरैपि सत्यसति च नास्ति विशेषः । पूर्वपदस्य विकल्पार्थः ।
नञः शुचीश्वरक्षेत्रज्ञकुशलच पलनिपुणानाम् ||५|२|३४|| चोरे पूर्वस्य वेति वर्तते । नमः परेषां शुचि ईश्वर क्षेत्रज्ञ कुशल चपल निपुरा इत्येतेषामचामादेरच ऐन्भवति पूर्वपदस्य तु वा । न शुचिरशुचिः प्रयुचेरिदम् अशौचमाशौचम् । अथवा नास्य शुचिरस्ति श्रशुचिः । अशुचेर्भावः “ध्यादेरिकः " [ ३|४|१२१] इत्यण...। “नञ्सेऽचतुरसङ्गत” [ ३ | ४|११५ ] इत्यत्र व्याख्यातम् । चतुरादिम्यो नञ्स एव भावकर्महद्विधिः । अन्येभ्यस्तु नत्र सात्पूर्वमिति । न पटोर्भावः अपाटवम् । तेन नञ्सेभावाभिधायी त्यो नोक्तः । श्रनैश्वर्यमानैश्वर्यम् । श्रौत्रज्ञ्यम् । श्राक्षैत्रज्ञयम् । ब्राह्मणादिषु नसावेतौ । श्रकुशलस्टम् कौशलमाकौशलम् । अचपलस्येदम् चापलमाचापलम् । श्रनिपुणस्येदम् नैपुणमानैपुणम् । यद्यपि कुशलचपलनिपुणशब्दा ब्राह्मणादिषु युवादिषु च पश्यन्ते तथापि तत्र तदन्तविवेरभावान्न से बसे वा कृते व्यणावप्राप्तावाकृतिगणत्वाद्द्रष्टव्यौ ।
वति ।
यथातथयथापुरयोः क्रमेण || ५||३५|| यथातथ यथापुर इत्येतयोः नञ उत्तरयोः क्रमेण द्वयोरेमयाथातथ्यमायथातथ्यम् । श्रयाथापुर्यमांत्रथापुर्यम् । ब्राह्मणादिषु नसावेतौ । यथातथा यथापुरा " सुप्सुपा” [१|३ | ३] इति सविधिः । श्रयथातथाभावः श्रयथापुरा मावः इति विग्रह: । सौत्रत्वान्निर्देशस्येति प्रान्तौ पठितौ । यदि वा " यावद्यथावधृत्य सादृश्ये” [१|३|६ ] इति हसे कृते पश्चान्नञ्सः । नन्वेका नसात्पूर्वं त्यविधिः अन्यत्र नसे । तेनोभयं सिद्धमतो व्यर्थमिदम् । न व्यर्थम् । नञ्सात्पूर्व प्राप्नोतीत्युक्तम् ।
हनस्तो ञिलोः ||५||३६|| हृतीति निवृत्तम् । ञिणलोरिति प्रतिषेधात् सामान्येन नियतीति वर्तते । हनस्तकारादेशो भवति णिति परतः अञिलोः । घातयति । घातकः । " श्रन्तेऽल: " [१|१|४६ ] इति नकारस्य तत्त्वम् । देशघाती । सर्वघाती । "सुपि शीलेऽजातौ खिन्” [२२२२६६] घातंघातम् । “राम चाभीये" [ २४८ ] इति णम् । द्वित्वम् । घञि घातः । सर्वत्र " हो हन्तेर्णिनि” [ ५/२/५६ ] इति कुत्वम् । मिलोरिति किम् ? धानि । जघान । इह कस्मान् न भवति वृत्र हतवानिति वृत्रहा । तस्येदं वनम् । "पादिन्धृतराजोऽणि " [४|४|१२३] इत्यखम् | "धोः स्वरूपग्रहणे तत्यविज्ञानम्” [प०] इति धोरे भवति ।
तो एल श्रः || ५|२|३७|| आकारान्ताद्गोरुत्तरस्य गल चौकारादेशो भवति । पपौ । तस्थौ । पा इत्येतस्माण्णलि परतः युगपत्त्रीणि कार्याणि प्राप्नुवन्ति द्वित्वमेकादेश त्वं च । तत्रैकादेशादनवकाशत्वेन परमत्वम् । द्वित्वादपि परत्वादैन् । इदानीमैपि कृते निमित्तनिमित्तिनोर्विभागाभावात् लिटि परतो द्वित्वनुच्यमानं न स्यात् । "द्वित्वेऽचि " [१|१|५६ ] इति स्थानिवद्भविष्यति । ननु द्वित्वनिमित्ते चि स्थानिवद्भाव उच्यते
For Private And Personal Use Only